परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 51, कुल 373 में से
संदर्भ में पढ़ें४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २१ अनेकान्ता अनुबन्धा इति ॥ ४ ॥ -: 𑁍 :- अनेकान्ता अनवयवा इत्यर्थः । यो ह्यवयवः स कदाचित्तत्रोपलभ्यत एव, अयं तु न तथा, तदर्थभूते विधेये कदाप्यदर्शनात् । 'शित्किदि'त्यादौ न्यतरस्मिन् पक्षसम्बन्धावगाहिसंशयस्यैव पक्षतात्वोपगमात्, पर्वतो वह्निमानित्य- नुमितौ 'पर्वतो वह्न्यभाववान् वह्निव्याप्यवान् वे'ति सन्देहस्य पक्षतात्वाङ्गीकारात् । सनः सन् इत्यत्र विभक्तिदर्शनं, 'चिकीर्षती'त्यादिलक्ष्ये अदर्शनं च निरुक्तसंशयीय- कोटिद्वयोत्थापकं बोध्यम् । व्यतिरेकेण हेतुं निरूपयति—यो ह्यवयवः स कदाचित्तत्रोप- लभ्यत एव, अय तु न तथेति । तत्रेति । बोधक इत्यर्थः । 'पक्षे हेतुरस्ति नवे'ति सन्देहनिवृत्त्यर्थं हेतोः साधकं हेत्वन्तरमाह—तदर्थभूत इति । स्वविधेय इत्यर्थः । “अनुबन्धा बोधकानवयवाः बोधकावयवत्वेन उपलब्धिविषयत्वाभावात्, अनु- बन्धाः बोधकावयवत्वेन उपलब्धिविषयत्वाभाववन्तः तदर्थभूते विधेये कदा- प्यदर्शनादि'त्यनुमानद्वयं हेतुवाक्यं पूर्वमप्रदर्श्य व्याप्तिं प्रदर्शयतो ग्रन्थकारस्याभि- मतमिति स्वरसतः प्रतीयते । केचित्तु—विधेये कदापीति हेतुमेव व्यतिरेकव्याप्त्या पक्षे सङ्घटयति—यो हीति । तत्रेति । विधेय इत्यर्थ इति वदन्ति । अथैवं प्रकारद्वयेऽपि 'आद्गुणः' इति गकारे हेतुसत्त्वाद् व्यभिचारः ; स्वरूपबोध- कानवयवत्वसाधनेन निरुक्तगकारे व्यभिचारवारणे तु प्रकृतसंशयाविरोधित्वेनास्य अनुमानस्याप्रयोजकत्वापत्तिरिति चेन्न । स्वघटितघटकवृत्तिश्रावणप्रत्यक्षविषयताव- साध्याभावप्रकारताकत्वमित्यस्य च साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रति- योगिताकाभावत्वावच्छिन्नप्रकारताकत्वमिति । एवञ्च अनवयवत्वसन्देहे इत्येतन्मात्रोक्तौ तस्यान- वयवत्वतदभावान्यतरकोटिकसंशयार्थकतया तेन 'अनवयवत्वाभाववान् अनवयवत्वव्याप्यवान् वे'ति संशयस्यापि धर्तुं शक्यतया तस्य 'एकान्ता अनुबन्धा' इत्यनुमितीयपक्षतात्वं न स्यात्, अवयवत्व-तदभावान्यतरकोटिकसंशयस्यैव अवयवत्वसाध्यकानुमितौ पक्षतात्वाङ्गीकारात्, उक्त- संशये अवयवत्वस्वरूपानवयवत्वाभावरूपसाध्यप्रकारकत्वेऽपि साध्यतावच्छेदकधर्मावच्छिन्नप्रकार- ताकत्वाभावान्न तत्त्वम्। एवमग्रेऽपि । उभयकोटिद्वयोपादाने तु तादृशसंशयस्य परस्परं विरुद्धकोटि- द्वयावगाहित्वेन उभयानुमितीयसाध्यप्रकारताकत्वेन उभयानुमितौ पक्षतात्वं सिद्धमिति ध्येयम् । यो ह्यवयवः•••• अयं तु न तथेतीति । व्यतिरेकव्याप्तिप्रदर्शनरूपोदाहरणग्रन्थात्पूर्वं बोधकावयवत्वेनोपलब्धिविषयत्वाभावादिति हेतुः स्वयमूहनीय इति तात्पर्यम् । एतेन प्रतिज्ञा- हेतू-दाहरणो-पनय-निगमनानां वाक्यानां क्रमेण लेखनस्योचितत्वेन प्रतिज्ञानन्तरमुदाहरणलेखन- मसङ्गतमित्यपास्तम् । बोधकानवयवा इति । न तु बोध्यानवयवत्वं साध्यम्, 'तस्य लोपः' इति शास्त्रेण तस्य स्वत एव सिद्धत्वादिति भावः । केचित्त्विति । अत्र पक्षे 'तदर्थभूते विधेये' इति हेतुः प्रतिज्ञानन्तरं योजयित्वा व्याख्येयः ; साध्यं प्रति व्याप्यव्याप्यस्यापि व्याप्यत्वात्तस्य हेतुत्वम् । अप्रयोजकत्वापत्तिरिति । 'पर्वतो वह्निमान्न वा' इत्याकारकसंशयानन्तरं 'पर्वतो महा-