भारतकोश
संग्रह पर लौटें

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

२८ परिभाषेन्दुशेखरः [ १ प्रकरणे- नानुबन्धकृतमनेकाल्त्वम् ॥ ६ ॥ -: ॐ :- शिद्ग्रहणमेवैतज्ज्ञापकम्, तेनार्णवस्तृ इत्यादेर्न सर्वादेशत्वम् । शित्त्वस्य चारितार्थ्यमिति चेन्न । शकारस्य ‘तस्य लोप’ इति लोपादेशे आनुमानिक- स्थान्यादेशभावेन ‘स्थानिवत्’सूत्रेणानेकाल्त्वातिदेशात् सर्वादेशत्वसिद्धेः शित्त्ववैय- र्थ्यस्य सूपपादत्वात् । न चानल्विधाविति तन्निषेधः ; ‘नल्यपी’ति सूत्रारम्भसामर्थ्येन अनुबन्धवृत्तितथाविधधर्मानयने अनल्विधावित्यस्याप्रवृत्तिज्ञापनात् । न च ‘हल्ङ्यादि- सूत्रे ङ्याब्ग्रहणवैयर्थ्यापत्तिः, ङ्याबादिरूपबोधकगतहलन्तत्वस्य स्थानिवद्भावेनैव लाभादिति वाच्यम् ; आकाररूपाऽऽबन्तादेवेति नियमार्थं तदाऽऽवश्यकत्वात् । ‘रमे’- त्यादावाकारे हलन्तत्वातिदेशेऽपि ‘रमे’त्यस्य हलन्ततदादित्वाभावेन तत्र सुलोपार्थं तदाऽऽवश्यकत्वाच्च । शिद्ग्रहणमेवैतदिति । शिद्ग्रहणमपीत्यर्थः । तथा च ‘नल्यपी’ति सूत्रसह- कृतेनैतच्छिद्ग्रहणेन अनुबन्धत्वव्याप्याल्मात्रवृत्तित्वधर्मघटितधर्मातिदेशे ‘अनल्विधावि’ति निषेधो न प्रवर्तत इति विशेषरूपेण ज्ञापनादुभयोश्चारितार्थ्यम् । परिभाषार्थस्तु—अनुबन्धकृतमनेकाल्त्वं यथा न भवेत्तथा कल्पनीयमिति । तथा च अशब्दादाचारक्विबन्ताद् घञि अतो लोपे, ‘अ’ इत्यत्र घञ्वृत्तिहलन्तत्वा- तिदेशेन ‘हल्ङ्याबि’ति सुलोपो न । एतेन—‘रुङ् तुङ्’ इति ङिदादेशविधानात्सर्वा- देशाप्राप्त्या फलाभावेन परिभाषा शिद्ग्रहणं च व्यर्थे एवेत्यपास्तमिति ग्रन्थाशय इति—केचित् । यत्तु — अनेकाल्वृत्तिधर्मावच्छिन्नविधेयताश्रयः सर्वस्येत्यनेकाल्सूत्रार्थाद् बोध्यौ- शब्दस्यानेकाल्त्वाभावेऽपि तत्त्वान्न क्षतिः । लोपस्तु न सर्वादेशस्तत्र विधेयता- वच्छेदकस्याभावत्वस्यानेकाल्वृत्तित्वाभावात् । अनेकाल्वृत्तित्वस्य अल्समुदायवृत्ती- त्यर्थस्तेन ह्रस्वत्वादेरनेकेष्वल्प्सु विद्यमानत्वेऽपि न क्षतिरिति । तन्न ; ‘पथिन्मथी’त्या- इति ‘अणुदित्’सूत्रस्थं भाष्यं सङ्गच्छते । आनुमानिकस्थान्यादेशभावेनेति । ‘स्वं रूपमि’ति शास्त्रेण सानुबन्धस्य बोध्यत्वे प्राप्ते ‘तस्य लोपः’ इत्यनेनानुबन्धरहिते तद्बोध्यते इत्येतन्मूलकेने- त्यर्थः । अनुबन्धवृत्तीति । अनुबन्धवृत्तियोऽल्त्वव्याप्यो धर्मस्तद्घटितेत्यादिरर्थः । अनल्विधा- वित्यस्याप्रवृत्तिज्ञापनादिति । न च ‘नल्यपि’ इत्यनेन अनुबन्धत्वव्याप्याल्मात्रवृत्तित्वधर्मघटित- धर्मातिदेशे ‘अनल्विधौ’ इति निषेधो न प्रवर्तत इत्येव पूर्वं ज्ञाप्यताम्, तथा सति अल्त्वादे- र्नुबन्धत्वव्याप्यत्वाभावेन ‘अनल्विधावि’ति निषेधप्रवृत्तौ बाधकाभावेन स्थानिवद्भावाभावेन शिद्ग्रहणस्य चारितार्थ्यं सम्भवत्येवेति वाच्यम् ; अनुबन्धवृत्तित्वापेक्षयाऽनुबन्धत्वव्याप्यत्वस्य गुरु- भूततया तस्य ज्ञाप्यशरीरे प्रवेशे मानाभाव इत्याशयेन तथा कल्पयितुं पूर्वमशक्यत्वात् । अनुबन्धत्वव्याप्येति । इत्संज्ञकत्वमनुबन्धत्वम्, तद्व्याप्यः इत्संज्ञक-कत्वादिरूपः । हल्ङ्याबिति सुलोपो नेति । एवम् ‘धूञ्-प्रीञादि’धातुभ्यः ‘गुरोश्च हल’ इति सूत्रेणाप्रत्ययः, ‘प्रपठ्ये’त्यत्रब ‘क्वा’प्रत्ययघटकककारानुबन्धगतवल्त्वमादाय वलादिलक्षणेडागमश्च नेत्यपि बोध्यम् ।

६ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः २९ डादिविषये तु सर्वादेशत्वं विनाऽनुबन्धत्वस्यैव अभावेनानुपूर्व्यात् सिद्धम् ॥ ६ ॥ कारादेशस्य, 'दिव औदि'त्योकारादेशस्य च तथात्वाभावेन सूत्राप्राप्त्या 'नानुबन्ध- कृतमि'ति परिभाषया सर्वादेशवारणपरभाष्यासङ्गतेः । एतेन - 'आनुपूर्वीप्रकारेण बोधकं यदनेकाल्पदं तद्बोध्यः सर्वस्यादेश' इति सूत्रार्थालोपस्यानुपूर्वीप्रकारेण बोध- कत्वाभावादोशादेस्तथात्वाच्च न दोष इति परास्तम् ; पूर्वोक्तयुक्त्या बोध्यस्यानेकाल्त्वे तु न काऽप्यनुपपत्तिरिति ध्येयम् । न चाल्घटितस्य बाधको योऽनेकाल् तद्बोध्यः सर्वस्य भवते'त्यनेकाल्सूत्रार्थेन लोपपदस्याल्घटितबोधकत्वाभावेन न सर्वादेशता- प्रयोजकत्वम्, विसर्जनीयादिपदानाम्लघटितबोधकत्वेऽपि 'निर्दिश्यमान'परिभाषयैव तत्र तत्र वारणसम्भवादिति वाच्यम् ; 'अत्रानुनासिकः पूर्वस्य तु वा', 'उदस्थास्तम्भोर्'- त्येतद्विषये सर्वादेशापत्तेर्दुर्वारत्वात् । न च ज्ञापितेऽपि स्वांशे चारितार्थ्यं दुरुप- पादम्, औशादौ शकारोच्चारणसामर्थ्याद् भूतपूर्वानेकाल्त्वमादायापि सर्वादेशसिद्धेरिति वाच्यम् ; 'जसः शी', 'जश्शसोः शिरि'त्यादेः शित्त्वस्य 'विभाषा डिश्योः', 'शिसर्वनाम- स्थानमि'त्यत्र विशेषणार्थतया चारितार्थ्येन शकारोच्चारणवैयर्थ्याभावेन भूतपूर्व- गत्याश्रयणे मानाभावात् स्वांशे चारितार्थ्यस्य सौष्ठवात् । डादिविषये त्विति । डादिविषये सर्वादेशात्प्राक् प्रत्ययत्वाभावेन इत्त्वाऽप्राप्त्या न परिभाषाप्रवृत्त्यवसर इति भावः । न चैतद्ग्रन्थकृन्मते इत्संज्ञायोग्यत्वरूपस्यानु- बन्धत्वस्य सत्त्वात्परिभाषाप्रवृत्तेः सुलभतयैतद्ग्रन्थासङ्गतिः, 'जसः शी'ति पूर्वग्रन्थ- विरोधश्चेति वाच्यम् ; अनुबन्धत्वस्याभावेन विनापि, अनुबन्धत्वसत्त्वेऽपि डादि- विषये सर्वादेशत्वमानुपूर्व्यात्, 'डा + आ' इत्यादिप्रश्लेषात् सिद्धमिति योजनया ग्रन्थसङ्गतेरिति—केचित् । तथात्वाभावेनेति । तत्र तकारस्य आकारौकारोच्चारणमात्रे सहायतासम्पादनेन चरितार्थतया आत्त्वौत्वावच्छिन्नविधेयताकल्पने मानाभावादिति भावः । स्वांशे चारितार्थ्यस्य सौष्ठवादिति । ननु शकारोच्चारणस्य विशेषणार्थतया चारि- तार्थ्यसम्भवेऽपि सर्वादेशात् प्राक् इत्संज्ञाया एवाभावेन इत्संज्ञकत्वरूपानुबन्धत्वाभावेन परिभाषा- ऽप्राप्त्या अनेकाल्त्वादेव सर्वादेशो भविष्यतीति स्वांशे चारितार्थ्यं दुरुपपादमिति चेन्न । ग्रन्थ- कर्त्रा इत्संज्ञायोग्यत्वरूपानुबन्धत्वस्य स्वीकृतत्वेनादोषात् । एवम् 'अनेकाल्शिति' सूत्रेऽपि शित्पदं शित्त्वयोग्यपरमेवेति बोध्यम् । ध्वनितञ्चेदम् 'अनेकालशित् सर्वस्ये'ति सूत्रे भाष्ये । तत्र हि—शित उदाहरणं 'जशः शि' इत्यादिप्रतिपाद्यानेकाल्त्वादेव तत्संसाध्य, व्यर्थं शिद्ग्रहणं परिभाषाज्ञापनार्थमित्युक्तम् । इत्संज्ञायोग्यत्वरूपस्य अनुबन्धत्वस्यानङ्गीकारे तत्र परिभाषाया अप्राप्त्या शित उदाहरणत्वस्यासम्भवेन भाष्यासङ्गतिरेव स्यात् । किञ्च—काणोर्विषये 'नानु- बन्धकृतमसारूप्यमि'ति परिभाषया विकल्पाभावो न प्रकल्पेत, तत्प्रवृत्तिकाले इत्संज्ञकत्वरूपानु- बन्धत्वाज्ञानेन परिभाषाऽप्राप्तेः, इत्येतत्सर्वं शेखरे स्पष्टम् । अत्र प्राचीनाः—इत्संज्ञायोग्यत्वापेक्षया इत्संज्ञावत्त्वस्य अनुबन्धपदशक्यतावच्छेदकत्व- कल्पने लाघवेन तदवच्छिन्नेऽनुबन्धपदशक्तिरिति । क्वचित् बाधेन लक्षणया इत्संज्ञायोग्यत्वस्यापि

वस्तुतस्तु—परिभाषाप्रवृत्तौ अनुबन्धत्वस्योपजीव्यतया डादिविषये परिभाषा- प्रवृत्तिस्वीकारे 'अनेकाल्'त्यस्याप्रवृत्त्या डादीनामन्त्यादेशत्वे डकारादेरित्संज्ञाया अप्रवृत्त्या स्वोपजीव्यानुबन्धत्वविघातस्य स्पष्टतया 'सन्निपात'परिभाषया निरुक्तपरि- भाषाया अप्रवृत्तेरुक्तग्रन्थस्य यथाश्रुतार्थकत्वेऽपि न क्षतिः । 'जसः शी'त्यत्र तु एत- त्परिभाषाप्रवृत्तावपि शित्वात्सर्वादेशस्य सत्त्वेन स्वोपजीव्यानुबन्धत्वस्य विघाताभावेन 'सन्निपात'-परिभाषाया विषयाभावान्न पूर्वापरस्वग्रन्थविरोधोऽपीति बोध्यम् ।। ६ ।।

भानम् । यथा 'नानुबन्धकृतमसारूप्यमि'त्यत्र, तेन काणोविषये विकल्पाभावः सिद्धयति । नानुबन्ध- कृतमनेकाल्त्वम्' इत्यत्रानुबन्धपदस्य इत्संज्ञायोग्यत्वरूपानुबन्धत्वपरस्यास्वीकारेऽपि फलाभावा- द्दोषाभावाच्च तद्भाष्यस्य एकदेश्युक्तित्वमेव । किञ्च परिभाषा शिद्

४ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३१ नन्वेवमपि 'अवदातं मुखमि'त्यत्र पलोपोत्तरमात्त्वे कृतेऽदाबिति पलोपोत्तरमात्त्व इति । न च पलोपोत्तरमुपदिश्यमानत्वाभावः ; स्थानिवद्भावेन तल्लाभात् । न चैवम् 'अट्'धातौ अस्येत्संज्ञोत्तरं टस्येत्त्वापत्तिरिति वाच्यम् ; अत्र केचित्—अल्त्वव्यवहाराभाव इत्यस्य इत्पदविशिष्टभिन्नं यदल्बोधकं पदं तद्बोध्यत्वाभाव इत्यर्थः । वैशिष्ट्यञ्च—स्वप्रयोज्यविषयतानिरूपितविषयताप्रयोजकत्व-स्वनिष्ठविषयतानिरूपित- विषयताप्रयोजकत्वैतदन्यतरसम्बन्धेन । आद्यसम्बन्धे हलन्त्यघटक-हल्पदेन किदादिपदेन च अनुबन्धानां ग्रहणं भवति । द्वितीयसम्बन्धेन च 'यस्मिन्विधिस्'रिति परिभाषाघटकेन अल्ग्रहणे- त्यनेन शितीति कर्मधारयस्य ग्रहणम् । एवञ्च पूर्वोक्तेषु लक्ष्येषु

३२ परिभाषेन्दुशेखरः [ १ प्रकरणे- घुसंज्ञाप्रतिषेधो न स्याद्, दैपः पकारसत्त्वेनेजन्तत्वादात्त्वाप्राप्त्या पलोपोत्तरं पकाराभावेनास्य दाप्त्वाभावादत आह— इत्संज्ञाविधौ अनतिदिष्टोपदि‍श्यमानत्वस्यैव प्रयोजकत्वात् । अत एव मकारपरित्राणार्थः स्थमोरुकारश्चरितार्थः । आत्त्वविधौ अतिदिष्टोपदि‍श्यमानत्वस्यापि प्रयोजकत्वे 'दो दद्धोरि'ति सूत्रे दा-ग्रहणमेव मानम् ; अन्यथा धारूप-घोः 'दधातेर्हि'रित्यनेनैव बाधा- द्धेट्ष्टकारस्य लोपोत्तरमात्त्वाऽप्राप्त्या घुत्वाभावादेव तदप्राप्तेर्दारूपस्यैव तत्सम्भवेन तद्ग्रहणं व्यर्थमेव स्यात् । न चैवं 'पच्'धातौ ष्येत्संज्ञालोपोत्तरमकारस्य सा न स्यादुपदेशत्वस्य स्थानिवत्त्वेनालाभादिति वाच्यम् ; संज्ञयोर्विरोधाभावेन युगपद्- कार-षकारयोस्तत्सत्त्वेनातिदेश

'उदीचां माङः' इति निर्देशोऽस्या ज्ञापकः । 'आदेच उपदेशे' इति ७ प० विचार ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३३ नानुबन्धकृतमनेजन्तत्वम् ॥ ७ ॥ -: ० :- 'उदीचां माङः' इति निर्देशोऽस्या ज्ञापकः । 'आदेच उपदेशे' इति सूत्रेण उपदिश्यमानस्यैजन्तस्यात्त्वं क्रियते, ङकारसत्त्वे त्वेजन्तत्वाभावा- दात्त्वाप्राप्तेस्तस्यासङ्गतिः । न चास्यामवस्थायां तस्य धातुत्वाभावात्कथमात्त्वम्, तत्र 'धातोरि'त्यस्य निवृत्तेरित्यन्यत्र विस्तरः । स्पष्टञ्चेदं 'दाधा घ्वदाबि'ति सूत्रे भाष्ये ॥ ७ ॥ ष्नोत्वम् । विधेयता तु सन्तत्वेन रूपेण सशब्दे एव, न तु सञ्शब्दे । अत एव 'इदम इशि'ति भाष्यं स्वरसत उपपद्यते । तेनाण्त्वाभावान् णेऽण्कार्यं, न दापो, दाब्-

नन्वेवमपि 'वाऽसरूप'सूत्रेण क-विषयेऽणोऽप्यापत्तिरित्यत आह— नानुबन्धकृतमसारूप्यम् ॥ ८ ॥ —: ० :— अणोऽप्यापत्तिरिति । ननु 'वाऽसरूप'सूत्रे असरूपपदेन औपदेशिकसारूप्यवद्- भिन्नस्य ग्रहणे तादृशसारूप्यवतोर्वैकल्पिकबाध्यबाधकभावस्वीकारेऽपि फले विशेषा- भावेन 'असरूप'ग्रहणवैयर्थ्यापत्या प्रायोगिकस्यैव तस्य ग्रहणावश्यकतयाऽनुबन्ध- विनिर्मुक्तपदार्थोपस्थितिरिति सिद्धान्तरीत्या काणोरपि बोध्ययोरकारयोः सरूपत्वेन सूत्राप्राप्त्या कथं कविषयेऽणोऽप्यापत्तिरिति चेन्न । 'हनश्च वधः', 'मूर्तौ घन' इत्येतद्विहितयोरप्रत्यययोर्विकल्पेन बाधाभावाय सूत्रेऽसरूपग्रहणस्य चारितार्थ्येन प्रायोगिकग्रहणे मानाभावादुपदेशे काणोरसरूपत्वेनोकापत्तेः सुवचत्वात् । निरुक्तयो- [L

८-९ प० विचार ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३१ 'ददाति-दधात्योर्विभाषा' इति णबाधक-शस्य विकल्पविधायकमस्यां ज्ञापकम्; तेन 'गोद' इत्यादौ नाणिति 'वाऽसरूप'सूत्रे भाष्ये स्पष्टम्॥ ८ ॥ ननु संख्याग्रहणे बह्वादीनामेव ग्रहणं स्यात्, प्रकरणस्याभिधानिया- मकत्वसिद्धात् 'कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्यय' इति न्यायात् । अस्ति च प्रकृते बह्वादीनां संख्यासंज्ञा कृतेति ज्ञानरूपं प्रकरणम्, न तु लोकप्रसिद्धैक-द्व्यादीनामित्यत आह— उभयगतिरिह भवति ॥ ९ ॥ इह = शास्त्रे । 'संख्याया अतिशदन्ताया' इति निषेधोऽस्या ज्ञापकः । गिकमेव सारूप्यं गृह्यत इति वदन्ति । तत्तूच्छम् ; प्रायोगिकग्रहणे प्रयोगमात्राव- च्छेदेन सारूप्यम् यत्किञ्चित्प्रयोगावच्छेदेन वा तद्गृह्यते ? नाद्यः ; 'इगुपधज्ञा',

