परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 44, कुल 373 में से
संदर्भ में पढ़ें२४ परिभाषेन्दुशेखरः [ १ प्रकरणे- वाक्येन सहैव। अत एव 'अणोऽप्रगृह्यस्ये'त्येतदेकवाक्यतापन्ना'ऽदसो मादि'- स्थितौ न पुनर्वाक्यार्थबोधापेक्षा। परिभाषाविषय एवेदृशजिज्ञासुसत्त्वे प्रमाणञ्च निरुक्तभाष्यकैयटायेव। एवं शिष्यजिज्ञासया ये विधय उपस्थितास्तद्विषय एव यथो- देशत्वम्, अनुपस्थितविधिविषये कार्यकालत्वम्। 'पूर्वत्रासिद्धमि'त्यनेन त्रैपाद्या असि- द्धत्वात् पूर्वोक्तशिष्यजिज्ञासायां सत्यामपि आचार्येण त्रैपादिकस्य नोपस्थितिः कृता, अत्रापि भाष्यादिव्यवहार एव शरणमिति प्राहुः। अत एवेति। प्रदेश एव सफलवाक्यार्थबोधेन प्रदेशस्य मुख्यदेशत्वादेवेत्यर्थः। प्राहुरिति। अत्रायं परिभाषाविषये प्राचीन-नवीनमतविवेकः—नव्यमते यथोद्देशपक्षे परिभाषादेशे एव विधिशास्त्राणामुपस्थित्या पदैकवाक्यतयैव लक्ष्यसंस्कारको बोधः, विधि- शास्त्राणामुपस्थितौ च 'सप्तमीनिर्देशादि क्व' इति छात्राणां जिज्ञासैव बीजम्। प्राच्यमते तु—अस्ति किञ्चिदस्याः प्रयोजनमित्युपेक्षाबुद्धिपूर्वकं परिभाषावाक्यार्थबोधः स्वदेशे एव, एकवाक्यतया बोधस्तु विधिदेशे एव। नवीनमते स्वदेशे पदैकवाक्यतयैव लक्ष्यसंस्कारक- बोधोदयेनोपेक्षाबुद्धेरनवकाशेन येषां दैवाद् देशे उपस्थानं तेषु यथोद्देशः, येषां चानुपस्थितिस्तैः स्वदेशे स्वसंस्काराय परिभाषाशास्त्रविधेयमात्रमुपस्थाप्यते इत्ययमेव कार्यकालपक्षः, न तु परिभाषा तत्रोपतिष्ठते। एवञ्च नव्यमते नोपेक्षापेक्षाबुद्धी तत्पक्षयोर्बीजमूले इति वेदितव्यम्। 'न च कार्यकालपक्षे ङमो ह्रस्वादीत्यादावि'ति मूलोक्तशङ्काग्रन्थस्तु प्राचामनुरोधेन। प्राचीनमते तु त एव बीजभूते इति कार्यकालपक्षे परिभाषाया एव विधिदेशे उपस्थानं गुरुणा क्रियते, उपेक्षाबुद्ध्या छात्राणां विधेयार्थस्मरणासम्भवात्। नव्यमते उभयपक्षे परिभाषाणां पाठदेश एव मुख्य इति तत्कृतैव पूर्वत्व-परत्वव्यवस्था ज्ञेया। अत एव 'एकदेशस्थ०' इति भाष्यं सङ्गच्छते। प्राचीनमते तु यथोद्देशे पाठदेश एव मुख्यः, कार्यकाले तु विधिदेशीयत्वेन स एव देशो मुख्यः। विधिदेशीयत्वादेव 'तावताऽप्यसिद्धिरि'ति 'पूर्वत्रे'ति भाष्यं स्वरसत उपपद्यते। परमुख्या- संभवे गौणेनापि पूर्वत्व-परत्वव्यस्थेति न 'ङमो ह्रस्वादि'ति सूत्रस्थभाष्यविरोधः। 'एकदेशस्थ' इति भाष्यन्तु यथोद्देशपक्षाभिप्रायेणेति। वस्तुतस्तु—पूर्वत्रेति 'भाष्यानुरोधात् प्राचीनाभिमत एव कार्यकालपक्षो नागेशसम्मतः, अन्यथा तावताऽप्यसिद्धिरित्यभिप्रायके 'कथमिति प्रश्नस्य निर्बलतापत्तेः। किञ्च—यथोद्देश- पक्षोऽपि प्राचीनसम्मत एव नागेशेनाभिप्रेयते; 'केचित्तु' मतम् एकदेशिन एव बोध्यम्। 'एक- देशस्थ' इति भाष्यं यथोद्देशपक्षाभिप्रायेण। अभिज्वालकत्वञ्च संस्कारकत्वमात्रम्, न तु एकवाक्य- तया संस्कारकत्वमिति बोध्यम्। किञ्च—परिभाषाणां विधिदेशे उपस्थितावपि तद्देशीयत्वं वारयति इदं भाष्यमिति सर्वमुपपन्नमित्यलम्।