भारतकोश
परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

पृष्ठ 79, कुल 373 में से

संदर्भ में पढ़ें
पृष्ठ 79

ऽस्तद्ग्रहणेन तद्ग्राहकेण तद्बोधकेन शब्देन गृह्यते, बोध्यत इत्यर्थः । तत्र तद्गुणीभूता इत्यंशो बीजकथनम् । लोकेऽपि देवदत्तस्याङ्गाधिक्ये तद्विशिष्टस्यैव देवदत्तग्रहणेन ग्रहणं दृश्यते ।

आरोपितत्वं चार्थः, तेनारोपितावयवत्वविशिष्ट इत्यर्थः । मूलोक्तार्थस्तु न युक्तः ; यदागमपदार्थात्तदर्थस्य विशेषाभावेन पौनरुक्त्यापत्तेः । परिभाषायामागमा इति बहुवचनसत्त्वे 'आगमो विहित' इत्येकवचनान्तेन व्याख्यानन्तु प्रत्येकमेव लक्ष्य- संस्कारो लक्षणेन भवतीत्यभिप्रायेणेति मिश्राः । केचित्तु — सहेतुकार्थनिरूपकपरिभाषायां बहुवचनसत्त्वेऽपि तद्व्यवस्थापक- वाक्ये एकवचनान्तेन प्रयोगो ग्रन्थकृच्छैलीपरिशीलितः । अत एव 'अनेकान्ता अनुबन्धा' इत्यत्र 'ह्यवयव' इत्येकवचनान्तेन प्रयोग उपपद्यते । एवम् '

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक) · पृष्ठ 79, कुल 373 में से · BharatKosha