भारतकोश
फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

Phaladeepika of Mantreshwara Daivajna with Commentary

मन्त्रेश्वर दैवज्ञ (टीकाकार: पं. सूर्यनारायण व्यास) द्वारा

DevanagariHindipublished684 पृष्ठ

पृष्ठ 55, कुल 684 में से

संदर्भ में पढ़ें
पृष्ठ 55

तीसरा अध्याय वर्ग-विभाग क्षेत्रत्रिभागनवभागदशांशहोराँत्रिंशांशसप्तलवषष्टिलवाः कलांशाः। ते द्वादशांशसहिता दशवर्गसंज्ञा वर्गोत्तमो निजनिजे भवने नवांशः ॥१॥ दशांशषष्ट्यंशकलांशहीनास्ते सप्तवर्गाश्च विसप्तमांशाः । षड्वर्गसंज्ञास्त्वथ राशिभावतुल्यं नवांशस्य फलं हि केचित् ॥२॥ क्षेत्रेषु पूर्णमुदितं फलमन्यवर्गे- ष्वर्द्धं कलादशमषष्टिलवेषु पादम् । बालः कुमारतरुणौ प्रवया मृतः षड् भागः क्रमाद्युजि विपर्ययमित्यवस्थाः ॥३॥ क्षेत्रस्यार्द्धं हि होरा त्वयुजि रविसुधांश्वोः समे व्यस्तमेतद् द्रेष्काणेशास्त्रिभागैस्तनुसुतशुभपा द्वादशांशस्तु लग्नात् । भौमार्कीड्यज्ञशुक्राः शिशुजसमलवा ह्योजभे युग्मभे तद्- व्यस्तं त्रिंशांशनाथाः क्रियमकरतुलाः कर्कटाद्या नवांशाः ॥४॥ यज्ञं रत्नं जनं धनं नय पटं रूपं शुकं चेटीना नागं योगं खगं बलं भग शिला धूलिर्नवं प्रस्वनम् । लाभं विश्वं दिवं कुशं रम धमं षष्ट्यंशकाश्चौजभे क्रूराख्याः समभे विपर्ययमिदं शेषास्तु सौम्याह्वयाः ॥ ५ ॥ स्वात् सप्तांशदशांशकौ तु विषमे युग्मे तु कामाच्छुभात् स्वादीशाश्च कलांशपा विधिहरीशार्काः समर्क्षेऽन्यथा ।