परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 64, कुल 373 में से
संदर्भ में पढ़ेंनन्वेवमपि 'वाऽसरूप'सूत्रेण क-विषयेऽणोऽप्यापत्तिरित्यत आह— नानुबन्धकृतमसारूप्यम् ॥ ८ ॥ —: ० :— अणोऽप्यापत्तिरिति । ननु 'वाऽसरूप'सूत्रे असरूपपदेन औपदेशिकसारूप्यवद्- भिन्नस्य ग्रहणे तादृशसारूप्यवतोर्वैकल्पिकबाध्यबाधकभावस्वीकारेऽपि फले विशेषा- भावेन 'असरूप'ग्रहणवैयर्थ्यापत्या प्रायोगिकस्यैव तस्य ग्रहणावश्यकतयाऽनुबन्ध- विनिर्मुक्तपदार्थोपस्थितिरिति सिद्धान्तरीत्या काणोरपि बोध्ययोरकारयोः सरूपत्वेन सूत्राप्राप्त्या कथं कविषयेऽणोऽप्यापत्तिरिति चेन्न । 'हनश्च वधः', 'मूर्तौ घन' इत्येतद्विहितयोरप्रत्यययोर्विकल्पेन बाधाभावाय सूत्रेऽसरूपग्रहणस्य चारितार्थ्येन प्रायोगिकग्रहणे मानाभावादुपदेशे काणोरसरूपत्वेनोकापत्तेः सुवचत्वात् । निरुक्तयो- [L