भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 43, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 43

२-३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १३ त्यस्य देशे 'वृद्धिरादैज्'त्यस्य पुनर्वाक्यार्थबोधात् तेन सह पदैकवाक्यता। अत्र पक्षे विधिदेश एक संज्ञाशास्त्रस्य सफलवाक्यार्थबोधाद्विदेशीयत्वमेव। अत एव 'अयादिभ्यः परैव प्रगृह्यसंज्ञे'ति भाष्यं सङ्गच्छते। 'अमी' इत्यत्र च 'अणोऽप्रगृह्यस्ये'- त्येतदेकवाक्यतापन्ना'दसो मादि'त्येतद्दृष्ट्या मीत्वस्य सिद्धत्वेन प्रगृह्यसंज्ञायां नानुनासिकः। यथोद्देशपक्षे तु 'वृद्धिरादैज्'त्यस्य वाक्यार्थबोधरूपे शक्तिग्रहे वृत्ते, भविष्यति किञ्चिदनेन प्रयोजनमिति भाविफलानुसन्धानापेक्षाबुद्ध्या आचार्यवाक्ये विश्वासवता छात्रेण तदभ्यासेन दृढतरसंस्कारेण 'मृजेर्वृद्धिर्'त्येत- द्वाक्यार्थबोधकाले एकसम्बन्धिज्ञानमितिविधया संस्कारोद्बोधे सति आदेचामुपस्थितौ 'वृद्धिरादैजि'त्येत