परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 55, कुल 373 में से
संदर्भ में पढ़ें५ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २५ हि बहुव्रीहिरपि न्यायत एवोपपन्नः, अन्त्यादिशब्दे लक्षणा च न । वायेनोपलब्धस्यान्यत्र तेन सम्बन्धेनानुपलभ्यमानत्वान्न दोषः । यद्यपि 'अवयव- स्तत्रोपलब्धेरिति भाष्यतस्तत्रोपलम्भादित्येव हेतुः प्रतीयते, तथापि कैयटेन 'यो हि संशयको हेतुः स कथं निश्चायक' इत्याशङ्क्य तत्रोपलम्भादित्यस्य 'तत्रैवोपलम्भादि'- त्यर्थंकरणेन समाहितत्वात्तदनुसारेणायं ग्रन्थ इति ध्येयम् । न च बोधकत्व- स्याद्यावधि अनिर्णीतत्वेन हेतोरसिद्धिरिति वाच्यम्; अनुबन्धघटिते सनादौ पक्षे विभक्तिप्रकृतित्वेन हेतुना बोधकत्वं प्रसाध्य, तद्घटकानुबन्धादौ तत्रैवोपलम्भादिति हेतुना बोधकावयवत्वसाधनेनादोषात् । अत्र उपलब्धिविषयत्वाभावादित्यस्य उप- लब्धिवि