परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
DevanagariHindipublished373 पृष्ठ
पृष्ठ 63, कुल 373 में से
संदर्भ में पढ़ेंपृष्ठ 63
'उदीचां माङः' इति निर्देशोऽस्या ज्ञापकः । 'आदेच उपदेशे' इति ७ प० विचार ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३३ नानुबन्धकृतमनेजन्तत्वम् ॥ ७ ॥ -: ० :- 'उदीचां माङः' इति निर्देशोऽस्या ज्ञापकः । 'आदेच उपदेशे' इति सूत्रेण उपदिश्यमानस्यैजन्तस्यात्त्वं क्रियते, ङकारसत्त्वे त्वेजन्तत्वाभावा- दात्त्वाप्राप्तेस्तस्यासङ्गतिः । न चास्यामवस्थायां तस्य धातुत्वाभावात्कथमात्त्वम्, तत्र 'धातोरि'त्यस्य निवृत्तेरित्यन्यत्र विस्तरः । स्पष्टञ्चेदं 'दाधा घ्वदाबि'ति सूत्रे भाष्ये ॥ ७ ॥ ष्नोत्वम् । विधेयता तु सन्तत्वेन रूपेण सशब्दे एव, न तु सञ्शब्दे । अत एव 'इदम इशि'ति भाष्यं स्वरसत उपपद्यते । तेनाण्त्वाभावान् णेऽण्कार्यं, न दापो, दाब्-