फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)
Phaladeepika of Mantreshwara Daivajna with Commentary
मन्त्रेश्वर दैवज्ञ (टीकाकार: पं. सूर्यनारायण व्यास) द्वारा
पृष्ठ 34, कुल 684 में से
संदर्भ में पढ़ेंदूसरा अध्याय : ग्रह भेद ३१ सत्त्वं भूफलितं सहोदरगुणं शौर्यं रणं साहसं विद्वेषं च महानसाग्निकनकज्ञात्यस्त्रचोरान्रिपून् । उत्साहं परकामिनीरतिमसत्योक्तिं महीजाद्वदे- द्वैर्यं चित्तसमुन्नतिं च कलुषं सेनाधिपत्यं क्षतम् ॥३॥ पाण्डित्यं सुवचः कलानिपुणतां विद्वत्स्तुतिं मातुलं वाक्चातुर्यमुपासनादिपटुतां विद्यासु युक्तिं मतिम् । यज्ञं वैष्णवकर्म सत्यवचनं शुक्तिं विहारस्थलं शिल्पं बान्धवयौवराज्यसुहृदस्तद्भागिनेयं बुधात् ॥४॥ ज्ञानं सद्गुणमात्मजं च सचिवं स्वाचारमाचार्यकं • माहात्म्यं श्रुतिशास्त्रधीस्मृतिमतिं सर्वोन्नतिं सद्गतिम् । देवब्राह्मणभक्तिमध्वरतपःश्रद्धाश्च कोशस्थलं वैदुष्यं विजितेन्द्रियं धवसुखं संमानमीड्याद्वदेत् ॥५॥ संपद्वाहनवस्त्रभूषणनिधिद्रव्याणि तौर्यत्रिकं भार्यासौख्यसुगन्धपुष्पमदनव्यापारशय्यालयान् । श्रीमत्त्वं कवितासुखं बहुवधूसङ्गं विलासं मदं साचिव्यं सरसोक्तिमाह भृगुजादुद्वाहकर्मोत्सवम् ॥६॥ आयुष्यं मरणं भयं पतिततां दुःखावमानामयान् दारिद्र्यं भृतकापवादकलुषाण्याशौचनिन्द्यापदः । स्थैर्यं नीचजनाश्रयं च महिषं तन्द्रीमृणं चायसं दासत्वं कृषिसाधनं रविसुतात्कारागृहं बन्धनम् ॥७॥ तांबा, सोना, पिताः, शुभ फल, (अर्थात् अपना शुभ), धैर्य, शौर्य,