३६ परिभाषेन्दुशेखरः [ १ प्रकरणे- नहि कृत्रिमा संख्या त्यन्ता षडन्ता वाऽस्ति, तेन 'कर्तरि कर्मव्यतिहारे', 'कण्वमेघेभ्यः करणे', 'विप्रतिषिद्धं चानधिकरणे'त्यादौ लौकिकक्रिया- द्रव्याद्यवगतिः । तत्र क्वोभयगतिः, क्वाऽकृत्रिमस्यैव, क्व कृत्रिमस्यैवेत्यत्र लक्ष्यानुसारि-व्याख्यानमेव शरणम् । अत एवाऽऽम्रेडितशब्देन कृत्रिमस्यैव ग्रहणं, न तु द्विस्त्रिर्घृष्टमात्रस्य । स्पष्टञ्चेदं संख्यासंज्ञासूत्रे भाष्ये । यत्तु-संज्ञाशास्त्राणां मच्छास्त्रेऽनेन शब्देनैत एवेति नियमार्थत्वं 'कृत्रिमाकृत्रिम'न्यायबीजमिति । तन्न ; तेषामगृहीतशक्तिग्राहकत्वेन विधित्वे सम्भवति नियमत्वायोगात् । 'सर्वे सर्वार्थवाचका' इत्यभ्युपगमोऽपि योगिदृष्ट्या, न त्वस्मद्दृष्ट्या, विशिष्य सर्वशब्दार्थज्ञानस्याशक्यत्वात्

१० प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ३७ निमित्तकारणमात्रपरं, प्रमाणाभावादित्यर्थः । ननु ‘क्ङिति चे’ति सूत्रे परसप्तम्या- श्रयणेऽपि ‘रोरवीती’त्यत्रान्तरङ्गप्रतिषेधदृष्ट्या बहिरङ्गगुणस्यासिद्धत्वेन बाधायोगात् तन्निमित्तग्रहणं न कार्यम्, एवं ‘कवयती’त्यत्रापि आचारक्विब्निमित्तकगुणनिषेधो नेति ‘अध्येते’त्यादौ ‘क्ङिति चे’त्यस्याप्राप्तिः । न च परसप्तम्याश्रयणे ‘भिन्नमि’त्यत्र दकारेण व्यवधानाद् गुणनिषेधो न स्यादिति वाच्यम् ; क्नोः कित्त्वसामर्थ्येनैक- वर्णव्यवधानेऽपि निषेधप्रवृत्तिस्वीकारात् । न च ‘भवत’ इत्यादौ अकारव्यव- धानेऽपि गुणनिषेधः स्यात्, निषेधस्य बहिरङ्गतयाऽसिद्धत्वन्तु न, ‘निषेधाश्च बलीयांस’ इत्यनेन तद्बाधादिति वाच्यम् ; वर्णपदेन हल्वर्णस्य ग्रहणेनादोषात् । न च ‘अक्षैष्टामि’त्यत्र सकारेण व्यवधानाद् वृद्धिनिषेधः स्यादिति वाच्यम् ; धात्वव- यवहल्वर्णस्य ज्ञापकसाजात्यात्तत्र ग्रहणादिति चेन्न । ‘गुते’त्यत्र ङानिमित्तकगुण- निषेधानापत्त्या धात्ववयवेत्यादि-सङ्कोचासम्भवेन ‘भवत’ इत्यादौ गुणनिषेधापत्तेः परसप्तम्याश्रयणस्य अशक्यत्वात् । केचित्तु—‘क्ङिती’ति परसप्तम्येव, क्योः कित्त्वसामर्थ्येन गुणवृद्धिनिमित्त- प्रत्ययभिन्नहल्व्यवधानं सह्यते, तेन ‘अक्षैष्टामि’त्यत्र वृद्धिनिमित्तहल्व्यवधानान्न वृद्धिनिषेधः । अत एव निमित्तसप्तमीवादिनस्तव मतेऽपि वृद्धिनिषेधो न ; अन्यथा ‘तां’रूपङिन्निमित्तकत्वेन वृद्धेर्निषेधो दुर्वार एव स्यात् । ‘गुते’त्यत्र गुणनिमित्त- भिन्नतकाररूपहल्व्यवधानाद् गुणनिषेधश्च सिद्धः । एवञ्च ‘अध्येते’त्यादौ परिभाषा- प्रमाणाभावादित्यर्थ इति । परिभाषाभावे निमित्तपदेन षष्ठ्यन्त-सप्तम्यन्त-पञ्चम्यन्त- पदप्रयोज्यविषयताश्रयमात्रस्य ग्रहणेन प्रकृतिरूपङित्पर्याप्त-षष्ठ्यन्तपदप्रयोज्याङ्गत्वावच्छिन्न- निमित्ततामादायापि गुणनिषेधः स्यादिति भावः । अन्तरङ्गप्रतिषेधदृष्ट्येति । न च ‘निषेधाश्च बलीयांसः’ इति परिभाषया निषेध एव स्यादिति वाच्यम् ; तस्या निषेधशास्त्रस्य दुर्बलत्वे एव प्रवृत्तेः, प्रकृते च निषेधस्यान्तरङ्गत्वेन सब- लत्वात् । अत एव ‘प्रेद्धा’ इति भाष्यं सङ्गच्छते । तत्र हि ‘न धातुलोपः’ इति सूत्रे ‘इक्’परिभाषाया अनुपस्थितौ ‘आद्गुणः’ इति गुणस्य निषेधः स्यादित्याशङ्क्य, अन्तरङ्गे निषेधे कर्तव्ये वर्णद्वया- पेक्षस्य बहिरङ्गस्य गुणस्यासिद्धत्वान्न निषेधः’ इति समाहितम् । सबलत्वेऽपि परिभाषाप्रवृत्तौ तद्भाष्यासङ्गतेः । कवयतीति । ननु गित्साहचर्यात् क्ङितोऽपि धातुत्वावच्छिन्नोद्देश्यताकप्रत्ययस्य ग्रहणेन प्रकृते क्विपः प्रातिपदिकत्वावच्छिन्नोद्देश्यताकत्वेन निषेधाप्राप्तेरिति चेन्न । ‘ग्रामणयति’ इत्यस्य उपलक्षकत्वात् ग्रामणीरिति कर्तृक्विबन्तादाचारक्विपि धातुसंज्ञायां लडादिषु प्रत्ययलक्षणेन कर्तृक्विपो विद्यमानतया तस्य धातुत्वावच्छिन्नोद्देश्यताकत्वेन निषेधप्राप्तेः । हल्वर्णस्य ग्रहणेनादोषादिति । ननु हल्वर्णव्यवधाने निषेधप्रवृत्ति-स्वीकारे ‘भी’धातोर्घञर्थे कप्रत्यये इयङि ‘भिय’ इति जाते, तस्मादाचारक्विबन्तात् क्वनिपि अल्लोप- यलोपयोः ‘भिवे’ति जाते अल्लोपस्य स्थानिवत्त्वेन अकारबुद्धौ हल्वर्णव्यवधानाभावेन निषेधाप्राप्तौ ‘पुगन्ते’ति गुणः स्यात् । न च तत्र पुगन्तसाहचर्याल्लघूपधमपि हल्निरूपितोपधात्ववद् गृह्यते । एवञ्च प्रकृते अज्निरूपितोपधायाः सत्त्वेन गुणप्राप्तेरिति वाच्यम् ; एतादृशसाहचर्या-

