भारतकोश
फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

फलदीपिका (मन्त्रेश्वर दैवज्ञ - सम्पूर्ण २८ अध्याय, भाव-विचार, दशा-फल एवं गोचर सटीक)

Phaladeepika of Mantreshwara Daivajna with Commentary

मन्त्रेश्वर दैवज्ञ (टीकाकार: पं. सूर्यनारायण व्यास) द्वारा

DevanagariHindipublished684 पृष्ठ

पृष्ठ 673, कुल 684 में से

संदर्भ में पढ़ें
पृष्ठ 673

अट्ठाईसवां अध्याय उपसंहाराध्याय संज्ञाध्यायः कारको वर्गसंज्ञो वीर्याध्यायः कर्मजीवोऽथ योगः । योगो राज्ञां राशिशीलो ग्रहाणां मेषादीनां लग्नसम्प्राप्तशीलः ॥१॥ भार्याभावो जातकं कामिनीनां सूनुर्बालारिष्टयोगोऽथ रोगः । भावस्तस्माद्द्वादशावाप्तभावा निर्याणं स्याद् द्विग्रहाद्याश्च तस्मात् ॥२॥ सूर्यादीनां यत्फलं तद्दशाप्तं भावादीनामीश्वराङ्गा दशा च । सूर्यादीनामन्तराख्या दशाऽथ सव्यासव्या कालचक्रोऽष्टवर्गः ॥३॥ होरासारावाप्तयद्यष्टवर्गो मान्द्यध्यायो गोचर स्यात्प्रव्रज्यः । अध्यायानां विंशतिः सप्तयुक्तान् जन्मन्येतद्गोलजं संवदामि ॥४॥ श्रीशालिवाटिजातेन मया मन्त्रेश्वरेण वै । दैवज्ञेन द्विजाग्रेण सतां ज्योतिर्विदां मुदे ॥५॥ सुकुन्तलाम्बां सम्पूज्य सर्वाभीष्टप्रदायिनीम् । तत्कटाक्षविशेषेण कृता या फलदीपिका ॥६॥