भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 351, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 351

Here is the complete and accurate transcription of the provided image line by line in Devanagari script:

११४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३२१ तत्तद्विभक्तिविशेषाद्यनुवादेन विहितो हि समासादिः प्रतिपदोक्तस्तस्यैव ग्रहणम्, शीघ्रोपस्थितिकत्वात् । द्वितीयो हि विलम्बोपस्थितिकः । 'पै' इत्यस्य यस्य पाशब्दस्यैव ग्रहणम्, न तु 'आदेच' इति शास्त्रविहितस्य पेधातुनिष्पन्नपाशब्द- स्येति बोध्यम् । नन्वेवं प्रतिपदोक्तत्वस्वीकारे 'त्यदादीनाम' इत्यादौ इक्पदानुपस्थितये 'इको गुणे'ति सूत्रे पूर्वसूत्रतो गुणादिपदानुवृत्तिकरणं भाष्योक्तमसङ्गतं स्यात् ; 'लक्षणप्रति- पदोक्त'परिभाषया तु नात्र निर्वाह' इति शेखरग्रन्थविरोधश्च ( 'इको गुणे'ति शास्त्रीयो- द्देश्यतावच्छेदकज्ञानाय उपयुज्यमाना आनुपूर्वी गुणादिशब्दत्वरूपा, तद्बद्गुणादिपदघटितं सार्वैत्यादिशास्त्रम्, तद्विधेयगुणादेरेव प्रतिपदोक्तत्वात् ग्रहणेन त्यदादीत्यादिविहित- गुणादेरग्रहणादेव तत्र वारणसम्भवात् ) इति चेन्न । स्वीयोद्देश्यतावच्छेदकं रूपं यत्र साक्षादन्यशास्त्रविधेयवृत्ति तत्रैतत्परिभाषाप्रवृत्तिस्वीकारेण 'इको गुणे'ति शास्त्रीयो- द्देश्यतावच्छेदकगुणशब्दत्वादेः सार्वैत्याद्यन्यशास्त्रीयविधेये साक्षादवृत्तित्वेन तत्रैतत्परि- भाषाप्रवृत्तेरभावेनादोषात् । अत एव च 'गतिकारकपूर्वपदस्ये'त्यत्र प्रतिपदोक्तपरि- भाषाया अप्रवृत्त्या बहुव्रीहेरपि ग्रहणेन 'आध्यै, प्रध्यै' इति भाष्योक्तबहुव्रीहौ यण्सिद्धि- रिति—केचित् । परे तु—स्वविशिष्टं स्वघटकपदेन प्रतिपदोक्ततया गृह्यते ; वैशिष्ट्यं च स्वीयो- द्देश्यतावच्छेदकरूपावच्छिन्नविधेयताश्रयत्व-स्वीयोद्देश्यतावच्छेदकसमर्पकज्ञानविषयी - भूतानुपूर्वीविशिष्टविधेयताश्रयत्वैतदुभयसम्बन्धेन ! अत्र वैशिष्ट्यं च—स्वावच्छिन्नत्व- स्वावच्छिन्नपदप्रयोज्योद्देश्यता निरूपितत्वैतदन्यतरसम्बन्धेन । आद्यसम्बन्धदानेन 'गति- कारके'त्यत्र प्रतिपदोक्तग्रहणासम्भवेन अविशेषाद् द्वयोर्ग्रहणम् । द्वितीयसम्बन्धदानेन स्वीयोद्देश्येति । यत्र शास्त्रे परिभाषा सञ्चारणीया, तत् स्वपदेन ग्राह्यम् । स्वीयोद्देश्यतावच्छेदकं रूपमिति । अत्रावच्छेदकता साक्षात्परम्परासाधारणी ग्राह्या । साक्षादन्यशास्त्रविधेयवृत्तीति । अत्र लाक्षणिकत्वेन प्रतिपदोक्तत्वेन वा अभिमतविधायकमेव अन्यशास्त्रेण ग्राह्यम्, न तु उदासीनशास्त्रम् ; अन्यथा 'अदेङ् गुणः' इति शास्त्रीयविधेये गुणपदे गुणपदत्वस्य साक्षाद्वृत्तितया दोष एव स्यात् । प्रतिपदोक्तत्वेन अभिमतवृत्तिविधेयतावच्छेदक- रूपावच्छिन्नोद्देश्यताकशास्त्रत्वं परिभाषालिङ्गमिति यावत् । परिभाषाप्रवृत्तिप्रयोजकप्रागुक्तलिङ्गकल्पनायां गौरवात्, मानाभावात् , गुणपदत्वरूपोद्दे- श्यतावच्छेदकस्य साक्षाद्विधेयवृत्तितया दोषतादवस्थ्याच्च । गुणवृद्धिपदानुवृत्त्यभावे 'इको गुणवृद्धी' इत्यस्य 'सङ्केतेन गुणवृद्धिपदवन्निष्ठविधेयताप्रयोजकपदघटितशास्त्रे इक् इति पदमुपतिष्ठते' इति तदर्थात् परम्परया गुणपदवत्त्वस्य तदीयोद्देश्यतावच्छेदकत्वादतः प्रकारान्तरेणाऽऽह— परे त्विति । स्वावच्छिन्नत्वेति । अवच्छिन्नत्वं साक्षाद् ग्राह्यम् । गतिकारकेत्यत्रेति । अत्र समासपदाभावेन समासत्वावच्छिन्नोद्देश्यताकत्वस्य अप्रसिद्धेरिति भावः । पूर्वपदेन समासा- क्षेपस्तु न, 'गतिकारकपूर्वे'त्येव पाठादित्यादि शेखरे स्पष्टम् । ४१