३८ परिभाषेन्दुशेखरः [ १ प्रकरणे- कार्यमनुभवन् हि कार्यों निमित्ततया नाऽऽश्रीयते ॥ १० ॥ -: o :- 'स्थण्डिलाच्छयितरी'ति निर्देशश्चास्यां ज्ञापकः । 'ऊर्णुनविषती'त्यादि- भावेऽपि दोषाभावेन 'अरिरिषती'त्यत्र 'द्विर्वचनेऽची'ति सूत्रप्रवृत्तौ दोषः स्यादित्यर्थक- मवतरणं दातुमुचितमिति वदन्ति । कार्यमनुभवन् हि कार्यों निमित्ततया नाऽऽश्रीयते । 'शयिते'त्यत्र साक्षाद् गुणस्ये- कारनिमित्तकत्वेऽप्यान्मानिकादेशकल्पनया 'अरिरिषती'त्यत्र कार्यितवतदवयवद्वारा वाऽत्र समुदायस्य निमित्तत्वं बोध्यम् । निर्देशश्चास्यां ज्ञापक इति । तेन 'निष्ठा शीङि'ति कित्त्वप्रतिषेधसङ्ग्रहः ; अन्यथा प्रकृतिनिष्ठ-ङित्त्वेन गुणप्रतिषेधस्य दुर्वारतया श्रयणे 'भिय' इत्यस्मादाचारक्विबन्ताद्विनिपि अल्लोप-यलोपयोः 'भिवे'ति जाते अल्लोपस्य स्थानि- वत्त्वेनाकारबुद्धौ हल्निरूपितोपधाया अभावेन गुणाभावापत्तेः । यदि च 'न धातुलोपः' इति सूत्रसत्त्वे तत्र गुणो न भवति, सूत्राभावे च गुणः स्यात्' इत्यारम्भ-प्रत्याख्यानयोः फलभेदः स्यादत आरम्भ-प्रत्याख्यानयोः फलैक्याय एतादृशलक्ष्याणामनभिधानमिति 'क्वौ लुप्तं न स्थानिवदि'त्यनेन स्थानिवद्भावनिषेधश्चेति साहचर्याश्रयणे न कोऽपि दोष इत्युच्यते ; तदाऽपि 'भयती'त्यत्र दोषापत्तेः सत्त्वात् । तत्र हि 'भी'धातोर्धञर्थे के आचारक्विबन्तात्कर्तरि क्विपि पुनराचारक्विपि धातुसंज्ञायां लटृतिप्सु अल्लोपस्य स्थानिवत्त्वेनाकारबुद्धौ हल्निरूपितोपधाया अभावेन गुणो न स्यात् । तस्मादेतादृशसाहचर्यं न शक्यते स्वीकर्तुम् । किञ्च—एतादृशसाहचर्यग्रहणे लघूपध- गुणान्तरङ्गत्वादियङ् 'रियति, पियति' इति भाष्यविरोधः । तत्र हि हलन्तनिरूपितोपधावतो- ऽभावेन गुणाप्राप्त्या 'गुणान्तरङ्गत्वादियङि'ति कथनमसङ्गतं स्यात् । केचित्तु—साहचर्यस्य लक्ष्यानुसारिव्याख्यानसमधिगम्यतया, उपायस्योपायान्तरादूषकत्वेन च 'अन्तरङ्ग'परिभाषया भाष्यकृता 'रियति, पियति'इत्यादौ समाधानं कृतमिति न साहचर्यग्रहणे दोषः । 'भयति' इत्यत्र तु 'क्वौ लुप्तं न स्थानिवत्' इति स्थानिवत्त्वाभावेनाकारस्य व्यवधाना- भावेन 'सार्वधातुके'त्यनेन गुणः । किञ्च—तत्र विचि पूर्वमेव गुणः । तस्मात् परसप्तमीस्वीकारे हल्वर्णव्यवधानं सह्यत इत्युक्तौ दोषाभाव इति वदन्ति । वदन्तीति । केचिदित्युक्त्याऽत्र अस्वरसः सूचितः । तथा हि 'गुणवृद्धिनिमित्तकप्रत्ययेतर- हल्वर्णव्यवधानं सह्यते' इति कल्पना न युक्ता । यतो हि निमित्तता नाम कारणता, सा च द्विविधा फलोपधायकतारूपा, स्वरूपयोग्यतारूपा च । तत्राद्यायाम् 'अक्षैत्सीम्' इत्यत्र निषेध- प्रवृत्तिकाले निमित्ततायाः सिचि अभावेन वृद्धिनिमित्तकप्रत्ययेतरस्य सिचो व्यवधानेऽपि निषेधप्रवृत्त्या दोषतद्वस्थ्यात् । द्वितीयायाम् 'गुप्ता' इत्यत्र दोषः स्यात्, तत्र स्वरूपयोग्यता- रूपकारणतायाः सत्वादतो नैतादृशी कल्पना कर्तुं शक्यते इति । यद्यपि ज्ञापकसाजात्येन यन्निमित्तं कित्त्वं ङित्त्वं वा आश्रित्य गुणनिषेधश्चिकीर्षितः, तदनधि- करणीभूतप्रत्ययेतरवर्णव्यवधानं सह्यत इति कल्पनान्तरे प्रकृते न दोषः ; तथापि एतादृशकल्पना-

: ननु'विङति च' or ननु 'विङति च'? No space in ननु'विङति च'. Wait, look at विङति: it is विङति (with ङ) or विङ्कति or विङिति? No, the sutra is क्विङ्ङति च or ग्ङिति च or क्ङिति च? Sutra 1.1.5 is क्ङिति च! Here: ननु'विङति च' or ननु'क्ङिति च' or विङति? Look at the character: वि then ङ् then or ? Wait! In line 28: ननु'विङति च'? No, wait, look at the first consonant of the sutra: Is that वि? Wait, क्ङिति च! But it looks like वि? No, wait, look at the letter: It has a loop to the left... wait, is that क्ङिति? Ah, क् attached to with ि! In some fonts, क्ङि looks like विङ? Wait, look at the word: ननु'क्ङिति च' - wait, let's look at the letter: It has a top line, a left vertical with a

इत्यस्य निरुक्तार्थस्वीकारे 'ऊर्णुनविषती'त्यत्र Wait, is it 'द्विर्वचन' इत्यस्य or 'द्विर्वचनेऽचि' इत्यस्य? Line 18: 'द्विर्वचन' इत्यस्य (yes, 'द्विर्वचन' इत्यस्य).

