परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 59, कुल 373 में से
संदर्भ में पढ़ें६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २९ डादिविषये तु सर्वादेशत्वं विनाऽनुबन्धत्वस्यैव अभावेनानुपूर्व्यात् सिद्धम् ॥ ६ ॥ कारादेशस्य, 'दिव औदि'त्योकारादेशस्य च तथात्वाभावेन सूत्राप्राप्त्या 'नानुबन्ध- कृतमि'ति परिभाषया सर्वादेशवारणपरभाष्यासङ्गतेः । एतेन - 'आनुपूर्वीप्रकारेण बोधकं यदनेकाल्पदं तद्बोध्यः सर्वस्यादेश' इति सूत्रार्थालोपस्यानुपूर्वीप्रकारेण बोध- कत्वाभावादोशादेस्तथात्वाच्च न दोष इति परास्तम् ; पूर्वोक्तयुक्त्या बोध्यस्यानेकाल्त्वे तु न काऽप्यनुपपत्तिरिति ध्येयम् । न चाल्घटितस्य बाधको योऽनेकाल् तद्बोध्यः सर्वस्य भवते'त्यनेकाल्सूत्रार्थेन लोपपदस्याल्घटितबोधकत्वाभावेन न सर्वादेशता- प्रयोजकत्वम्, विसर्जनीयादिपदानाम्लघटितबोधकत्वेऽपि 'निर्दिश्यमान'परिभाषयैव तत्र तत्र वारणसम्भवादिति वाच्यम् ; 'अत्रानुनासिकः पूर्वस्य तु वा', 'उदस्थास्तम्भोर्'- त्येतद्विषये सर्वादेशापत्तेर्दुर्वारत्वात् । न च ज्ञापितेऽपि स्वांशे चारितार्थ्यं दुरुप- पादम्, औशादौ शकारोच्चारणसामर्थ्याद् भूतपूर्वानेकाल्त्वमादायापि सर्वादेशसिद्धेरिति वाच्यम् ; 'जसः शी', 'जश्शसोः शिरि'त्यादेः शित्त्वस्य 'विभाषा डिश्योः', 'शिसर्वनाम- स्थानमि'त्यत्र विशेषणार्थतया चारितार्थ्येन शकारोच्चारणवैयर्थ्याभावेन भूतपूर्व- गत्याश्रयणे मानाभावात् स्वांशे चारितार्थ्यस्य सौष्ठवात् । डादिविषये त्विति । डादिविषये सर्वादेशात्प्राक् प्रत्ययत्वाभावेन इत्त्वाऽप्राप्त्या न परिभाषाप्रवृत्त्यवसर इति भावः । न चैतद्ग्रन्थकृन्मते इत्संज्ञायोग्यत्वरूपस्यानु- बन्धत्वस्य सत्त्वात्परिभाषाप्रवृत्तेः सुलभतयैतद्ग्रन्थासङ्गतिः, 'जसः शी'ति पूर्वग्रन्थ- विरोधश्चेति वाच्यम् ; अनुबन्धत्वस्याभावेन विनापि, अनुबन्धत्वसत्त्वेऽपि डादि- विषये सर्वादेशत्वमानुपूर्व्यात्, 'डा + आ' इत्यादिप्रश्लेषात् सिद्धमिति योजनया ग्रन्थसङ्गतेरिति—केचित् । तथात्वाभावेनेति । तत्र तकारस्य आकारौकारोच्चारणमात्रे सहायतासम्पादनेन चरितार्थतया आत्त्वौत्वावच्छिन्नविधेयताकल्पने मानाभावादिति भावः । स्वांशे चारितार्थ्यस्य सौष्ठवादिति । ननु शकारोच्चारणस्य विशेषणार्थतया चारि- तार्थ्यसम्भवेऽपि सर्वादेशात् प्राक् इत्संज्ञाया एवाभावेन इत्संज्ञकत्वरूपानुबन्धत्वाभावेन परिभाषा- ऽप्राप्त्या अनेकाल्त्वादेव सर्वादेशो भविष्यतीति स्वांशे चारितार्थ्यं दुरुपपादमिति चेन्न । ग्रन्थ- कर्त्रा इत्संज्ञायोग्यत्वरूपानुबन्धत्वस्य स्वीकृतत्वेनादोषात् । एवम् 'अनेकाल्शिति' सूत्रेऽपि शित्पदं शित्त्वयोग्यपरमेवेति बोध्यम् । ध्वनितञ्चेदम् 'अनेकालशित् सर्वस्ये'ति सूत्रे भाष्ये । तत्र हि—शित उदाहरणं 'जशः शि' इत्यादिप्रतिपाद्यानेकाल्त्वादेव तत्संसाध्य, व्यर्थं शिद्ग्रहणं परिभाषाज्ञापनार्थमित्युक्तम् । इत्संज्ञायोग्यत्वरूपस्य अनुबन्धत्वस्यानङ्गीकारे तत्र परिभाषाया अप्राप्त्या शित उदाहरणत्वस्यासम्भवेन भाष्यासङ्गतिरेव स्यात् । किञ्च—काणोर्विषये 'नानु- बन्धकृतमसारूप्यमि'ति परिभाषया विकल्पाभावो न प्रकल्पेत, तत्प्रवृत्तिकाले इत्संज्ञकत्वरूपानु- बन्धत्वाज्ञानेन परिभाषाऽप्राप्तेः, इत्येतत्सर्वं शेखरे स्पष्टम् । अत्र प्राचीनाः—इत्संज्ञायोग्यत्वापेक्षया इत्संज्ञावत्त्वस्य अनुबन्धपदशक्यतावच्छेदकत्व- कल्पने लाघवेन तदवच्छिन्नेऽनुबन्धपदशक्तिरिति । क्वचित् बाधेन लक्षणया इत्संज्ञायोग्यत्वस्यापि