परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 50, कुल 373 में से
संदर्भ में पढ़ेंपरिभाषादेशे सन्निधानेन तेषां परत्वं व्याहन्येत । एवञ्च वृक्षेभ्य इत्यत्र ‘सुपि चे’त्यतः परत्वाद् ‘बहुवचने झल्येदि’त्येत्त्वमित्याद्युच्छिद्येत, इत्यलम् ॥३॥ इत्संज्ञका अनुबन्धास्तेष्वयवानवयवत्वसन्देह आह— नानुनासिकः । शास्त्रे परत्व-पूर्वत्वे अष्टाध्यायीपाठकृते एव । एवं स्थिते योऽत्र बहुशः “प्राचीन-नवीन-मतविवेक-परिश्रमः, पदैकवाक्यता-वाक्यैकवाक्यतेत्यादिविचारः, स सर्वोऽपि काकदन्तपरीक्षावदुपेक्षणीय एवेति दिक् ॥ ३ ॥ यथोद्देशमित्यत्र संज्ञायाः प्रस्तुतत्वात् इत्संज्ञोत्तरं प्रत्याहार इति भाष्येण इत्संज्ञायाः सर्वशास्त्रप्रवृत्तेः प्राग्भावित्वेन प्राधान्याद्वा तद्विषयिणीं परिभाषां वक्तु- मुपक्रमते—इत्संज्ञका अनुबन्धा इति । इत्संज्ञोपलक्षणम्, तेन इत्संज्ञायोग्यत्वमनुबन्धत्व- मिति फलितम् । अवयवानवयवत्वसन्देह इति । बोधकावयवानवयवत्वसन्देहे इत्यर्थः । एतेन सन्घटकनकारे सन्निरूपितावयवत्वमस्ति न वा, सन्निरूपितावयवत्वमस्ति न वे'त्युभयविधसन्देहस्य श्रोत्रेणैव निवर्त्यतया नानुमानापेक्षेत्यपास्तम् ; 'सनो बोध- कत्वं सशब्दस्य वे'ति बोधकत्वसंशयस्य तत्प्रयुक्तस्य सनो नकारे बोधकावयवान- वयवत्वसन्देहस्य च श्रोत्रेणानिवर्त्यतया अनुमानस्योपयोग इति भावः । सन्देहेऽन्य- तरोपादानेनैव सिद्धे उभयोपादानं परिभाषाद्वयसाधारणमिदमवतरणमिति बोध- यितुम् । अनवयवत्वसन्देहे इत्युक्तौ तस्यानवयवत्वतदभावान्यतरकोटिकसन्देह इत्य- र्थात् 'अनवयवत्वाभाववान् अनवयवत्वव्याप्यवान् वे'ति सन्देहस्यापि अनवयवत्व- सन्देहरूपत्वेन 'एकान्ता अनुबन्धाः' इत्यनुमितीय-पक्षतात्वं न स्यात् । अवयवत्व- सन्देह इत्युक्तौ तु 'अवयवत्ववान् अवयवत्वाभावव्याप्यवान् वे'ति सन्देहस्यापि तद्रूप- त्वेन 'अनेकान्ता' इत्यनुमितीयपक्षतात्वं च न स्यात्, प्राचीनैः साध्य-तदभावा- मूले—परत्वं व्याहन्येनेति । न चेष्टापत्तिरेव, अत आह—एवञ्चेति । उच्छिद्येतेति । इदमप्यसङ्गतम् ; मुख्यासम्भवेऽपि गौणपरत्वग्रहणस्य सर्वसम्मतत्वादिति भावः ॥ ३ ॥ उपक्रमते—मूले इत्संज्ञा इति । यच्छब्दयोगः प्राथम्यमिति बलेनानुबन्धस्य पूर्वं प्रयोगा- र्हत्वेऽपि, 'इत्संज्ञका' इत्यस्य पूर्वं प्रयोगः सङ्गतिप्रदर्शनाय बोध्यः । अनुबन्धपदस्य च स्ववाच्ये लक्षणा । एतेन उभयोः प्रवृत्तिनिमित्तैक्येन कथमभेदान्वय इति निरस्तम् । ननु एकधर्मिकविरुद्धकोटिकज्ञानावगाहिज्ञानस्य सन्देहपदार्थतया सन्देहपदस्य उपात्तधर्म- विरुद्धकोट्युपस्थापकत्वमित्यस्य स्वभावसिद्धतया एककोट्युपादानेनापि विरुद्धकोट्युपस्थापनं स्यादेवेति द्वितीयकोट्युपादानं किमर्थमत आह—सन्देहेऽन्यतरोपादानेनेति । पक्षतात्वं न स्यादिति । अयम्भावः—प्राचीनाः साध्यसंशयस्यैव पक्षतात्वमभ्युपगच्छन्ति । साध्यसंशय इत्यस्य 'साध्यप्रकारकः साध्याभावप्रकारको वा संशयः' इत्येवार्थः, न तु साध्यप्रका- रकताकत्वे सति साध्याभावप्रकारताकः संशय' इति, पर्वतो वह्नि्यभाववान् वह्निव्याप्यवान् वा' 'पर्वतो वह्निमान् वह्न्यभावव्याप्यवान् वा' इत्यादिसंशयानामपि तैः पक्षतात्वाङ्गीकारात् । साध्यप्रकारकत्वमित्यस्य साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रकारकतार्थः ।