परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 356, कुल 373 में से
संदर्भ में पढ़ेंमिति सूत्रनिर्देशः ; अन्यथा “प्रत्यये भाषायामि”ति नित्यमनुनासिकः स्यात् । जातिपक्षे तु नास्योपयोग इति बोध्यम् । 'यू' इत्यादौ दीर्घमात्र- वृत्तिजातिनिर्देशान्न क्षतिरित्यन्यत्र विस्तरः ॥ ११८ ॥ ननु 'सर्वनामानी'त्यत्र णत्वाभावनिपातनेऽपि लोके सणत्वप्रयोगस्य साधुत्वं स्यादत आह— बाधकान्येव निपातनानि ॥ ११९ ॥ —: ❖ :— तत्तत्कार्ये नाप्राप्ते निपातनारम्भात् । 'पुराणप्रोक्तेष्वि'ति निपातित- पुराणशब्देन पुरातनशब्दस्य बाधः प्राप्तोऽपि पृषोदरादित्वान्नेति बोध्यम् । पुराणेति पृषोदरादिः पुरातनेति चेत्यन्ये । इयं सर्वादिसूत्रे भाष्ये स्पष्टा । अबाधकान्यपि निपातनानीति तु भाष्यविरुद्धम् ॥ ११९ ॥ इति चेन्न । 'असुब्बत' इति भाष्योदाहृतस्य उपलक्षणत्वेनादोषात् । ननु जातिपक्षे 'यू स्त्र्याख्यावि'त्यत्र ह्रस्वस्यापि ग्रहणं स्यात्, इत्त्वादिजातेस्तत्र सत्त्वादित्यत आह— दीर्घमात्रवृत्तीति । दीर्घनिर्देशसामर्थ्याद्दीर्घमात्रवृत्तिजातिरेव विवक्षितेति भावः ॥ ११८ ॥ णत्वाभावनिपातनेऽपीति । न च णकारघटिता यत्र संज्ञा लोके प्रसिद्धा, तत्रैव णत्वस्य साधुत्वम्, अत एव रघुनाथादिशब्दे णत्वं न, तथा च प्रकृतेऽपि णत्व- घटितस्य तस्य लोकेऽभावान्न णकारघटितस्य साधुत्वमिति वाच्यम् ; सर्वनामसंज्ञायाः पाणिनिकल्पितत्वेन शास्त्रानुसारिसंज्ञाकरणस्यौचित्यात्, णत्वघटितसंज्ञाकरणे तु तेनैव लोकेऽपि संज्ञिबोधसम्भवात् णघटितस्य साधुतापत्तेरित्याशयात् । पृषोदरादित्वादिति । पुरातनशब्देन निपातनात् प्राप्तस्तकारलोपः पृषोदरादिषु पाठसामर्थ्यात् पक्षे न भवतीत्यर्थः । अन्य इति । पृषोदरादिषु पुराणपुरातनयोर्द्वयोरपि पाठेन उभयसिद्ध्या निपादन- क्लेशो नेत्यस्मिन् पक्षे लाघवं बोध्यम् । अबाधकान्यपीति । पुरातनशब्दस्य लोके साधुत्वार्थं वृत्तिकृतैतदुक्तम् । अत एव 'श्रावणी'त्यपि सिद्ध्यति । भाष्यविरुद्धमिति । सर्वादिसूत्रस्थभाष्यविरुद्धमित्यर्थः । तत्र हि बाधकानि निपातनानीति स्वीकारे 'अपरम्पराः क्रियासातत्ये" इति निपात- नात् समो मस्य लोपेन सततशब्दस्य लोके साधुत्वेऽपि सन्ततशब्दस्य असाधुत्वापत्ति- रित्युक्त्वा "समो वा हिततयोरि"ति यत्नान्तरस्वीकाराभिप्रायेण समाहितम् । 'अबाधकानी'त्यस्य सत्त्वे तु तेनैव सन्ततशब्दस्यापि साधुत्वसिद्धौ समो वेति वचनारम्भेण समाधानासङ्गत्यापत्त्या तद्विरोधः स्पष्ट एव । 'श्रावणी'ति तु पृषोदरा- दित्वात् साध्विति तदाशयः ।