परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 362, कुल 373 में से
संदर्भ में पढ़ें३३२ परिभाषेन्दुशेखरः [ ३ प्रकरणे- यत्र च सिद्धत्वासिद्धत्वयोः फले विशेषस्तत्रैवेयम् । ‘कृष्णर्द्धिरि’त्यादौ जश्त्वात्पूर्वमनन्तरं वा द्वित्वे रूपे विशेषाभावेन नास्याः प्रवृत्तिरित्यन्यत्र विस्तरः । ‘सर्वस्य द्वे’ इति सूत्रे भाष्ये स्पष्टेयम् ॥ १२६ ॥ ननु ‘गोष्वश्वेषु च स्वामी’त्यादिवद् ‘गोष्वश्वानां च स्वामी’त्यपि स्यात्, ‘स्वामीश्वरे’ति सूत्रेण षष्ठीसप्तम्योर्विधानादत आह— एकस्या आकृतेश्चरितः प्रयोगो द्वितीयस्यास्तृतीयस्याश्च न भविष्यति ॥ १२७ ॥ —: ✿ :— यत्रान्याकृतिकरणे भिन्नार्थत्वसम्भावना तद्विषयोऽयं न्याय इत्यन्यत्र विस्तरः । ‘कृञ्चानुपयुज्यते’ इति सूत्रे भाष्ये स्पष्टेयम् ॥ १२७ ॥ ‘द्युभ्यामि’त्यादौ वकारद्वित्वोत्तरमुत्वे तत्पूर्वं वकारश्रवणापत्तेः । अत्र द्वित्वपदेनाष्ट- मिकं पदद्वित्वं वर्णद्वित्वं षाष्ठद्वित्वं च गृह्यते, विनिगमनाविरहादिति स्पष्टमाकरे । अत एव ‘वाक्क्’ इति भाष्योक्तं द्वित्वोदाहरणं सङ्गच्छते । इयं चानित्या ‘उभौ साभ्यासस्ये’ति लिङ्गादित्यन्यत्र विस्तरः । ‘नमुने’ इत्यत्र नेति योगविभागोऽस्या ज्ञापक इति—केचित् । अन्ये तु—ग्राहकसूत्रेऽजिति वक्तव्येऽण्ग्रहणमस्यां ज्ञापकम् । तद्धि ‘सँय्यन्ता, विद्वाँल्लिखती’त्यादौ ‘अनुनासिकयवलानां यत्त्वंबोधनद्वारा द्वित्वार्थम् । एतत्परि- भाषाया अभावे तु द्वित्वात्पूर्वं परसवर्णस्य दौर्लभ्यात्तद्वैयर्थ्यापत्तिः स्पष्टैवेति प्राहुः ॥ १२६ ॥ एकस्या आकृतेरिति । अस्यां यत्र तत्रेति शेषः । आकृतिः = श्रावणप्रत्यक्ष- विषयतावच्छेदको धर्मः । आश्रये चोपचारात्प्रयोगः । तस्य चार्थवत एव व्याख्यानाद् ग्रहणम् । तथा च यत्र वाक्ये यदर्थकयद्धर्मवतः प्रयोगोऽस्ति, तत्र वाक्ये तदर्थकतद्धर्मवत एव सति सम्भवे प्रयोगो भवति, न तु तदर्थकभिन्नधर्मवंत इति परिभाषार्थः । भिन्नार्थत्वसम्भावनेति । तथा च समानार्थकसमानधर्मवति एकस्मिन् तात्पर्या- वधारणेऽन्यत्र तादृशे शब्दे तात्पर्यग्राहकान्तरानपेक्षेति लाघवमेवात्र बीजमिति सूचितम् । अत एव सुध्युपास्यशब्दे द्विधमेकयमित्युक्तं सङ्गच्छते । कृञ्चानुपयुज्यत इति । तत्र हि “आमन्तस्य लिडन्ततया प्रकृतन्यायेनानुप्रयुज्य- मानाः कृञ्भ्वस्तयोऽपि लिट्परा एव भवन्तीति व्यर्थं कृञ्चानुपयुज्यते इत्यत्र लिड्- ग्रहणमि”त्युक्तम् ॥ १२७ ॥