परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 68, कुल 373 में से
संदर्भ में पढ़ें३८ परिभाषेन्दुशेखरः [ १ प्रकरणे- कार्यमनुभवन् हि कार्यों निमित्ततया नाऽऽश्रीयते ॥ १० ॥ -: o :- 'स्थण्डिलाच्छयितरी'ति निर्देशश्चास्यां ज्ञापकः । 'ऊर्णुनविषती'त्यादि- भावेऽपि दोषाभावेन 'अरिरिषती'त्यत्र 'द्विर्वचनेऽची'ति सूत्रप्रवृत्तौ दोषः स्यादित्यर्थक- मवतरणं दातुमुचितमिति वदन्ति । कार्यमनुभवन् हि कार्यों निमित्ततया नाऽऽश्रीयते । 'शयिते'त्यत्र साक्षाद् गुणस्ये- कारनिमित्तकत्वेऽप्यान्मानिकादेशकल्पनया 'अरिरिषती'त्यत्र कार्यितवतदवयवद्वारा वाऽत्र समुदायस्य निमित्तत्वं बोध्यम् । निर्देशश्चास्यां ज्ञापक इति । तेन 'निष्ठा शीङि'ति कित्त्वप्रतिषेधसङ्ग्रहः ; अन्यथा प्रकृतिनिष्ठ-ङित्त्वेन गुणप्रतिषेधस्य दुर्वारतया श्रयणे 'भिय' इत्यस्मादाचारक्विबन्ताद्विनिपि अल्लोप-यलोपयोः 'भिवे'ति जाते अल्लोपस्य स्थानि- वत्त्वेनाकारबुद्धौ हल्निरूपितोपधाया अभावेन गुणाभावापत्तेः । यदि च 'न धातुलोपः' इति सूत्रसत्त्वे तत्र गुणो न भवति, सूत्राभावे च गुणः स्यात्' इत्यारम्भ-प्रत्याख्यानयोः फलभेदः स्यादत आरम्भ-प्रत्याख्यानयोः फलैक्याय एतादृशलक्ष्याणामनभिधानमिति 'क्वौ लुप्तं न स्थानिवदि'त्यनेन स्थानिवद्भावनिषेधश्चेति साहचर्याश्रयणे न कोऽपि दोष इत्युच्यते ; तदाऽपि 'भयती'त्यत्र दोषापत्तेः सत्त्वात् । तत्र हि 'भी'धातोर्धञर्थे के आचारक्विबन्तात्कर्तरि क्विपि पुनराचारक्विपि धातुसंज्ञायां लटृतिप्सु अल्लोपस्य स्थानिवत्त्वेनाकारबुद्धौ हल्निरूपितोपधाया अभावेन गुणो न स्यात् । तस्मादेतादृशसाहचर्यं न शक्यते स्वीकर्तुम् । किञ्च—एतादृशसाहचर्यग्रहणे लघूपध- गुणान्तरङ्गत्वादियङ् 'रियति, पियति' इति भाष्यविरोधः । तत्र हि हलन्तनिरूपितोपधावतो- ऽभावेन गुणाप्राप्त्या 'गुणान्तरङ्गत्वादियङि'ति कथनमसङ्गतं स्यात् । केचित्तु—साहचर्यस्य लक्ष्यानुसारिव्याख्यानसमधिगम्यतया, उपायस्योपायान्तरादूषकत्वेन च 'अन्तरङ्ग'परिभाषया भाष्यकृता 'रियति, पियति'इत्यादौ समाधानं कृतमिति न साहचर्यग्रहणे दोषः । 'भयति' इत्यत्र तु 'क्वौ लुप्तं न स्थानिवत्' इति स्थानिवत्त्वाभावेनाकारस्य व्यवधाना- भावेन 'सार्वधातुके'त्यनेन गुणः । किञ्च—तत्र विचि पूर्वमेव गुणः । तस्मात् परसप्तमीस्वीकारे हल्वर्णव्यवधानं सह्यत इत्युक्तौ दोषाभाव इति वदन्ति । वदन्तीति । केचिदित्युक्त्याऽत्र अस्वरसः सूचितः । तथा हि 'गुणवृद्धिनिमित्तकप्रत्ययेतर- हल्वर्णव्यवधानं सह्यते' इति कल्पना न युक्ता । यतो हि निमित्तता नाम कारणता, सा च द्विविधा फलोपधायकतारूपा, स्वरूपयोग्यतारूपा च । तत्राद्यायाम् 'अक्षैत्सीम्' इत्यत्र निषेध- प्रवृत्तिकाले निमित्ततायाः सिचि अभावेन वृद्धिनिमित्तकप्रत्ययेतरस्य सिचो व्यवधानेऽपि निषेधप्रवृत्त्या दोषतद्वस्थ्यात् । द्वितीयायाम् 'गुप्ता' इत्यत्र दोषः स्यात्, तत्र स्वरूपयोग्यता- रूपकारणतायाः सत्वादतो नैतादृशी कल्पना कर्तुं शक्यते इति । यद्यपि ज्ञापकसाजात्येन यन्निमित्तं कित्त्वं ङित्त्वं वा आश्रित्य गुणनिषेधश्चिकीर्षितः, तदनधि- करणीभूतप्रत्ययेतरवर्णव्यवधानं सह्यत इति कल्पनान्तरे प्रकृते न दोषः ; तथापि एतादृशकल्पना-