भारतकोश
फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

Phaladeepika of Mantreshwara Daivajna with Commentary

मन्त्रेश्वर दैवज्ञ (टीकाकार: पं. सूर्यनारायण व्यास) द्वारा

DevanagariHindipublished684 पृष्ठ

पृष्ठ 352, कुल 684 में से

संदर्भ में पढ़ें
पृष्ठ 352

उन्नीसवाँ अध्याय : दशाफल ३५१ भौमस्य स्वदशाफलानि हुतभुग्भूपाहवाद्यैर्धनं भैषज्यानृतवञ्चनैश्च विविधैः क्रौर्यैर्धनस्यागमः । पित्तासृग्ज्वरबाधितश्च सततं नीचाङ्गनासेवनं विद्वेषः सुतदारबन्धुगुरुभिः कष्टोऽन्यभाग्ये रतः ॥९॥ सौम्यः करोति सुहृदागममात्मसौख्यं विद्वत्प्रशंसितयशश्च गुरुप्रसादम् । प्रागल्भ्यमुक्तिविषयेऽपि परोपकारं जायात्मजादिसुहृदां कुशलं महत्त्वम् ॥१०॥ धर्मक्रियाप्तिममरेन्द्रगुरुर्विधत्ते संतानसिद्धिमवनीपतिपूजनं च । श्लाघ्यत्वमुन्नतजनेषु गजाश्वयान- प्राप्तिं वधूसुतसुहृद्युतिमिष्टसिद्धिम् ॥११॥ क्रीडासुखोपकरणानि सुवाहनाप्तिं गोरत्नभूषणनिधिप्रमदाप्रमोदम् । ज्ञानक्रियां सलिलयानमुपैति शौक्र्यां कल्याणकर्मबहुमानमिलाधिनाथात् ॥१२॥ पाकेऽर्कजस्य निजदारसुतातिरोगान्- वातोत्तरान्कृषिविनाशमसत्प्रलापम् । कुस्त्रीरतिं परिजनैर्वियुतिं प्रवास- माकस्मिकं स्वजनभूमिसुखार्थनाशम् ॥१३॥ कुर्यादहिः क्षितिपचोरविषाग्निशस्त्र- भीतिं सुतार्तिमतिविभ्रमबन्धुनाशम् ।