परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 363, कुल 373 में से
संदर्भ में पढ़ें१२८-१३० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३३३ ननु 'विव्याधे'त्यादौ परत्वाद् 'हलादिः शेषे' वस्य सम्प्रसारणं स्या- दत आह— सम्प्रसारणं तदाश्रयं च कार्यं बलवत् ॥ १२८ ॥ —: ✤ :— तदाश्रयं 'सम्प्रसारणाच्चे'ति पूर्वरूपम् । वस्तुतो 'लिट्यभ्यासस्ये'ति सूत्रे उभयेषां ग्रहणस्योभयेषां सम्प्रसा- रणमेव यथा स्यादित्यर्थकत्वेनेदं सिद्धमित्येषा व्यर्थेति 'लिट्यभ्यासस्ये'ति सूत्रे स्पष्टम् । फलान्तरान्यथासिद्धिरपि तत्रैव भाष्ये स्पष्टा । 'णौ च संश्चङोरि'त्यादौ संश्चङोरित्यादि विषयसप्तमीति तत्रापि न दोष इत्य- न्यत्र विस्तरः ॥ १२८ ॥ यत्तु— क्वचिद्विकृतिः प्रकृतिं गृह्णाति ॥ १२९ ॥ —: ✤ :— तेन 'निसमुपविभ्यो ह्व' इत्यत्र ह्वाग्रहणेन ह्वेञो ग्रहणसिद्धिः । तथा— औपदेशिकप्रयोगिकयोरौपदेशिकस्यैव ग्रहणम् ॥ १३० ॥ —: ✤ :— तेन 'दादेर्धातोर्घ' इत्यत्र औपदेशिकधातोरेव ग्रहणमिति । —तन्न ; तयोर्निर्मूलकत्वाद्भाष्याव्यवहृतत्वाच्च, "न च विकृतिः प्रकृतिं गृह्णाती"ति 'ग्रहिज्ये'ति सूत्रस्थभाष्येण आद्यायास्तिरस्काराच्च । 'निसमुपविभ्यो ह्व' इत्यादौ ह्वेञोऽनुकरणे सौत्रः प्रयोगः । इदं सिद्धमिति । 'विव्याधे'त्यादि वच्यादिग्राह्याद्युद्देश्यकसम्प्रसारणविषयलक्ष्य- सिद्धमित्यर्थः । व्यर्थेति । नन्वेतदभावे 'भृष्ट' इत्यत्र रमागमापत्तिः, 'जुहुवतुर्'इत्यत्र सम्प्रसारणपूर्वरूपे बाधित्वा परत्वादातो लोपापत्तिः, 'शुशुवतुर्'इत्यत्र सम्प्रसारणं बाधित्वेयङापत्तिरित्यत आह—अन्यथासिद्धिरिति । सम्प्रसारणस्य नित्यत्वेन पूर्वरूपस्य अन्तरङ्गत्वेन पूर्वं प्रवृत्त्या दोषाभावेनैतस्या वैयर्थ्यमिति भावः । इत्यादाविति । आदिना 'स्वपिस्थमिव्येत्रां यङी'त्यस्य सङ्ग्रहः ; अन्यथा 'वेवीयत' इत्यत्रान्तरङ्गत्वात् सम्प्रसा- रणात्पूर्वं द्वित्वे उत्तरखण्डस्यैव सम्प्रसारणेऽनिष्टरूपापत्तिरिति भावः ॥ १२८ ॥ सौत्रः प्रयोग इति । अत्र सूत्रे शित्परकत्वाभावेन ह्वेञ आत्त्वे 'आतो धातोर्'-