भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 78, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 78

४८ परिभाषेन्दुशेखरः [ १ प्रकरणे- स्यादत आह— यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते ॥ ११ ॥ —: o :— यमुद्दिश्यागमो विहितः स तद्गुणीभूतः शास्त्रेण तदवयवत्वेन बोधितो- यमुद्दिश्यागम इति । यस्य आगमा इति विग्रहः, उद्देश्यत्वं षष्ठ्यर्थः, तस्यावयव- त्वावच्छिन्नविधेयताश्रयरूपे आगमपदार्थे विधेयतायामन्वयः ; तदेकदेशेऽवयवत्वे- ऽन्वये तु निरूपितत्वं षष्ठ्यर्थः । नव्यनैयायिक नये तु विधेयावयवत्वयोर्मध्ये कुत्राप्य- न्वयेऽयमेव षष्ठ्यर्थ इति बोध्यम् । विहित इति तु व्यर्थमेव, विधानस्य आगमपदेनैव लाभात्, नहि केवलोऽवयव आगमपदेन लोके व्यवह्रियते । तद्गुणीभूत इति । रववयस्येत्वं भवती'त्यर्थकरणेन 'अतिष्ठिपत्' इत्यत्र दोषाभावेन मूलोक्तम