Line 19: गुणस्य अच्पर्याप्तिनिमित्तत्वान्निषेधाप्राप्त्या पूर्वं गुणेऽभ्यासे इकारश्रवणापत्तिरिति

Line 20: वाच्यम् ; गुणस्यातथात्वेऽपि अवादेशस्य तत्त्वेन तदप्रवृत्त्या नोशब्दस्य द्वित्वेऽप्यभ्यास-

Line 21: ह्रस्वेनेष्टसिद्धेः । 'जग्मतुरि'त्यत्रातुसत्कारे अच्पदप्रयोजन्यनिमित्ततायाः सत्त्वेन न क्षतिः । Wait, look at line 21: 'जग्मतुरि'त्यत्रातुसत्कारे ? Wait! Is it "अतुसत्कारे"? No! 'अतुस्' + 'आकारे' or 'अतुस्' + 'अकारे'? Let's look closely at line 21: ' ज ग् म तु रि ' त्य त्रा तु स ् [?] क ा र े Wait! Look at the letters: अ (a) तु (tu) स् (s) भ (

मूठमादाय 'द्विर्वचन' इति यणो निषेधेऽभ्यासे उकारश्रवणानापत्तिः । मम तु— यद्यत्राजादेशो यण् स्यात्तर्हि 'द्यू'शब्दस्य द्वित्वे ऊठः कार्यानुभवकर्तृत्वेन न निषेधः । अत एवात्र आदेशनिषेधस्थानिरूपातिदेशपक्षयोः फलैक्यसिद्धिः । न चैवमपि द्वित्व- निमित्तत्वं चङमादाय द्वित्वात्पूर्वं गाङादेशनिषेधात् 'अध्यजीगपदि'ति रूपासिद्धि- रिति वाच्यम् ; निमित्तताया अव्यवहितपूर्वत्वसम्बन्धावच्छिन्नप्रकारतानिरूपिता- ऽव्यवहितपूर्वत्वसम्बन्धावच्छिनावच्छेदकताभिन्नाया विवक्षितत्वेन चङ्निष्ठनिमि- त्तताया अतथात्वेन दोषाभावात् । न च काशब्दादाचारक्विबन्तादतुसि 'चकातुरि'- त्यातो लोपस्याच्पर्याप्तनिमित्तकत्वाभावेनोक्तनिषेधाप्रवृत्त्या पूर्वमतो लोपे, एकाचो- ऽभावेन द्वित्वानापत्त्योक्

'अचि किम् ? जेघ्रीयत' इति प्रत्युदाहरणदानोत्तरं 'प्रत्यय इति वक्ष्यामी'त्यस्य भाष्ये निरूपणेन प्रत्युदाहरणदानकाले च प्रत्यय इत्यास्याज्ञानेन तादृशप्रत्युदाहरणस्य परिभाषासत्त्व एव सङ्गत्त्या तत्कल्पनाया उचितत्वेन दोषाभावादिति प्राहुः । वस्तुतस्तु—'द्विर्वचनेऽची'ति सूत्रे 'गाङः प्रतिषेध' इति वार्तिकप्रत्याख्यानपर- भाष्येण ध्वनितैषा । तत्र हि 'गाङ् लिटो'ति सूत्रस्य 'लकारादौ लिटि इङो गाङ् स्यादि'त्यर्थं प्रकल्प्य, वार्तिकं भगवता प्रत्याख्यातम् । तत्राचीति निमित्तसप्तमी, न तु परसप्तमी ; अन्यथैशादेशोत्तरं द्वित्वे कर्तव्ये स्थानिरूपातिदेशापत्तिर्दुर्वारैव स्यात् । तथा चेङवयवमाश्रित्य सूत्रप्रवृत्तेः सुवचतया प्रत्याख्यानासङ्गतिः । मम तु उक्तपरि- भाषया इङः कार्यित्वेन निमित्तत्वाभावात्तमादाय सूत्रप्रवृत्तिः कर्तुमशक्यैवेति दिक् । उच्छृङ्खलास्तु—'क्ङिति चे'ति सूत्रे ङ्कितः प्रत्ययस्यैव ग्रहणेन तेन तदादे- रुपस्थित्या ङ्किन्निरूपिततदादिघटकस्यैव गुणादिनिषेधान् 'अध्येते'त्यादौ तदभावेन 'क्ङिति चे'त्यस्याप्रवृत्त्या नैतत्परिभाषायाः फलम् । न च 'शृणोती'त्यत्र श्नुप्रत्यय- विशिष्टस्यापि तदादित्वेन तद्घटकस्य विकरणस्य ङित्त्वेन च गुणनिषेधापत्तिरत- प्राहुरिति । नन्वेवं 'द्विर्वचनेऽचि' इत्यस्यानुपदोक्तार्थस्वीकारे परिभाषाफलत्वेन प्रागुपन्यस्तस्य 'अरिरिषति' इत्यस्य असङ्गत्यापत्तिः, द्वित्वनिमित्ततापर्याप्त्यधिकरणः प्रत्ययः 'इस्' इति, तद्घटकोऽच् इकारः, तत्पर्याप्तनिमित्तताकत्वस्य गुणेऽभावेन 'द्विर्वचनेऽचि' इत्यस्या- प्राप्त्या परिभाषाप्रवृत्तेरनुपयोगात् । प्रत्यये इत्यस्यानिवेशे तु 'द्विर्वचनेऽची'त्यस्य 'यथाकथञ्चित् पर्याप्त्याऽपर्याप्त्या वा द्वित्वनिमित्तताश्रयो योऽच् तत्पर्याप्तनिमित्तताकाजादेशो न द्वित्वे कर्तव्ये' इति तदर्थः । तथा सति द्वित्वनिमित्ततापर्याप्त्यधिकरणं यथा' ऋ इस्' इति 'इस्' इति च, तद्द्वाद्यच्त्वाच्छिन्नविषयताश्रयत्वेन ऋ इत्यपि, तत्पर्याप्तिकत्वावच्छिन्नविषयतारूपनिमित्तता-क गुणस्य तेन निषेधः प्राप्नोति । परिभाषाश्रयणं तु गुणरूपकार्यानुभवकर्तृतया निमित्तताया बाधेन न दोषः । ये तु—प्रत्ययपदमनिवेश्यैव 'अरिरिषति' इत्यस्य परिभानोफलत्वं खण्डयन्ति, ते मान्या एव । किञ्चैवं 'दुधूपति', 'बिभवनीविषति' इत्यादैरपि परिभाषाफलत्वं सम्भवति अपि । च 'अचि किम् ? 'जेघ्रीयते, देध्मीयते" इति भाष्यध्वनननिरूपणासङ्गतिः । प्रत्यये इत्येत-स्य अज्ञानकल्पनया ज्ञापने तु सुतरां तदसङ्गतिरिति चेन्न । प्रत्यये इत्यंशस्यैतत्परिभाषामूलक- त्वेनादोषात् । एतत्परिभासासत्त्वे तादृशः प्रत्यय एव सम्भवतीति तन्मूलकमेव 'प्रत्यय इति वक्ष्यामि' इति भाष्यकृतोक्तिमिति सुधियो विभावयन्तु । 'वृक्षप्रचलन'-न्यायेन 'घ्राय' इयस्यैव द्वित्वमिति न पूर्वोक्तभाष्येण परिभाषाध्वननं सम्भव- तीति वादिनां मतेऽप्याह—वस्तुत इति । इदमुपलक्षम्—'णिच्यच आदेशो न' इति ज्ञापक- परभाष्यस्यापि, तेनाप्यस्या ध्वनितत्वात् । एतस्याः परिभाषाया अभावे द्वित्वनिमित्ततापर्याप्त्य- धिकरणोभूतः समुदायः 'भू-इ' इति, तद्घटकोऽच् 'णिः', तत्पर्याप्तनिमित्ताकस्य वृद्धिशास्त्रस्य 'द्विर्वचनेऽचो'ति निषेधेनैवाप्राप्त्या 'अबीभवत्' इत्यादौ 'ओः पुयण्जि'ति सूत्रस्य चारितार्थ्येन ज्ञापकपरभाष्यासङ्गतिः स्पष्टैव । मम तु 'भू-इ' इति समुदायस्यावयवद्वारा कार्यानुभवकर्तृत्वेन द्वित्वनिमित्ततापर्याप्त्यधिकरणत्वाभावेन निषेधाप्राप्त्या ज्ञापकत्वं सङ्गच्छत एवेति दिक् । सम्प्रति परिभाषा-खण्डनप्रकारमाह—उच्छृङ्खलास्त्विति । प्रत्ययस्यैव ग्रहणेनेति । गित्साहचर्यादिति भावः । ङित्त्वेन च गुणनिषेधापत्तिरिति । इदं चिन्त्यम्—श्नुप्रत्ययरूप-

