परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 52, कुल 373 में से
संदर्भ में पढ़ेंच्छेदकधर्मावच्छिन्नविधेयताप्रयोजकपदानवयवत्वस्य साध्यत्वेनादोषात् । यस्मिन्ननव- यवत्वं निरूपणीयं तत् स्वम्, निरुक्तगकारे हेतोः सत्त्वेऽपि तद्गुणपदस्य गुणपदाव- च्छिन्नविधेयताप्रयोजकत्वेन स्वघटितघटकवृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मवि- च्छिन्नविधेयताप्रयोजकत्वाभावेन तदनवयवरूपसाध्यस्यापि सत्त्वेन न दोषः । साध्यदले विधेयता च साक्षादवच्छिन्ना बोध्या, तेन गुणपदस्य गुणपदत्वेन बोधक- तया अदेङ् निष्ठाविधेयतायाः परम्परया गुणपदत्वावच्छिन्नत्वेऽपि न क्षतिः । न चैवमप्यकारे विधेये ककारस्य ‘अश्वत्थाम’ इति लक्ष्ये अभावेन कारप्रत्यय-ककारे हेतोः सत्त्वेन तद्घटितघटकाऽवर्णवृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकत्वरूपधर्मेण साक्षादवच्छिन्नविधेयताप्रयोजकाऽकाररूपपदावयवत्वस्यैव सत्त्वेन तदनवयवत्व- रूपसाध्याभावेन व्यभिचार इति वाच्यम् ; साध्यदलीयवृत्त्यन्तपदस्य स्वघटितपद- घटकयावद्वृत्तीत्यर्थकरणेन ( स्वम् = ककारस्तद्घटितमकार इति पदम्, तद्घटकयाव- द्वृत्ति-श्रावणप्रत्यक्षविषयतावच्छेदको धर्मश्चाकारशब्दत्वम्, तद्धर्मावच्छिन्नविधेयताया अप्रसिद्ध्या तत्प्रयोजकपदानवयवत्वस्यापि निरुक्तककारे सत्त्वेन ) अदोषात् । न च यावदिति पदनिवेशे ‘द्वयसज्दघ्नञ्मात्रच्’ इति समस्तपदस्य चकाररूपानु- बन्धघटितपदघटकयावद्रूपतया तद्वृत्तिश्रावणप्रत्यक्षविषयतावच्छेदक-तादृशशब्दत्व- रूपधर्मावच्छिन्नविधेयताया अप्रसिद्ध्या तत्प्रयोजकपदानवयवत्वस्य केवलान्व- यित्वेन तदनुमानस्य बोधकावयवत्वबुद्धिनिवर्तकत्वं न संभवतीति वाच्यम् ; याव- त्पदेन स्वघटितं यत्पदाघटितं पदं तद्घटकानुबन्धेतरविभक्तीतरस्य यावतो ग्रहणेन अदोषात् । तथा चानुबन्धघटितं पदघटितं विभक्तिघटितं च समुदायमादाय तथाविधधर्मावच्छिन्नविधेयताप्रसिद्ध्या न दोष उद्भावनीय इति बोध्यम् । ननु प्रत्युच्चारणं शब्दो भिद्यते, न वा ? आद्ये—सनः सकारे हेतोः सत्त्वेन व्यभिचारः । अन्त्ये—सनोऽनुबन्ध-नकारे हेत्वभावाद्भागासिद्धिरिति चेन्न । स्वघटितं यत्पदाघटितं पदं तद्घटकप्रयोज्यविधेयतावच्छेदकधर्माभावादिति तदर्थे- नादोषात् । विधेयतावच्छेदकधर्मश्च विशेष्यविशेषणदलप्रविष्टयावत्पदार्थसङ्कुचितो ग्राह्यः । तथा च अकाराव्यवहितपूर्वत्वविशिष्टसकारत्वरूपस्य विधेयतावच्छेदकस्य सत्त्वस्य सकारे सत्त्वेन, विधेयतावच्छेदक-‘सनत्व’स्य सकारोत्तराकारोत्तरनत्वरूपस्य अनुबन्धे नकारे असत्त्वेन च न दोषः । न च कुकि मुमि चानुबन्धयोर्विधेयता- वच्छेदकधर्मासत्त्वाद् भागासिद्धिरिति वाच्यम् ; ‘कुक्-मुमोः ककार-मकारौ स्वघटितपद- घटकबोधकानवयवौ स्वघटितपदघटक-बोधकावयवोत्तरानवयवोत्तरत्वादित्याद्यनुमानेन दोषवारणात् । स्वमनुबन्धस्तद्घटितं पदम्=कुक्-मुम् इति, तद्घटकबोधकावयवौ = नसीयवह्न्याभाववान्' इत्यनुमितेरिव प्रकृतसंशयनिवर्तकत्वेन प्रकृतानुमानस्याप्रयोजकत्वमितिभावः । स्वघटितपदघटकबोधकानवयवाविति । स्वम् = अनुबन्धस्तद्घटितं पदम् = कुगिति, तद्घटकबोधकम् = बोधकत्वेन निश्चितं कुगिति, तदनवयवाविति तदर्थः । ननु अनुमानान्तरेण ‘कुक्-मुमोः' ककार-मकारयोर्बोधकानवयवत्वसाधनेऽपि पूर्वोक्तानुमानेऽनु- बन्धत्वस्य पक्षतावच्छेदकत्वाङ्गीकारे भागासिद्धिस्तदवस्थैव, प्रकारान्तरेण (कुक्,मुम्घटक-ककार-