भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 354, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 354

३२४ परिभाषेन्दुशेखरः [ ३ प्रकरणे- नन्वेवं संयोगसंज्ञासमाससंज्ञाऽभ्यस्तसंज्ञा अपि प्रत्येकं स्युरत आह— क्वचित्समुदायेऽपि ॥ ११७ ॥ —: ॐ :— ‘गर्गाः शतं दण्ड्यन्ताम्, अर्थिनश्च राजानो हिरण्येन भवन्ती’त्यादौ दण्डनवत् । लक्ष्यानुरोधेन च व्यवस्था ॥ ११७ ॥ ननु ‘यू स्त्र्याख्यावावि’त्यत्र व्यक्तिपक्षे दीर्घनिर्देशादनण्त्वेन ग्राहकसूत्रा- प्राप्त्या उदात्ताद्यन्यतमोच्चारणेऽन्यस्वरकस्य संज्ञा न स्यादत आह— अभेदका गुणाः ॥ ११८ ॥ —: ॐ :— असति यत्ने स्वरूपेणोच्चारितो गुणो न भेदको न विवक्षित इत्यर्थः । अत्र च ‘अस्थिदधी’त्यादौ अनङादेरुदात्तस्यैव उच्चारणेन सिद्धे उदात्तग्रहणं ज्ञापकम् । ‘स्वरूपेणोच्चारित’ इत्युक्तेरनुदात्तादेरन्तोदात्तादिति उदात्तादिशब्दो- च्चारणे विवक्षैव । ‘उञ्, ॐ’ इत्यत्राननुनासिके एवोच्चारणीये यत्नाधिक्येन समुदायेऽपीति । अभ्यस्तसंज्ञायामुभेग्रहणात् द्वित्वम्, समाससंज्ञायां सहग्रहणात् संयोगसंज्ञायामनन्तरेति पर्युदासाच्चानयोः साहित्यमुद्देश्यतावच्छेदकतया विवक्षित- मिति न प्रत्येकं ताः संज्ञा इति भावः । अर्थिन इति । वाक्यशेषबोधितप्राधान्यवतः शतस्याप्रधानगर्गानुरोधेन न आवृत्ति- रिति भावः । व्यवस्थेति । साहित्यस्य उपलक्षणत्वविशेषणत्वाभ्यामेतन्न्याययोर्व्यवस्थे- त्यर्थः ॥ ११७ ॥ अन्यस्वरकस्येति । अनुनासिकादेरुपलक्षणमिदम् । संज्ञा न स्यादिति । विरूपत्वेन ‘स्वं रूपमि’त्यनेन ग्रहणासम्भवादिति भावः । परिभाषासत्त्वे तु गुणातिरिक्तवैरूप्यप्रयो- जकधर्माभाववत एव ‘स्वं रूपमि’त्यनेन ग्रहणमिति बोध्यम् । स्वरूपेणेति । ‘असति यत्न’ इत्यस्यैवाव्युत्त्या अनुवादोऽयम् । ‘अनुदात्तादेरि’त्यत्र अजादेरित्येवानुदात्तादेः सिद्ध्या तत्रानुदात्तादिपदस्यैव यत्नरूपत्वात् । ज्ञापकमिति । न च ज्ञापितेति तद्ध्यर्थम्, भाव्यमानत्वेनान्यगुणकस्य अप्राप्तेरिति वाच्यम् ; भाव्यमान’परिभाषायाः स्वरत्वव्याप्यधर्मविषयेऽप्रवृत्तेः पूर्वमुपपादितत्वात् । अत एव ‘बहुवचने झल्येदि’त्यनेन उदात्तादिगुणकेकारविधानसिद्धिरित्यन्यत्र विस्तरः । अनुनासिके एवोच्चारणीय इति । न च पथीयेतेः क्विपि ‘पन्था’ इत्यादौ स्थानिनो निरनुनासिकस्यापि सम्भवादिदमसङ्गतमिति वाच्यम् ; तस्यानभिधानेन

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक) · पृष्ठ 354, कुल 373 में से · BharatKosha