भारतकोश
फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

Phaladeepika of Mantreshwara Daivajna with Commentary

मन्त्रेश्वर दैवज्ञ (टीकाकार: पं. सूर्यनारायण व्यास) द्वारा

DevanagariHindipublished684 पृष्ठ

पृष्ठ 226, कुल 684 में से

संदर्भ में पढ़ें
पृष्ठ 226

ग्यारहवाँ अध्याय : स्त्री जातक २२५ त्रिकोणे सौम्याश्चेत्सुखसुतसंपद्गुणवती बलोनाः क्रूराश्चेद्यदि भवति वन्ध्या मृतसुता ॥५॥ चन्द्रे भौमगृहे कुजादिकथितत्रिंशांशकेषु क्रमात् दुष्टा दास्यसती सुशीलविभवा मायाविनी दूषणी । शुक्रर्क्षे बहुदूषणान्यपतिगा पूज्या सुधीर्विश्रुता ज्ञर्क्षे च्छद्मवती नपुंसकसमा साध्वी गुणाढ्योत्सुका ॥६॥ स्वच्छन्दा भर्तृघातिन्यतिमहितगुणा शिल्पिनो साधुवृत्ता चान्द्रे जैवे गुणाढ्या विरतिरतिगुणा ज्ञातशिल्पातिसाध्वी । मान्दे दास्यन्यसक्ताश्रितपतिरसती निष्प्रजार्थार्कभे स्याद् दुर्भार्या हीनवृत्ता धरणिरतिवधूः पुंविचेष्टान्यसक्ता ॥७॥ शशिलग्नसमायुक्तैः फलं त्रिंशांशकैरिदम् । बलाबलविकल्पेन तयोरेवं विचिन्तयेत् ॥८॥ ज्येष्ठभ्रातरमम्बिकां च पितरं भर्तुः कनिष्ठं क्रमात् ज्येष्ठा ह्यासुरशूर्पजाश्च वनिता घ्नन्तीति तज्ज्ञा विदुः । चित्रार्द्राभुजगस्वराट्च्छतभिषङ् मूलाग्नितिष्योद्भवा वन्ध्या वा विधवाथवा मृतसुता त्यक्ता प्रियेणाधना ॥९॥ चन्द्रास्तोदयभाग्यपाः सह शुभैः सुस्थानगा भास्वराः पूज्या बन्धुषु पुण्यकर्मकुशला सौन्दर्यभाग्यान्विता । भर्तुः प्रीतिकरी सुपुत्रसहिता कल्याणशीला सती तावद्भाति सुमङ्गली च सुतनुर्यावच्छुभाख्येऽष्टमे ॥१०॥ शीतज्योतिषि योषितोऽनुपचयस्थाने कुजेनेक्षिते जातं गर्भफलप्रदं खलु रजः स्यादन्यथा निष्फलम् ।