भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 61, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 61

४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३१ नन्वेवमपि 'अवदातं मुखमि'त्यत्र पलोपोत्तरमात्त्वे कृतेऽदाबिति पलोपोत्तरमात्त्व इति । न च पलोपोत्तरमुपदिश्यमानत्वाभावः ; स्थानिवद्भावेन तल्लाभात् । न चैवम् 'अट्'धातौ अस्येत्संज्ञोत्तरं टस्येत्त्वापत्तिरिति वाच्यम् ; अत्र केचित्—अल्त्वव्यवहाराभाव इत्यस्य इत्पदविशिष्टभिन्नं यदल्बोधकं पदं तद्बोध्यत्वाभाव इत्यर्थः । वैशिष्ट्यञ्च—स्वप्रयोज्यविषयतानिरूपितविषयताप्रयोजकत्व-स्वनिष्ठविषयतानिरूपित- विषयताप्रयोजकत्वैतदन्यतरसम्बन्धेन । आद्यसम्बन्धे हलन्त्यघटक-हल्पदेन किदादिपदेन च अनुबन्धानां ग्रहणं भवति । द्वितीयसम्बन्धेन च 'यस्मिन्विधिस्'रिति परिभाषाघटकेन अल्ग्रहणे- त्यनेन शितीति कर्मधारयस्य ग्रहणम् । एवञ्च पूर्वोक्तेषु लक्ष्येषु