परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 71, कुल 373 में से
संदर्भ में पढ़ेंमूठमादाय 'द्विर्वचन' इति यणो निषेधेऽभ्यासे उकारश्रवणानापत्तिः । मम तु— यद्यत्राजादेशो यण् स्यात्तर्हि 'द्यू'शब्दस्य द्वित्वे ऊठः कार्यानुभवकर्तृत्वेन न निषेधः । अत एवात्र आदेशनिषेधस्थानिरूपातिदेशपक्षयोः फलैक्यसिद्धिः । न चैवमपि द्वित्व- निमित्तत्वं चङमादाय द्वित्वात्पूर्वं गाङादेशनिषेधात् 'अध्यजीगपदि'ति रूपासिद्धि- रिति वाच्यम् ; निमित्तताया अव्यवहितपूर्वत्वसम्बन्धावच्छिन्नप्रकारतानिरूपिता- ऽव्यवहितपूर्वत्वसम्बन्धावच्छिनावच्छेदकताभिन्नाया विवक्षितत्वेन चङ्निष्ठनिमि- त्तताया अतथात्वेन दोषाभावात् । न च काशब्दादाचारक्विबन्तादतुसि 'चकातुरि'- त्यातो लोपस्याच्पर्याप्तनिमित्तकत्वाभावेनोक्तनिषेधाप्रवृत्त्या पूर्वमतो लोपे, एकाचो- ऽभावेन द्वित्वानापत्त्योक्