परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 77, कुल 373 में से
संदर्भ में पढ़ेंऽभावेनावतरणसङ्गतेः सुवचत्वात्। तन्मतेऽपि अवयवस्य समुदायभिन्नत्व- स्वीकारेण अवयववृत्तिधर्मस्यापर्याप्त्याऽपि समुदायेऽसत्त्वात् तादृशतात्पर्यविशेष्यत्व- प्रतियोगिकपर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नाऽनुयोगिताक-पर्याप्तिप्रतियोगिभूतदात्व- वतो घुसंज्ञाविधानेन दात्वस्य तत्प्रतियोगिकपर्याप्त्यनुयोगितावच्छेदकद्वित्वस्य वा दाप्शब्दे विना परिभाषां कथमप्यसम्भवेन घुसंज्ञार्थं परिभाषाया आवश्यकत्वाच्च इत्यन्यत्र विस्तरः। ननु कार्यकालपक्षे—'पूर्वं धातुरुपसर्गेण युज्यते' इति भाष्यबलेन णिजुत्पत्तेः पूर्वमेव घुसंज्ञायां णत्वे चोक्तरूपसिद्धिः; 'पूर्वं धातुः साधनेन युज्यते' इति मतेऽपि पुको बहिरङ्गतयाऽसिद्धत्वेन दाशब्दस्यैवार्थवत्त्वेनान्तरङ्गत्वाद् घुसंज्ञा स्यात्। एवं यथोद्देशपक्षेऽपि--'जातघुसंज्ञामादाय णत्वं स्यादि'त्येतदवतरणं न केष्वपि पक्षेषु सम्भवतीति चेन्न। 'पूर्वं धातुरुपसर्गेण युज्यते' इति मतेऽपि प्राचीनमते 'अकृतव्यूह'- परिभाषया घुसंज्ञाया अप्राप्तेः, यद्यत्र घुसंज्ञा न स्यात्तर्हि पुकि कृते तन्निमित्तनाशः स्यादिति सम्भावनायाः सत्त्वात्। नवीनमतेऽपि णत्वाद्यसिद्धशास्त्रप्रतिबन्धक-पुगादि- सिद्धशास्त्रप्रवृत्तिसम्भावनायां पूर्वं णत्वाद्यसिद्धशास्त्रप्रवृत्तेः सुवचत्वात्, संज्ञाशास्त्राणां विधिनिमित्तनिमित्तकत्वेन घुसंज्ञाया अन्तरङ्गत्वस्य वक्तुमशक्यत्वाच्च। यथोद्देशपक्षे दाशब्दस्य घुसंज्ञायाः सत्त्वेऽपि निशब्दादौ तन्निरूपितोपसर्गत्वाभावाण्णत्वाप्राप्तेः, 'यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गा' इति सिद्धान्तात्। यत्क्रियायुक्तत्वञ्च— यज्जन्यबोधविषयीभूतक्रियाविशेषविषयकतात्पर्यग्राहकत्वम्। प्रकृते दाशब्दस्य पुक्- समभिव्याहारे अर्थबोधकत्वाभावेन तदुपसर्गत्वासम्भवात्। यत्तु—कश्चित् 'अर्तिह्री'ति सूत्रेण णेः पुडागमः पश् विकरणो वा विधेयः