भारतकोश
फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

Phaladeepika of Mantreshwara Daivajna with Commentary

मन्त्रेश्वर दैवज्ञ (टीकाकार: पं. सूर्यनारायण व्यास) द्वारा

DevanagariHindipublished684 पृष्ठ

पृष्ठ 225, कुल 684 में से

संदर्भ में पढ़ें
पृष्ठ 225

ग्यारहवाँ अध्याय स्त्री जातक यद्यत्पुंप्रसवे क्षमं तदखिलं स्त्रीणां प्रिये वा वदे- न्माङ्गल्यं निधनात् सुतांश्च नवमाल्लग्नात्तनोश्चारुताम् । भर्तारं सुभगत्वमस्तभवनात्सङ्गं सतीत्वं सुखात् सन्तस्तेषु शुभप्रदास्त्वशुभदाः क्रूरास्तदीशं विना ॥१॥ ‘ उदयहिमकरौ द्वौ युग्मगौ सौम्यदृष्टौ सुतनयपतिभूषासंपदुत्कृष्टशीला । अशुभसहितदृष्टौ चोजगौ पुंस्वभावा कुटिलमतिरवश्या भर्तु रुग्रा दरिद्रा ॥२॥ सद्राश्यंशयुते मदे द्युतियशोविद्यार्थवांस्तत्पति- र्व्यत्यस्ते कुतनुर्जडश्च कितवो निःस्वो वियोगस्तयोः । आग्नेयैर्मदनस्थितैश्च विधवा मिश्रैः पुनर्भू र्भवेत् क्रूरेष्वायुषि भर्तृ हन्त्र्यपि धने सन्तः स्वयं स्त्रीमृतिः ॥३॥ सुतस्थेऽलिस्त्रीगोहरिषु हिमगौ चाल्पतनया । यमाराकार्क्षांशे मदनसदने साम्यभगा । सुखे पापैर्युक्ते भवति कुलटा मन्दकुजयो- र्गृहेऽंशे लग्नेन्दू भृगुरपि च पुंश्चल्यभिहिता ॥४॥ शुभक्षेत्रांशेऽस्ते सुभगजघना मङ्गलवती विधाः सत्संबन्धेऽप्युदयसुखयोः साध्व्यतिगुणा ।