फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)
Phaladeepika of Mantreshwara Daivajna with Commentary
मन्त्रेश्वर दैवज्ञ (टीकाकार: पं. सूर्यनारायण व्यास) द्वारा
पृष्ठ 358, कुल 684 में से
संदर्भ में पढ़ेंउन्नीसवाँ अध्याय : दशाफल ३५७ असुरवरदशायां दुःस्वभावोऽथवा स्या- दतिगहनगदार्तिः सूनुनार्योर्विनाशः । विषभयमरिपीडावीक्षणोर्ध्वाङ्गरोगः सुहृदि कृषिविरोधो भूपतेर्द्वेषलाभः ॥२१॥ अमरगुरुदशायामम्बराद्यर्थसिद्धिः परिजनपरिवारप्रौढिरत्यर्थमानः । सुतधनसुहृदाप्तिः साधुवादाप्तपूजा भवति गुरुवियोगः कर्णरोगः कफार्तिः ॥२२॥ रवितनयदशायां राष्ट्रपीडाप्रहार- प्रतिजनितविभूतिः प्रेष्यवृद्धाङ्गनाप्तिः । पशुमहिषवृषाप्तिः पुत्रदारप्रपीडा पवनकफगुदार्तिः पादहस्ताङ्गतापः ॥२३॥ शशितनयदशायां शश्वदाचार्यसिद्धि- र्द्विजजनितधनाप्तिः क्षेत्रगोवाजिलाभः । मनुवरसुरपूजा वित्तसंघातसिद्धिः प्रभवति मरुदुष्णश्लेष्मरोगप्रपीडा ॥२४॥ शिखिजनितदशायां शोकमोहोऽङ्गनाभिः प्रभुजनपरिपीडा वित्तनाशोऽपराधः । प्रभवति तनुभाजां प्रोषणं स्वीयदेशा- द्दशनचरणरोगः श्लेष्मसन्तापनं च ॥२५॥ भृगुतनयदशायामङ्गनारत्नवस्त्र- द्युतिनिधिधनभूषावाजिशय्यासनाप्तिः ।