block: Look at line 25: अच्-अजाद्यो ... wait, there is a space! Wait, why is there a space? Let's look at line 25 letter by letter: (a) च् (c) - (hyphen) (a) जा (jā) द्ये (dye) or द्यो (dyo)? Wait, look at line 28: (a) च् (c) - (hyphen) (a) जा (jā) द्ये (dye)? Wait, look at the vertical bar after द्य: is there one? In line 28: अच्-अजाद्ये - wait, the space has a small white gap. Wait, why is there a gap in the line? Look at line 27-28: Line 27: अयम्भावः—'द्विर्वचने' इति परसप्तमी पूर्वविधाविति वर्तते ; अजादिरूपो यो द्वित्वनिमि- Line 28: `त्तापर्याप्त्यधिकरणस्तदव्यवहितपूर्वस्यैव द्वित्वे कर्तव्ये प्रत्यासत्त्या अच्-अजाद्ये तदन्यतरनि

ननु 'प्रणिदापयती'त्यादौ दारूपस्य विधीयमाना घुसंज्ञा दापेर्न ष्यन्तश्चार्थवद्घटितो नेति न दोषः । 'अध्येते'त्यादाविकारादेर्गुणं प्रति समवायि- कारणत्वकथनमध्ययुक्तमेव, घटादिकार्यसत्तादशायां कपालादेः समवायिकारणस्येव गुणादिकार्यसत्तादशायामिकारादेर्वर्तमानत्वस्याभावेन तत्त्वासम्भवात् । समवायि- कारणनाशस्य कार्यनाशव्याप्यतया इकारादिस्थानिनाशे गुणाद्यादेशानां नाशप्रसङ्गा- च्चेति वदन्ति ॥ १० ॥ दापेर्न स्यादिति । घुसंज्ञासूत्रे विशिष्टरूपोपादानेन 'अर्थवद्ग्रहणे'परिभाषया अर्थवद्ग्राह्यस्य ग्रहणेन आगमसभिव्याहारे तद्विशिष्टस्यैवार्थवत्त्वाद् पुग्रहितस्य 'दा' इत्यस्यानर्थकत्वाद् दापश्चोक्तदात्वाभावादिति भावः । अत एव 'स्यसिच्चीयुडि'- त्यत्र 'भावकर्मवाचिनि परतो ये स्यादय' इत्यर्थस्वीकारे 'सीयुडविशेषितः स्यादि'ति भाष्योक्तं सङ्गच्छते ; अन्यथा सीयुट्समभिव्याहारेऽपि तद्रहितस्य भावकर्मवाच- कत्वाक्षतेः 'सीयुडविशेषित' इत्युक्तिरसङ्गतैव स्यात् । अत एव च निपातेन उशब्देन नञ्समासे 'अनु + अत्रे'ति स्थिते नुड्रहितस्य 'उ'इत्यस्यानर्थकत्वेन 'निपात एकाज्'ति प्रगृह्यत्वाप्राप्त्या 'अन्वत्रे'त्यत्र यण्, 'रामाणामि'त्यत्र नुट्समभिव्याहारे आमोऽनर्थक- तया पूर्वनान्तस्य भत्वाभावेन 'अल्लोपोऽन' इति लोपाभावश्च सिद्ध्यति । न चैवं 'भिन्द्युः' तत्त्वासम्भवादिति । शब्दानां नित्यत्वात् विभुत्वाच्चेत्यपि बोध्यम् । मूलन्तु शब्दानां कार्यकारणभावारोपाभिप्रायेण बोध्यम् ॥ १० ॥ 'शयिता' इत्यादौ इड्विशिष्टस्यार्धधातुकत्वाभावात् कथं गुणप्रवृत्तिरित्यवसरसङ्गत्याऽऽह मूले-नन्विति । भाष्ये प्रकृतपरिभाषाया इदमेव प्रयोजनमुक्तमतस्तदेवोच्यते, न तु शयिते-' त्यादिरिति । असङ्गतैव स्यादिति । न चोक्तभाष्येण अवयविनिरूपितमवयवे पौर्वापर्यं नेत्येतावत एव बोधनेन नासङ्गतिरिति वाच्यम् ; मुख्यावयव एव अवयविनिरूपितपौर्वापर्यव्यवहाराभावस्य लोके दृष्टत्वेन आरोपिततदवयववति तथावक्तुमशक्यत्वात् । अन्यथा 'ऐत्, नद्यै' इत्यादि- वृद्धेरनुपपत्तेः । अन्वत्रेत्यत्र यणिति । न चोभयोर्द्योतकयोः परस्परमसामर्थ्यात् समासानापत्तिरिति वाच्यम् ; निपातानां यथाकार्यं द्योतकत्वं वाचकत्वं वा उभयमप्यस्तीति अभियुक्तैरङ्गीकारेणात्र समासानुरोधेन वाचकत्वस्वीकारात् । न च निपातयोः समासः क्वापि दृष्ट इति तु न ; 'ऐतिह्यम्' इत्यत्र 'इति-ह' इत्यनयोः समासस्य दृष्टत्वात् । लोपाभावश्च सिद्ध्यतीति । न च 'सन्निपात'- परिभाषया ह्रस्वत्वमुपजीव्य जायमानो नुट् ह्रस्वविघातको न भविष्यतीति वाच्यम् ; 'नामि' इति दीर्घारम्भसामर्थ्यात् नुड्विधायके माधवमते 'सन्निपात'परिभाषाप्रयुक्तसङ्कोचाभावस्य कल्पनेनादोषादिति भावः । माधवमतञ्च 'सन्निपात'परिभाषायां स्फुटीभविष्यति । वस्तुतस्तु- 'बहुकुमारीकः' इत्यत्र ह्रस्वाभाव एव तत्फलं बोध्यम् ; 'न कपि' इति निषेधस्तु 'अनन्तरस्ये'ति न्यायेन 'केऽण' इत्यस्यैव । अत एव 'प्रियं ग्रामणिकुलमस्य इति प्रियग्राम-

