परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)
Paribhashendushekhara of Nagesha Bhatta with Commentary
महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा
पृष्ठ 98, कुल 373 में से
संदर्भ में पढ़ें६८ परिभाषेन्दुशेखरः [ १ प्रकरणे- यद्वा—स्वप्रयोज्योपस्थितिविषयस्य तादृशोपस्थितिविषयाघटितस्य ग्रहणेना- दोषात्, अरसो जरेति समुदायस्य तादृशजराशब्दघटितत्वेन तस्य ग्रहीतुमशक्यत्वात् । न च त्रिशब्दादाचारक्विबन्तात्कर्तरि क्विपि तुकि 'त्रितामि'त्यादौ निरुक्तनिर्दिश्य- मानत्वापत्तिरिति वाच्यम् ; 'नामी'ति सूत्रस्थभाष्यप्रामाण्येन तादृशरूपाणा- मनभिधानेनादोषात् । निर्दिश्यमानत्वलक्षणे स्वोपस्थाप्योद्देश्यकागमाघटितत्वरूपषष्ठी- प्रकृतिवैशिष्ट्यनियामकतृतीयसम्बन्धनिवेशात्, त्रिच्छब्दस्य तादृशतुग्घटितत्वेन 'अजराणी'त्यत्र नुम्घटितत्वेनादोषाच्च । एवं च 'अपिबदि'त्यत्र दोषवारणाय यदागम- न्यायस्य लक्षणाग्राहकत्वं स्वीकृत्य, सांसर्गिकविषयताभेदनिवेशादिक्लेशो न कर- णीय इति महालाघवम् । 'स्नात्वा कालकीकृत्ये'त्यादौ तु पूर्वोक्तरीत्यैव वारणं बोध्यम् । न चैवम् 'अपिबदि'त्यत्र दोषवारणे यदागमपरिभाषा व्यर्था, कल्पित- स्थान्यादेशभावस्य स्थानिवत्सूत्रे ग्रहणेनापि 'प्रणिदापयती'त्यादिसिद्धेरिति वाच्यम् ; इष्टापत्तेरित्याहुः । अनभिधानेनेति । तत्र हि भाष्ये "अमीति न्यासे 'ह्रस्वनद्याप्वे'ति सूत्रस्थं ह्रस्वग्रहणं भूतपूर्व ह्रस्वान्तग्रहणे ज्ञापकम्, तेन 'रामाणामि'त्यत्र नित्यत्वात् पूर्वं दीर्घेऽपि नुट् सिद्धयति, 'तिसृणामि'त्यत्र नुट् तु 'षट्चतुर्भ्यश्च' इति सूत्रे नेरित्यनुवृत्त्या सिद्धः" इत्युक्तम् । 'त्रितामि'- त्यस्याभिधाने तु सम्प्रति नुट् स्यात्, ह्रस्वग्रहणे तु न स्यादिति फलभेदापत्त्या तदनभिधानमाव- श्यकमिति भावः । वस्तुतस्तु—'षट्चतुर्भ्यश्च' इति सूत्रे चतुरशब्दसाहचर्येणातकारान्तस्यैव त्रिशब्दस्य ग्रहणेन न तत्र फलभेदः । किञ्च—सखिशब्दात् आचक्षाणणिजन्तात्क्विपि तुकि 'सखिद्' इत्यत्र 'सख्युरसम्बुद्धौ' इति अनङादेशापत्तिरित्याशयेनाह—निर्दिश्यमानत्वलक्षण इत्यादिः । स्वोपस्थाप्योद्देश्यकागमाघटितेति । नन्वेवमपि 'परिषिञ्चति' इत्यत्र नुमागमघटितत्वेन निर्दिश्यमानत्वाभावात् सिचः सस्य षत्वं न स्यादिति चेन्न । तत्स्थाने स्वविशिष्टागमाघटितत्व- निवेशात् । वैशिष्ट्यं च—स्वोपस्थाप्योद्देश्यकत्व-स्वविशिष्टभिन्नत्वैतदुभयसम्बन्धेन ; अत्र स्ववै० —स्वोपस्थाप्यघटकावधिकपूर्वत्व-स्वोपस्थाप्यघटककावधिकोत्तरत्वैतदुभयसम्बन्धेन । नन्वेवमपि 'स्नात्वा कालकीकृत्य' इत्यत्र पूर्वक्त्वाशब्दस्यापि निर्दिश्यमानत्वापत्तिः, स्वजन्योपस्थितीयविषयताश्रयाव्यवहितपूर्वत्वस्य स्वप्रयोज्यशाब्दबोधीयविषयताश्रयान्तेतरत्वस्य च उदासीनवर्णे एव सत्त्वेन पूर्वक्त्वाघटकवर्णेऽसत्त्वात्तद्घटितत्वरूपस्य द्वितीयसम्बन्धस्य आद्य- सम्बन्धस्य च सत्त्वादत आह—स्नात्वा कालकीकृत्येत्यादाविति । पूर्वोक्तरीत्येति । “पर्युदासन्यायेन अव्ययपूर्वपदपूर्वकस्यैव क्त्वाशब्दस्य 'समासेऽनपूर्व' इत्यनेन ल्यपो विधानात्" इत्येवं पूर्वोक्तरीत्येत्यर्थः । इष्टापत्तेरिति । लक्षणे आगमाघटितत्वनिवेशेनाङ्विशिष्टे निर्दिश्य- मानत्वाभावेन 'लावस्थायामडि'ति भाष्याविरोधादिति भावः। न चादन्तोपदिश्यमानत्वस्यानल्त्व- व्याप्यधर्मघटितत्वेन स्थानिवद्भावाप्रवृत्त्या 'पचमानः' इत्यत्र स्वरानापत्तिरिति वाच्यम् ; तत्र पूर्वोक्तरीत्या उपदेशेऽदन्तादित्यर्थकरणेनादोषात् । यद्वा—पञ्चमीसमासेन स्थानिवद्भावमाश्रित्य स्वरः सम्पादनीयः । अथवा—अदन्तोपदिश्यमानात् परतव्योपलक्षणविधया भानमङ्गीकृत्य समाधेयम्, तेन 'दीव्यमान' इत्यत्रापि न दोष इति भावः ।