परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 45, कुल 373 में से
संदर्भ में पढ़ें२-३ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः १५ त्येतत्प्रति न मुत्वाद्यसिद्धम्, असिद्धत्वस्य कार्यार्थतया कार्यज्ञानोत्तरमेव तत्प्रवृत्तिः, कार्यज्ञानं च प्रदेशदेश एवेति तद्देशस्थस्यासिद्धत्वात्पूर्वग्रहणेना- ग्रहणात् । एवं तद्बोधोत्तरमेव विरोधप्रतिसन्धानं चेति तत्रत्यपरत्वमेव विप्रतिषेधसूत्रप्रवृत्तौ बीजम् । अत एव कार्यकालपक्षे 'अयादिभ्यः परैव प्रगृह्यसंज्ञेति 'अदसो मादि'ति सूत्रे भाष्य उक्तम् । आकडाराधिकारस्थभपदसंज्ञादिविषये तु यथोद्देशपक्ष एवेति तत्रत्य- परत्वेनैव बाध्यबाधकभावः । पदादिसंज्ञानां तत्र जातशक्तिग्रहेणैव त्रिपाद्या- मपि व्यवहारः । अत एव 'पूर्वत्रासिद्धमि'ति सूत्रे परिभाषाणामेव त्रिपाद्या-
अत एवेति । सफलवाक्यार्थबोधाधिकरणमुख्यदेशमादाय विप्रतिषेधशास्त्रप्रवृत्ति- स्वीकारादेवेत्यर्थः । अयादिभ्यः परैवेति । अत्र पक्षे 'अदसो मादि'त्यस्य 'प्लुतप्रगृह्या' इत्येतदेकवाक्यत्वादित्यर्थः । यथोद्देशपक्ष एवेति । अत्र मानञ्च 'अपादानमुत्तराणि कारकाणि बाधन्ते' इति भाष्यम् । अत्र विषये कार्यकालपक्षस्वीकारे तु—अपादानसंज्ञाया 'अपादाने पञ्चमी'त्येतदेकवाक्यतापन्नाया एव 'कर्मणि द्वितीये'त्येतदेकवाक्यतापन्नकर्म- संज्ञापेक्षया परत्वेन कर्मादिसंज्ञानां परत्वाद् अपादानसंज्ञाबाधकत्वकथनमसङ्गतं स्यात् । तत्फलन्तु 'राज्ञ' इत्यत्र नलोपाभावः ; अन्यथा 'अल्लोपोऽनः' इत्येत- देकवाक्यतापन्न-'यचि भम्'इत्येतद्दृष्ट्या 'नलोपः प्रातिपदिकेत्ये'तदेकवाक्यतापन्न- 'स्वादिष्वसर्वनामस्थाने' इत्यस्यासिद्धत्वेन नलोपो दुर्वारः स्यात् । न च निर- काशतया भसंज्ञा बाधिका स्यादिति वाच्यम् ; 'नित्यवीप्सयोरि'त्येकवाक्यतापन्न- पदसंज्ञाबाधनद्वारा प्रकृतिमात्रस्य प्रसिद्धित्वाभावसम्पादनेन सूत्रस्य चारितार्थ्या- दसिद्धकाण्डैकवाक्यतापन्नपदसंज्ञाबाधने मानाभावात् । किञ्च—यदा कार्यं तदा संज्ञेत्यस्यैव कार्यकालत्वेन 'दण्डिने'त्यत्र भसंज्ञाप्रयुक्तकार्याभावेन भत्वाप्राप्त्या स्वादि- ष्विति पदत्वमादाय नलोपः 'नद्ये'त्यत्र 'इकोऽसवर्ण' इति प्रकृतिभावश्च स्यादिति भसंज्ञादिविषये यथोद्देशपक्षः स्वीकार्यः । अत्र भाष्यान्तरं प्रमाणयति—अत एवेति । यद्यपीदं भाष्यं सर्वसंज्ञाविषये यथोद्देशपक्षे प्रमाणभूतम् ; तथाप्यन्यसंज्ञाविषये कार्यकालस्याप्युक्तत्वेन एतद्भाष्यमाकडारीयसंज्ञायामेव यथोद्देशपक्षत्वे पर्यवस्यति । अयादिभ्यः परैवेतीति । संज्ञाशास्त्राणामिदमेव कार्यकालपक्षफलम् । त्रिपाद्यां प्रवृत्तिस्तु न तत्फलम्, भपदसंज्ञावज्जातशक्तिग्रहेण त्रिपाद्यामपि व्यवहारसिद्धेः; अन्यथा संज्ञानामुपजीव्यत्वात् ता विना त्रिपादिस्थशास्त्राणां वाक्यार्थबोधासंभवेन नैरर्थक्यापातात् । मानाभावादिति । ननु असिद्धकाण्डैकवाक्यतापन्नपदसंज्ञया भसंज्ञया बाधाभावे 'राजन्य' इत्यत्र पदसंज्ञया नलोपे जाते 'नस्तद्धिते' इत्यस्याप्राप्त्या 'ये चाभावकर्मणोः' इति व्यर्थं स्यादित्यस्ति मानमित्यरुचेराह—किञ्चेति ॥ २ ॥