फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)
Phaladeepika of Mantreshwara Daivajna with Commentary
मन्त्रेश्वर दैवज्ञ (टीकाकार: पं. सूर्यनारायण व्यास) द्वारा
DevanagariHindipublished684 पृष्ठ
पृष्ठ 251, कुल 684 में से
संदर्भ में पढ़ेंपृष्ठ 251
तेरहवां अध्याय आयुर्भाव जाते कुमारे सति पूर्वमार्यै रायुर्विचिन्त्यं हि ततः फलानि । विचारणीया गुणिनि स्थितेतद् गुणाः समस्ताः खलु लक्षणज्ञैः ॥१॥ केचिद्यथाधानविलग्नमन्ये शीर्षोदयं भूपतनं हि केचित् । होराविदश्चेतनकाययोर्न्योर्वियोगकालं कथयन्ति लग्नम् ॥२॥ आद्वादशाब्दान्नरयोनिजन्मना- मायुष्कला निश्चयितुं न शक्यते । मात्रा च पित्रा कृतपापकर्मणा बालग्रहैर्नाशमुपैति बालकः ॥३॥ आद्ये चतुष्के जननीकृताद्यै र्मध्ये च पित्रार्जितपापसङ्घैः । बालस्तदन्त्यासु चतुःशरत्सु स्वकीयदोषैः समुपैति नाशम् ॥४॥ [L