परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 353, कुल 373 में से
संदर्भ में पढ़ें११५-११६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३२३ नन्वेवं देङो दोधातोश्च कृतात्त्वस्य घुसंज्ञा न स्यात्, तथा मेङ आत्त्वे ‘प्रणिमाते’त्यादौ ‘नेर्गदनदे’ति णत्वं न स्यात्, तथा ‘गै’ इत्यस्यात्त्वे ‘घुमास्थे’तीत्वं न स्यादत आह— गामादाग्रहणेष्वविशेषः ॥ ११५ ॥ —: ✤ :— अत्र च ज्ञापकं दैपः पित्वम् । तद्धि ‘अदाबि’ति सामान्यग्रहणार्थम् ; अन्यथा लाक्षणिकत्वादेव विधौ तद्ग्रहणे सिद्धे किं निषेधे सामान्यग्रहणा- र्थेन पित्वेन, तेन चैकदेशानुमतिद्वारा सम्पूर्णा परिभाषा ज्ञाप्यते । इयं च ‘लक्षणप्रतिपदोक्त’परिभाषा-‘निरनुबन्धक’परिभाषा-‘लुग्विक- रण’-परिभाषाणां बाधिका । ‘दा धा घ्वि’ति सूत्रे भाष्ये स्पष्टा । ‘गातिस्थे’ति सूत्रे इणादेशगाग्रहणमेवेष्यत इति