भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 58, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 58

२८ परिभाषेन्दुशेखरः [ १ प्रकरणे- नानुबन्धकृतमनेकाल्त्वम् ॥ ६ ॥ -: ॐ :- शिद्ग्रहणमेवैतज्ज्ञापकम्, तेनार्णवस्तृ इत्यादेर्न सर्वादेशत्वम् । शित्त्वस्य चारितार्थ्यमिति चेन्न । शकारस्य ‘तस्य लोप’ इति लोपादेशे आनुमानिक- स्थान्यादेशभावेन ‘स्थानिवत्’सूत्रेणानेकाल्त्वातिदेशात् सर्वादेशत्वसिद्धेः शित्त्ववैय- र्थ्यस्य सूपपादत्वात् । न चानल्विधाविति तन्निषेधः ; ‘नल्यपी’ति सूत्रारम्भसामर्थ्येन अनुबन्धवृत्तितथाविधधर्मानयने अनल्विधावित्यस्याप्रवृत्तिज्ञापनात् । न च ‘हल्ङ्यादि- सूत्रे ङ्याब्ग्रहणवैयर्थ्यापत्तिः, ङ्याबादिरूपबोधकगतहलन्तत्वस्य स्थानिवद्भावेनैव लाभादिति वाच्यम् ; आकाररूपाऽऽबन्तादेवेति नियमार्थं तदाऽऽवश्यकत्वात् । ‘रमे’- त्यादावाकारे हलन्तत्वातिदेशेऽपि ‘रमे’त्यस्य हलन्ततदादित्वाभावेन तत्र सुलोपार्थं तदाऽऽवश्यकत्वाच्च । शिद्ग्रहणमेवैतदिति । शिद्ग्रहणमपीत्यर्थः । तथा च ‘नल्यपी’ति सूत्रसह- कृतेनैतच्छिद्ग्रहणेन अनुबन्धत्वव्याप्याल्मात्रवृत्तित्वधर्मघटितधर्मातिदेशे ‘अनल्विधावि’ति निषेधो न प्रवर्तत इति विशेषरूपेण ज्ञापनादुभयोश्चारितार्थ्यम् । परिभाषार्थस्तु—अनुबन्धकृतमनेकाल्त्वं यथा न भवेत्तथा कल्पनीयमिति । तथा च अशब्दादाचारक्विबन्ताद् घञि अतो लोपे, ‘अ’ इत्यत्र घञ्वृत्तिहलन्तत्वा- तिदेशेन ‘हल्ङ्याबि’ति सुलोपो न । एतेन—‘रुङ् तुङ्’ इति ङिदादेशविधानात्सर्वा- देशाप्राप्त्या फलाभावेन परिभाषा शिद्ग्रहणं च व्यर्थे एवेत्यपास्तमिति ग्रन्थाशय इति—केचित् । यत्तु — अनेकाल्वृत्तिधर्मावच्छिन्नविधेयताश्रयः सर्वस्येत्यनेकाल्सूत्रार्थाद् बोध्यौ- शब्दस्यानेकाल्त्वाभावेऽपि तत्त्वान्न क्षतिः । लोपस्तु न सर्वादेशस्तत्र विधेयता- वच्छेदकस्याभावत्वस्यानेकाल्वृत्तित्वाभावात् । अनेकाल्वृत्तित्वस्य अल्समुदायवृत्ती- त्यर्थस्तेन ह्रस्वत्वादेरनेकेष्वल्प्सु विद्यमानत्वेऽपि न क्षतिरिति । तन्न ; ‘पथिन्मथी’त्या- इति ‘अणुदित्’सूत्रस्थं भाष्यं सङ्गच्छते । आनुमानिकस्थान्यादेशभावेनेति । ‘स्वं रूपमि’ति शास्त्रेण सानुबन्धस्य बोध्यत्वे प्राप्ते ‘तस्य लोपः’ इत्यनेनानुबन्धरहिते तद्बोध्यते इत्येतन्मूलकेने- त्यर्थः । अनुबन्धवृत्तीति । अनुबन्धवृत्तियोऽल्त्वव्याप्यो धर्मस्तद्घटितेत्यादिरर्थः । अनल्विधा- वित्यस्याप्रवृत्तिज्ञापनादिति । न च ‘नल्यपि’ इत्यनेन अनुबन्धत्वव्याप्याल्मात्रवृत्तित्वधर्मघटित- धर्मातिदेशे ‘अनल्विधौ’ इति निषेधो न प्रवर्तत इत्येव पूर्वं ज्ञाप्यताम्, तथा सति अल्त्वादे- र्नुबन्धत्वव्याप्यत्वाभावेन ‘अनल्विधावि’ति निषेधप्रवृत्तौ बाधकाभावेन स्थानिवद्भावाभावेन शिद्ग्रहणस्य चारितार्थ्यं सम्भवत्येवेति वाच्यम् ; अनुबन्धवृत्तित्वापेक्षयाऽनुबन्धत्वव्याप्यत्वस्य गुरु- भूततया तस्य ज्ञाप्यशरीरे प्रवेशे मानाभाव इत्याशयेन तथा कल्पयितुं पूर्वमशक्यत्वात् । अनुबन्धत्वव्याप्येति । इत्संज्ञकत्वमनुबन्धत्वम्, तद्व्याप्यः इत्संज्ञक-कत्वादिरूपः । हल्ङ्याबिति सुलोपो नेति । एवम् ‘धूञ्-प्रीञादि’धातुभ्यः ‘गुरोश्च हल’ इति सूत्रेणाप्रत्ययः, ‘प्रपठ्ये’त्यत्रब ‘क्वा’प्रत्ययघटकककारानुबन्धगतवल्त्वमादाय वलादिलक्षणेडागमश्च नेत्यपि बोध्यम् ।