परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 65, कुल 373 में से
संदर्भ में पढ़ें८-९ प० विचार ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३१ 'ददाति-दधात्योर्विभाषा' इति णबाधक-शस्य विकल्पविधायकमस्यां ज्ञापकम्; तेन 'गोद' इत्यादौ नाणिति 'वाऽसरूप'सूत्रे भाष्ये स्पष्टम्॥ ८ ॥ ननु संख्याग्रहणे बह्वादीनामेव ग्रहणं स्यात्, प्रकरणस्याभिधानिया- मकत्वसिद्धात् 'कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्यय' इति न्यायात् । अस्ति च प्रकृते बह्वादीनां संख्यासंज्ञा कृतेति ज्ञानरूपं प्रकरणम्, न तु लोकप्रसिद्धैक-द्व्यादीनामित्यत आह— उभयगतिरिह भवति ॥ ९ ॥ इह = शास्त्रे । 'संख्याया अतिशदन्ताया' इति निषेधोऽस्या ज्ञापकः । गिकमेव सारूप्यं गृह्यत इति वदन्ति । तत्तूच्छम् ; प्रायोगिकग्रहणे प्रयोगमात्राव- च्छेदेन सारूप्यम् यत्किञ्चित्प्रयोगावच्छेदेन वा तद्गृह्यते ? नाद्यः ; 'इगुपधज्ञा',