परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 366, कुल 373 में से
संदर्भ में पढ़ें३३६ परिभाषेन्दुशेखरः [ ३ प्रकरणे- न च आर्धधातुकाक्षिप्तधातोरेकाच इति विशेषणम्। एवं च 'बिभित्स- ती'त्यादावुत्तरखण्डस्य धातोरेकाच्त्वमस्त्येव उत्तरखण्डेऽस्तित्ववत्। एतच्च 'दयतेरि'ति सूत्रे भाष्ये स्पष्टम्। एवं च प्रकृतभाष्यासङ्गतिरिति वाच्यम्; आक्षेपे आक्षिप्तस्यान्वये च मानाभावात्। अङ्गत्त्वं तु विशिष्ट एवेति 'एकाचो द्वे' इति सूत्रे भाष्ये स्पष्टम्। निरूपितं च तनादिशेषे शब्देन्दुशेखरे। धातुत्वं तु उत्तरखण्ड एव। अत एव 'एकाचो बशो भष्'ति सूत्रे धातोरवयवस्यैकाच इति वैयधिकरण्येनान्वये गर्धप्सिद्धिः प्रयोजनमुक्तं भाष्ये, न तु प्रसिद्धम् 'अजर्घा' इति। 'अजर्घा, बेभिदीती'त्यादौ श्नमश्न्यनादयस्तु 'चर्करीतं चे'त्यस्याऽदादौ पाठेन यङ्लुगन्ते गणान्तरप्रयुक्तविकरणस्याप्राप्त्या न भवन्ति। छान्दसत्वादेव कार्यान्तराणामपि छन्दसि दृष्टप्रयोगेष्वदृष्टानाम्भावो बोध्यः। भाषायां तु तादृशानामभाव एव। शिप्शबादिनिर्देशास्तु 'भवतेर' इत्यादिसूत्रस्थतन्निर्देशवन्नार्थसाधका इत्यन्यत्र विस्तरः ॥ १३१ ॥ अङ्गत्त्वं तु विशिष्ट एवेति। द्वित्वनिष्पन्ने 'दयतेरि'ति सूत्रस्थभाष्यात् प्रकृतिवृत्त्य- र्थवत्त्वव्याप्यधातुत्वादिधर्मातिदेशेऽपि प्रकृतित्वानतिदेशेन “सैव च प्रकृतिराद्ये”ति प्रत्यभिज्ञानात् द्वित्वोद्देश्यस्य प्रकृतित्वेन विशिष्टे तत्त्वं सुवचमिति भावः। अत एवेति। उत्तरखण्डे एव धातुत्वसत्त्वादित्यर्थः। 'अजर्घा' इत्यस्य प्रसिद्धत्वं स्वन्यत्रोदाहृतत्वाद् बोध्यम्। 'चर्करीत'शब्दो यङ्लुङन्तपरः। अत एव सप्तमे भाष्ये 'किरति चर्करीतान्त- मि'ति प्रयोग उपपद्यते। नार्थसाधका इति। तेषां भाष्याविचारितप्रयोजनकत्वेन पारायणादिनाऽदृष्टार्थ- साधकत्वमेव कल्पयितुं युक्तमिति भावः। विस्तर इति। परे तु—अत्र सूत्रे 'अज्वत' इत्युकावप्युपदेशेऽनुदात्तस्यानज्वतो- ऽप्रसिद्धेः' सामर्थ्यात्तस्योपदेशावच्छेदेनैकाच इत्यर्थात् उपदेशावच्छेदेनानुदात्तादित्य- र्थाद्वा वधिव्यावृत्तिसिद्ध्या एकपदघटितम् 'एकाजि'ति पदं व्यर्थं सदुक्तपरिभाषायां ज्ञापकम्। किञ्च यङ्लोपे 'बेभिदिते'त्यादिभाष्ये यङ्लोपे दोषवारणाय स्थानि- वत्त्वस्येव यङ्लुक्युपायान्तरस्याप्रदर्शनेन इडागमस्य तत्रेष्टत्वमवगत्य उक्तपरिभाषाया भाष्याभिमतत्वमेव। इड्विषये यङ्लुको लोकेऽनभिधानकल्पने तु न मानम्। किञ्च तस्य छान्दसत्वेऽपि छान्दसरूपसाधकान्यप्रमाणप्रणयनवदेतत्परिभाषा- रूपप्रमाणाभ्युपगमे बाधकाभावः। किञ्च 'यङ्लोप' इति भाष्ये यङ्लुकि- उपायाप्रदर्शनरूपन्यूनतापत्तिपरिहाराय यङ्लुगन्तेड्विषयलक्ष्याणां लोकेऽनभिधान- कल्पनापेक्षया परिभाषाया भाष्याभिमतत्वकल्पनाया एव न्याय्यत्वम्। किञ्च 'एकाच' इति सूत्रशेषे भाष्ये आयुदात्तनिपातनस्वरस्य प्रकृतिस्वरबाधकत्वकल्पनेन 'बधिषीष्टे'त्यादौ उपदेशोऽनुदात्तत्वाभावेन निषेधाविषयत्वोक्तावपि सूत्रे एकाज्-