परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 364, कुल 373 में से
संदर्भ में पढ़ें३३४ परिभाषेन्दुशेखरः [ ३ प्रकरणे- आत्त्वविषय एवाऽऽत्मनेपदम्, प्रयोगस्थानामेवानुकरणस्य घुसंज्ञासूत्रे भाष्ये स्पष्टमुक्तत्वादित्यन्ये । अन्त्यापि तत्रोपदेशग्रहणं कुर्वतः सूत्रकृतो वार्तिककृतश्चासम्मता । “इह हि व्याकरणे सर्वेष्वेव सानुबन्धकग्रहणेषु रूपमाश्रीयते यत्रास्यैतद्रूप- मिति, रूपनिर्ग्रहश्च शब्दस्य नान्तरेण लौकिकं 'प्रयोगम् । अस्मिंश्च लौकिके प्रयोगे सानुबन्धकानां प्रयोगो नास्तीति कृत्वा द्वितीयः प्रयोग उपास्यते, क उपदेशो नाम ?” इति घसंज्ञासूत्रस्थभाष्येण प्रायोगिकासम्भवे तद्ग्रहण- मित्यर्थस्य लाभेन भाष्यासम्मता च । भाष्ये सानुबन्धकेत्यादि प्रकृताभिप्रायेण । 'दादेर्ध्रि'ति सूत्रे दादिपदस्य औपदेशिकदादित्ववति लक्षणेति न दोष इत्यन्यत्र विस्तरः ॥१२९,१३०॥ यदपि ननु