परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 99, कुल 373 में से
संदर्भ में पढ़ेंवस्तुतस्तु—स्वशक्यत्व-स्वविशिष्टवर्णघटितत्वोभयसम्बन्धेन षष्ठीप्रकृतिविशिष्टत्वं निर्दिश्यमानत्वम् । वैशिष्ट्यञ्च—स्वोपस्थाप्याघटितो यः स्वबोध्यस्तद्घटकत्वं स्व प- स्थाप्यावधिकपूर्वत्वं चेति सम्बन्धद्वयेन । अत्र पूर्वत्वं व्यवहितादिसाधारणम्, तेन 'स्नात्वा कालकीकृत्ये'त्यत्र पूर्वक्त्वावयववर्णस्य उक्तसम्बन्धद्वयेन षष्ठीप्रकृतिविशिष्टत्वेन नन्वत्र कल्पे 'समासेऽनञ् पूर्वे' इति सूत्रस्थभाष्यविरोधः । तत्र हि 'स्नात्वा कालकः' इत्यत्र ल्यपमाशङ्क्य 'स्नात्वा कालकादीनां प्रतिषेधो वक्तव्यः, न वक्तव्यः क्त्वान्तनिर्देशात् सिद्धम्, समासनिपातनाद्वे'त्युक्तम् । क्त्वान्तनिर्देशपक्षे 'स्नात्वा कालकः' इत्यत्र दोषाभावेऽपि 'स्नात्वा कालकीकृत्य' इत्यत्र पूर्वक्त्वो ल्यप्निवारणं न सम्भवति, प्रकृतनिर्दिश्यमानत्वलक्षणस्य तत्र सत्त्वात् ; फल