परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 352, कुल 373 में से
संदर्भ में पढ़ें३२२ परिभाषेन्दुशेखरः [ ३ प्रकरणे- 'पा' इति रूपं लक्षणानुसन्धानपूर्वकं विलम्बोपस्थितिकम् ; पिबतेस्तु तच्छीघ्रोपस्थितिकम् । इदमेव ह्येतत्परिभाषाबीजम् । इयं च वर्णग्रहणेऽपि, 'ओत्' सूत्रे भाष्ये सञ्चारितत्वात् । यत्तु वर्णग्रहणे नैषा, 'आदेच' इत्यत्र उपदेशग्रहणादिति; तत्तु तस्मि- न्नेव सूत्रे शब्देन्दुशेखरे दूषितमिति तत एव द्रष्टव्यम् । अनित्या चेयम्, 'भुवञ्च महाव्याहृतेरि'ति महाव्याहृतिग्रहणादित्य- न्यत्र विस्तरः ॥ ११४ ॥ स्वघटकपदवृत्त्यानुपूर्वीमत्पदघटितशास्त्रविधेयस्य ग्रहणात् 'विभाषा दिक्समास' इत्यत्र दिङ्नामानीति बहुव्रीहेरेव ग्रहणम् । अत्र उद्देश्यतावच्छेदकसम्पर्कज्ञानविषयीभूतेति विशेषणदानेन 'तृतीया समासे' इति शास्त्रीयोद्देश्यतावच्छेदकसर्वादित्वज्ञानाय उपयुज्य- मानाऽऽनुपूर्वी पूर्वत्वादिरूपा, तदवच्छिन्नोद्देश्यता 'पूर्वसदृशे'ति शास्त्रीया, तन्निरूपित- विधेयताश्रयसमासस्यैव प्रतिपदोक्तत्वात्तत्र ग्रहणम् । स्वावच्छिन्नत्वनिवेशाद् 'गातिस्थे'- त्यादौ पिबतेर्ग्रहणम् । सञ्चारितत्वादिति । अदोभवदि'त्यत्र प्रगृह्यत्वमाशङ्क्य 'ओतश्चिश्चप्रतिषेध' इति वार्तिकप्रत्याख्यानाय एषा तत्रोपन्यस्तेति बोध्यम् । दूषितमिति । केचित्तु-फलाभावाद्द्वर्णग्रहणे एतदप्रवृत्तिः । 'अदोभवदि'त्यादौ गौणमुख्यन्यायेन तद्वारणपरभाष्येण पूर्वभाष्यस्यैकदेशित्वबोधनादिति प्राहुः । अनित्येति । तेन 'भोभगो' इति सूत्रे लाक्षणिकानामपि वार्तिकनिष्पन्नानां ग्रहणं सिद्धम् । केचित्तु-धाग्रहणेन धेटो ग्रहणमिति प्राहुः ॥ ११४ ॥ पिबतेर्ग्रहणमिति । एवम् 'इको गुणवृद्धी' इत्यत्र आद्यसम्बन्धसत्त्वेऽपि द्वितीय- सम्बन्धाभावान्न दोषः, सार्वधातुकेत्यादिशास्त्रीयविधेयतायाः साक्षाद् गुणपदत्वेन अवच्छिन्नत्वा- भावात् गुणपदप्रयोज्योद्देश्यतानिरूपितत्वाभावाच्च । दूषितमितीति । प्राचीनाः खलु : 'आदेच' इति सूत्रे धातुग्रहणमनुवर्त्य एजन्तस्य धातोरित्यर्थेन 'गोभ्याम्, नौभ्याम्' इत्यत्र आत्त्ववारणात् उपदेशग्रहणं 'चेता, स्तोता' इत्यत्र आत्त्व- वारणाय । लाक्षणिकत्वेन तत्रापि वारणे उपदेशग्रहणं व्यर्थं सत् वर्णग्रहणे लक्षणप्रतिपदोक्तपरि- भाषानित्यत्वबोधनाय, अनित्यत्वफलञ्च 'क्रापयति' इत्यादौ पुक्सिद्धिरित्युपवर्णयन्ति स्म । तत्र धातुग्रहणानुवृत्तौ अनुबन्धविनिर्मुक्तस्य धातुसंज्ञा माङो व्यतिहारे इति निर्देशानुपपत्त्या तत्र तदनुवृत्तेरेकदेश्युक्तित्वं परिकल्प्य उपदेशग्रहणस्य 'गोभ्याम्, नौभ्याम्' इत्यत्र आत्त्ववारणाय आवश्यकत्वात् तदनित्यत्वज्ञापकत्वस्य अनुपपत्तेस्तन्मतं नव्यैर्दूषितमिति भावः । 'क्रापयति' इत्यादौ पुग्विधिस्तु महाव्याहृतिग्रहणेन परिभाषाऽनित्यत्वेन साधनीयः । एवञ्च वर्णग्रहणे न प्रवर्तत इत्यनुगतानित्यत्वं तु कल्पनीयमिति तत्त्वम् ॥ ११४ ॥