भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 62, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 62

३२ परिभाषेन्दुशेखरः [ १ प्रकरणे- घुसंज्ञाप्रतिषेधो न स्याद्, दैपः पकारसत्त्वेनेजन्तत्वादात्त्वाप्राप्त्या पलोपोत्तरं पकाराभावेनास्य दाप्त्वाभावादत आह— इत्संज्ञाविधौ अनतिदिष्टोपदि‍श्यमानत्वस्यैव प्रयोजकत्वात् । अत एव मकारपरित्राणार्थः स्थमोरुकारश्चरितार्थः । आत्त्वविधौ अतिदिष्टोपदि‍श्यमानत्वस्यापि प्रयोजकत्वे 'दो दद्धोरि'ति सूत्रे दा-ग्रहणमेव मानम् ; अन्यथा धारूप-घोः 'दधातेर्हि'रित्यनेनैव बाधा- द्धेट्ष्टकारस्य लोपोत्तरमात्त्वाऽप्राप्त्या घुत्वाभावादेव तदप्राप्तेर्दारूपस्यैव तत्सम्भवेन तद्ग्रहणं व्यर्थमेव स्यात् । न चैवं 'पच्'धातौ ष्येत्संज्ञालोपोत्तरमकारस्य सा न स्यादुपदेशत्वस्य स्थानिवत्त्वेनालाभादिति वाच्यम् ; संज्ञयोर्विरोधाभावेन युगपद्- कार-षकारयोस्तत्सत्त्वेनातिदेश