परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 60, कुल 373 में से
संदर्भ में पढ़ेंवस्तुतस्तु—परिभाषाप्रवृत्तौ अनुबन्धत्वस्योपजीव्यतया डादिविषये परिभाषा- प्रवृत्तिस्वीकारे 'अनेकाल्'त्यस्याप्रवृत्त्या डादीनामन्त्यादेशत्वे डकारादेरित्संज्ञाया अप्रवृत्त्या स्वोपजीव्यानुबन्धत्वविघातस्य स्पष्टतया 'सन्निपात'परिभाषया निरुक्तपरि- भाषाया अप्रवृत्तेरुक्तग्रन्थस्य यथाश्रुतार्थकत्वेऽपि न क्षतिः । 'जसः शी'त्यत्र तु एत- त्परिभाषाप्रवृत्तावपि शित्वात्सर्वादेशस्य सत्त्वेन स्वोपजीव्यानुबन्धत्वस्य विघाताभावेन 'सन्निपात'-परिभाषाया विषयाभावान्न पूर्वापरस्वग्रन्थविरोधोऽपीति बोध्यम् ।। ६ ।।
भानम् । यथा 'नानुबन्धकृतमसारूप्यमि'त्यत्र, तेन काणोविषये विकल्पाभावः सिद्धयति । नानुबन्ध- कृतमनेकाल्त्वम्' इत्यत्रानुबन्धपदस्य इत्संज्ञायोग्यत्वरूपानुबन्धत्वपरस्यास्वीकारेऽपि फलाभावा- द्दोषाभावाच्च तद्भाष्यस्य एकदेश्युक्तित्वमेव । किञ्च परिभाषा शिद्