परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 358, कुल 373 में से
संदर्भ में पढ़ेंननु 'स्यन्दू'धातोः 'स्यन्त्स्यती'त्यादौ आत्मनेपदनिमित्तत्वाभाव- तल्लक्ष्यत्वं च स्वीयप्राथमिकप्रवृत्तौ उद्देश्यतावच्छेदकावच्छेदेन आश्रीयमाणो यावान् शब्दसमुदायस्तद्विशिष्टाघटितत्वे सति स्वीयप्राथमिकप्रवृत्तिपूर्वकालिकप्राप्ति- विषयाघटितत्वम्। वैशिष्ट्यञ्च—स्वाघटकत्व-स्वघटकमात्रोद्देश्यकविकारागमाति- रिक्तत्वैतदुभयसम्बन्धेन। ( 'सुध्युपास्ये'त्यत्र 'अनचि चे'ति शास्त्रप्रवृत्तौ पदत्वरूप- स्वीयोद्देश्यतावच्छेदकरूपेण आश्रीयमानसमुदायः 'सुध् य्' इति, तद्घटकत्वं यद्यपि द्वित्वनिष्पन्ने द्वितीयधकारेऽस्ति; तथापि द्वितीयसम्बन्धाभावात् तदुभयसम्बन्धेन तादृशसमुदायविशिष्टः उदासीनः, तद्घटितत्वं 'सुध्य्' इत्यस्येति तल्लक्ष्यत्वान्न पुनर्द्वित्वं धस्येति समन्वयः।) 'यून' इत्यत्र 'श्वयुवे'ति शास्त्रीयवकारनिष्ठप्राथमिक- प्रवृत्तिपूर्वकालिकप्राप्तिर्यकारनिष्ठा, तद्विषयाघटितत्वाभावेन तल्लक्ष्यत्वाभावात् पुनः सम्प्रसारणप्राप्तौ 'न सम्प्रसारणे सम्प्रसारणमि'ति निषेधश्चरितार्थः। एतत्सूत्रमेवात्र लक्षणे तन्निवेशे मानम्। अत एव 'भूयादि'त्यत्र सकारद्वयस्य लोपः सिद्धयति। मात्रपदन्निवेशात् 'काण्डे' इत्यादौ तल्लक्ष्यत्वाभावेन पुनः प्राप्तस्य ह्रस्वस्य प्रकारान्तरेण वारणपरं भाष्यं सङ्गच्छते। 'षड्धु+सन्त' इत्यत्र 'खरि चे'त्यस्य प्राथमिकी धकारनिष्ठा प्रवृत्तिः, तत्पूर्वकालिकप्राप्तिर्डकारनिष्ठा, धुट्प्रवृत्तेः पूर्वं डकारे 'खरि चे'त्यस्य प्राप्तिसत्त्वात्, तादृशप्राप्तिविषयडकारघटितत्वेन तल्लक्ष्यत्वाभावात् डकारे चर्त्वं सिद्ध्यति। न चैवमपि 'या से'त्यादौ टापा सह एकादेशोत्तरं पुनस्त्यदायत्वा- पत्तिः, 'काण्डे' इत्यनेन तुल्यत्वादिति वाच्यम्; 'न यासयोरि'ति निर्देशेन टापा सह एकादेशस्थले तल्लक्ष्यत्वज्ञापनेनादोषात्। मात्रपदघटितनिवेशेन स्वोद्देश्यकविभक्त्य- नुद्देश्यकत्वस्य ग्रहणेन टाबैकादेशस्य स्वघटकमात्रोद्देश्यकविकारत्वेन तदितराघटितत्व- रूपतल्लक्ष्यत्वसत्त्वेन अदोषाच्च। न च 'दीव्यती'त्यत्र श्यन्प्रवृत्त्युत्तरं दीव्येति समुदायस्य तल्लक्ष्यत्वाभावेन पुनः श्यनापत्तिः, श्यनः स्वीयप्राथमिकप्रवृत्तौ आश्रीयमाण'दिव्ती'ति समुदायाघटकत्वेन तत्समुदायघटकमात्रोद्देश्यकविकारेतरत्वेन च स्वविशिष्टत्वात्। न च विकारपदेन प्रत्ययस्यापि ग्रहणेनादोष इति वाच्यम्, हेतुमण्ण्यन्तस्य तल्लक्ष्यत्वापत्त्या पुनस्तत्तो हेतुमण्णिचोऽनुत्पत्तिप्रसङ्गादिति वाच्यम्; विशिष्टपदेनैतल्लक्षणे विकरणेतरस्य ग्रहणेना- दोषात्। श्यनादीनां प्रत्ययत्वेन स्वप्रकृतिभूतधात्वर्थप्रत्यायकतया कर्त्रर्थत्वाभावेन पुनस्तत्प्राप्तेर्दुर्वचत्वाच्च। भाष्यगूढार्थविदस्तु-तच्छास्त्रस्य प्रथमप्रवृत्तौ यद्घटकस्य स्वघटकेन येन पदेन ग्रहणम्, पुनः प्रवृत्तौ तेन पदेन तद्घटकस्य तदर्थकविकारस्य त