भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 56, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 56

किञ्चानवयवत्वे णशकप्रत्ययादौ णादेरित्त्वानापत्तिः प्रत्ययादित्वा- वैयाकरणमतेऽपि द्रव्यत्वाङ्गीकारात् । अत्र च सर्वाधारतानियामकसम्बन्धेतर- सम्बन्धो ग्राह्यः, तेन कालादावेव कालिकादिसम्बन्धेनोपलम्भेऽपि न कालावयवत्वं तेषामिति बोध्यम् । अत्र केचित्—'अनुबन्धाः बोधकावयवाः बोधकायुतसिद्धत्वात्, यो यदयुतसिद्धः स तदवयवः, यथा शाखादिः' इति नकारानुबन्धस्य सन्नयुतसिद्धत्वात् तदवयवत्व- मक्षतम् । न चैवं बोधकानां स्वावयवायुतसिद्धत्वेन तदवयवत्वापत्तिः ; व्यापकत्वविशिष्टा- युतसिद्धत्वस्य हेतुत्वेन समुदायस्य स्वावयवाव्यापकत्वेनादोषादिति वदन्ति । अत्र पक्षे 'गुप्तिजि'त्यादौ विधेयताप्रयोजकसनादिपदस्य नकारेत्संज्ञकः सो भवतीत्यर्थः । इत्संज्ञा- लोपौ तु पक्षद्वयेऽपि सूत्रे एव, अनुबन्धविनिर्मुक्तपदार्थस्यैवोपस्थितेरनुवादे 'सनी'त्यादौ नकारेत्संज्ञके सञ्शब्दे इत्यादिरर्थः । अन्ये तु—'अनुबन्धाः बोध्यावयवाः बोधके उपलभ्यमानत्वात्, सनः सकारवदि'त्यनुमानेन अनुबन्धानां बोध्यावयवत्वं सिद्ध्यति । न चेदमप्रयोजकम् ; 'स्वं रूपं'शास्त्रस्यानुकूलतर्करूपस्य जागरुकत्वात् । इत्थञ्चानुबन्धसहितस्य बोध्यत्वेन वक्ष्यमाणपरिभाषात्रयावतरणानि सङ्गच्छन्ते । अस्मिन् कल्पे तु बोध्ये एवेत्संज्ञालोपो, न सूत्रे । 'गुप्तिजि'त्यादिविधेयेऽनुवादे च सन्पदस्य सञ्शब्द इत्ये- वार्थः, तेन णाणोर्न व्यभिचारः । तत्रोपलम्भादित्यादिहेतुना बोधकावयवत्वसाधनन्तु न युक्तम् ; बोधकत्वस्य सन्यद्याप्यसिद्धेः । अनुबन्धसहिताद्विभक्तिदर्शनेन सनादौ बोधकत्वनिश्चये तु नकारादौ तदवयवत्वस्य श्रवणेन्द्रियेणैव सिद्धतया सन्देहा- भावेनानुमानस्यैवाप्रसक्तेः । अत एव भाष्ये तत्रोपलम्भादित्येव हेतुः प्रदर्शितः, नान्यत्रा- नुपलम्भाच्चेति । एतेन “यो हि संशयको हेतुः स कथं निश्चायक इत्याशङ्क्य, तत्रोपलम्भादित्यस्य 'तत्रैवोपलम्भादि'त्यर्थ” इति कैयटोक्तमपास्तम् ; संशायकस्य एकस्य हेतोरसाधकत्वनिर्णये अपरहेतोर्निर्णयजनकत्वस्य सर्वसम्मतत्वाच्च । अत एव 'स्थाणुर्वा पुरुषो वे'ति संशयस्थले पुरुषत्वसाधकस्य करचरणादिमत्त्वस्य प्रत्यक्षेण बाधे संशायकस्यैव कोटरादिमत्त्वस्य स्थाणुत्वानुमितिजनकत्वं सर्वसम्मतम् । किञ्च अनुवादे 'सन्यङोः' इत्यादौ नकारेत्संज्ञकशब्दे परत इत्याद्यर्थस्य कथञ्चित् सम्भवेऽपि, विधेयताप्रयोजके 'गुप्तिजि'त्यादौ सनादिपदे न तत्सम्भवः, 'न विधौ परः शब्दार्थ' इति न्यायात् । किञ्चैवं दाप्शब्दस्यापि 'पकारेत्संज्ञक-दाशब्द' इत्यर्थे 'अव- दातमित्'यत्र तस्य सत्त्वेन वक्ष्यमाणावतरणासङ्गतिः । तच्च पकारेत्संज्ञकदाप्शब्द- बोध्यत्वं दाप्पदशक्यतावच्छेदकम्, एवं सनादिपदेऽपि नकारेत्संज्ञकसन्पदबोध्यत्वं तत् । अत एव न णाणोर्व्यभिचारः, त्वद्रीत्या दाप्शब्दत्वस्य दाप्पदशक्यतावच्छेद- कत्वे तु 'प्रणिदापयती'त्यत्रापि तत्सत्त्वाद् घुसंज्ञानिषेधापत्तिरिति वाच्यम् ; पकारे- त्संज्ञकेत्यादेस्तदर्थतावच्छेदकताया अनुपयोगेन लाघवान्मदुक्तस्यैव तस्योचित- द्रव्यत्वाङ्गीकारादिति । न चैवं जीवात्मनोऽपि ज्ञानेच्छादिसमुदायरूपतया अनित्यत्वा-