११ प० विचारः ] तत्त्वप्रकाशिकासमलङ्कृत-भूतिभूषितः ४५ इत्यत्र यासुट्समभिव्याहारे उसोऽनर्थकतया 'उस्यपदान्तादि'ति पररूपानापत्तिः, 'अर्थ- वद्ग्रहण'परिभाषयाऽर्थवत उसस्तत्र ग्रहणादिति वाच्यम् ; उक्तरूपसिद्धयर्थमेव भाष्ये एतत्परिभाषाया अप्रवृत्तेरुक्तत्वेन अदोषात् । एवञ्चैतदपि भाष्यमुक्तोऽर्थे गमकं बोध्यमिति दिक् । यत्तु—आगमसमभिव्यारे तद्रहितस्य अर्थवत्त्वस्वीकारे 'भूयादि'त्यत्र हल्ङ्यादि- लोपापत्तिरिति । तन्न ; ङ्याप्साहचर्येण हलन्ततदादेरपि लुप्यमानावयवाघटित- स्यैव ग्रहणेन 'भूयासि'त्यस्य तिश्बदावयव-यासुद्धटितत्वेनादोषात् । केचित्तु—'आद्यन्तौ टकितौ'त्यादिशास्त्रसहकृतेन 'अतिह्री'त्यादिशास्त्रेण अर्थबोधनाय 'दा' इत्यस्योच्च

४६ परिभाषेन्दुशेखरः [ १ प्रकरणे- केचित्तु—आगमसमभिव्याहारे इत्याद्यंशोऽपि 'यदागम'परिभाषासाध्य एवेति मत्वाऽवतरणदानकाले तज्ज्ञानेन पुग्रहितस्य 'दा' इत्यस्याप्यर्थवत्त्वेन घुत्वं स्यादित्य- वतरणासङ्गतौ 'यदागम'परिभाषाया अंशद्वयं प्रकल्प्य, आगमसमभिव्याहारे इत्येकमंशं बुद्ध्वा वक्ष्यमाणार्थस्य द्वितीयांशस्येदमवतरणमिति वदन्ति। तन्मृधैव; उक्तपरिभाषाया स्वरसतस्तादृशार्थाप्रतीतेरंशद्वय कल्पने मानाभावात्, फलाभावाच्च। यत्तु—समुदायस्य प्रत्येकानतिरिक्ततया दाब्बृत्यर्थवत्त्वस्य दाशब्देऽपि सत्त्वात् तस्य घुसंज्ञायामिष्टसिद्धौ अवतरणासङ्गतिः। न चार्थविषयकबोधजनकत्वप्रकारक- तात्पर्यरूपविशेष्यत्वरूपार्थवत्त्वस्य दावर्त्तिनो दाशब्दे कल्पनेऽपि प्रकृते तादृशविशेष्यत्व- प्रतियोगिकपर्याप्त्यनुयोग

ऽभावेनावतरणसङ्गतेः सुवचत्वात्। तन्मतेऽपि अवयवस्य समुदायभिन्नत्व- स्वीकारेण अवयववृत्तिधर्मस्यापर्याप्त्याऽपि समुदायेऽसत्त्वात् तादृशतात्पर्यविशेष्यत्व- प्रतियोगिकपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नाऽनुयोगिताक-पर्याप्तिप्रतियोगिभूतदात्व- वतो घुसंज्ञाविधानेन दात्वस्य तत्प्रतियोगिकपर्याप्त्यनुयोगितावच्छेदकद्वित्वस्य वा दाप्शब्दे विना परिभाषां कथमप्यसम्भवेन घुसंज्ञार्थं परिभाषाया आवश्यकत्वाच्च इत्यन्यत्र विस्तरः। ननु कार्यकालपक्षे—'पूर्वं धातुरुपसर्गेण युज्यते' इति भाष्यबलेन णिजुत्पत्तेः पूर्वमेव घुसंज्ञायां णत्वे चोक्तरूपसिद्धिः; 'पूर्वं धातुः साधनेन युज्यते' इति मतेऽपि पुको बहिरङ्गतयाऽसिद्धत्वेन दाशब्दस्यैवार्थवत्त्वेनान्तरङ्गत्वाद् घुसंज्ञा स्यात्। एवं यथोद्देशपक्षेऽपि--'जातघुसंज्ञामादाय णत्वं स्यादि'त्येतदवतरणं न केष्वपि पक्षेषु सम्भवतीति चेन्न। 'पूर्वं धातुरुपसर्गेण युज्यते' इति मतेऽपि प्राचीनमते 'अकृतव्यूह'- परिभाषया घुसंज्ञाया अप्राप्तेः, यद्यत्र घुसंज्ञा न स्यात्तर्हि पुकि कृते तन्निमित्तनाशः स्यादिति सम्भावनायाः सत्त्वात्। नवीनमतेऽपि णत्वाद्यसिद्धशास्त्रप्रतिबन्धक-पुगादि- सिद्धशास्त्रप्रवृत्तिसम्भावनायां पूर्वं णत्वाद्यसिद्धशास्त्रप्रवृत्तेः सुवचत्वात्, संज्ञाशास्त्राणां विधिनिमित्तनिमित्तकत्वेन घुसंज्ञाया अन्तरङ्गत्वस्य वक्तुमशक्यत्वाच्च। यथोद्देशपक्षे दाशब्दस्य घुसंज्ञायाः सत्त्वेऽपि निशब्दादौ तन्निरूपितोपसर्गत्वाभावाण्णत्वाप्राप्तेः, 'यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गा' इति सिद्धान्तात्। यत्क्रियायुक्तत्वञ्च— यज्जन्यबोधविषयीभूतक्रियाविशेषविषयकतात्पर्यग्राहकत्वम्। प्रकृते दाशब्दस्य पुक्- समभिव्याहारे अर्थबोधकत्वाभावेन तदुपसर्गत्वासम्भवात्। यत्तु—कश्चित् 'अर्तिह्री'ति सूत्रेण णेः पुडागमः पश् विकरणो वा विधेयः