परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 351, कुल 373 में से
संदर्भ में पढ़ेंHere is the complete and accurate transcription of the provided image line by line in Devanagari script:
११४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३२१ तत्तद्विभक्तिविशेषाद्यनुवादेन विहितो हि समासादिः प्रतिपदोक्तस्तस्यैव ग्रहणम्, शीघ्रोपस्थितिकत्वात् । द्वितीयो हि विलम्बोपस्थितिकः । 'पै' इत्यस्य यस्य पाशब्दस्यैव ग्रहणम्, न तु 'आदेच' इति शास्त्रविहितस्य पेधातुनिष्पन्नपाशब्द- स्येति बोध्यम् । नन्वेवं प्रतिपदोक्तत्वस्वीकारे 'त्यदादीनाम' इत्यादौ इक्पदानुपस्थितये 'इको गुणे'ति सूत्रे पूर्वसूत्रतो गुणादिपदानुवृत्तिकरणं भाष्योक्तमसङ्गतं स्यात् ; 'लक्षणप्रति- पदोक्त'परिभाषया तु नात्र निर्वाह' इति शेखरग्रन्थविरोधश्च ( 'इको गुणे'ति शास्त्रीयो- द्देश्यतावच्छेदकज्ञानाय उपयुज्यमाना आनुपूर्वी गुणादिशब्दत्वरूपा, तद्बद्गुणादिपदघटितं सार्वैत्यादिशास्त्रम्, तद्विधेयगुणादेरेव प्रतिपदोक्तत्वात् ग्रहणेन त्यदादीत्यादिविहित- गुणादेरग्रहणादेव तत्र वारणसम्भवात् ) इति चेन्न । स्वीयोद्देश्यतावच्छेदकं रूपं यत्र साक्षादन्यशास्त्रविधेयवृत्ति तत्रैतत्परिभाषाप्रवृत्तिस्वीकारेण 'इको गुणे'ति शास्त्रीयो- द्देश्यतावच्छेदकगुणशब्दत्वादेः सार्वैत्याद्यन्यशास्त्रीयविधेये साक्षादवृत्तित्वेन तत्रैतत्परि- भाषाप्रवृत्तेरभावेनादोषात् । अत एव च 'गतिकारकपूर्वपदस्ये'त्यत्र प्रतिपदोक्तपरि- भाषाया अप्रवृत्त्या बहुव्रीहेरपि ग्रहणेन 'आध्यै, प्रध्यै' इति भाष्योक्तबहुव्रीहौ यण्सिद्धि- रिति—केचित् । परे तु—स्वविशिष्टं स्वघटकपदेन प्रतिपदोक्ततया गृह्यते ; वैशिष्ट्यं च स्वीयो- द्देश्यतावच्छेदकरूपावच्छिन्नविधेयताश्रयत्व-स्वीयोद्देश्यतावच्छेदकसमर्पकज्ञानविषयी - भूतानुपूर्वीविशिष्टविधेयताश्रयत्वैतदुभयसम्बन्धेन ! अत्र वैशिष्ट्यं च—स्वावच्छिन्नत्व- स्वावच्छिन्नपदप्रयोज्योद्देश्यता निरूपितत्वैतदन्यतरसम्बन्धेन । आद्यसम्बन्धदानेन 'गति- कारके'त्यत्र प्रतिपदोक्तग्रहणासम्भवेन अविशेषाद् द्वयोर्ग्रहणम् । द्वितीयसम्बन्धदानेन स्वीयोद्देश्येति । यत्र शास्त्रे परिभाषा सञ्चारणीया, तत् स्वपदेन ग्राह्यम् । स्वीयोद्देश्यतावच्छेदकं रूपमिति । अत्रावच्छेदकता साक्षात्परम्परासाधारणी ग्राह्या । साक्षादन्यशास्त्रविधेयवृत्तीति । अत्र लाक्षणिकत्वेन प्रतिपदोक्तत्वेन वा अभिमतविधायकमेव अन्यशास्त्रेण ग्राह्यम्, न तु उदासीनशास्त्रम् ; अन्यथा 'अदेङ् गुणः' इति शास्त्रीयविधेये गुणपदे गुणपदत्वस्य साक्षाद्वृत्तितया दोष एव स्यात् । प्रतिपदोक्तत्वेन अभिमतवृत्तिविधेयतावच्छेदक- रूपावच्छिन्नोद्देश्यताकशास्त्रत्वं परिभाषालिङ्गमिति यावत् । परिभाषाप्रवृत्तिप्रयोजकप्रागुक्तलिङ्गकल्पनायां गौरवात्, मानाभावात् , गुणपदत्वरूपोद्दे- श्यतावच्छेदकस्य साक्षाद्विधेयवृत्तितया दोषतादवस्थ्याच्च । गुणवृद्धिपदानुवृत्त्यभावे 'इको गुणवृद्धी' इत्यस्य 'सङ्केतेन गुणवृद्धिपदवन्निष्ठविधेयताप्रयोजकपदघटितशास्त्रे इक् इति पदमुपतिष्ठते' इति तदर्थात् परम्परया गुणपदवत्त्वस्य तदीयोद्देश्यतावच्छेदकत्वादतः प्रकारान्तरेणाऽऽह— परे त्विति । स्वावच्छिन्नत्वेति । अवच्छिन्नत्वं साक्षाद् ग्राह्यम् । गतिकारकेत्यत्रेति । अत्र समासपदाभावेन समासत्वावच्छिन्नोद्देश्यताकत्वस्य अप्रसिद्धेरिति भावः । पूर्वपदेन समासा- क्षेपस्तु न, 'गतिकारकपूर्वे'त्येव पाठादित्यादि शेखरे स्पष्टम् । ४१