प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 114, कुल 274 में से
संदर्भ में पढ़ें६६ प्रबोधचन्द्रोदयम् मपि प्रच्छन्ना निवसति । (सहि, एव्वं बिसमज्जलणजालाउल्लकादुःसहाई अक्खराई जप्पन्ती सव्वथा विलुत्तजीविदं मं करेसि । ता प्पसीददु मुहुत्तं जीविदं धारेदु पिअसही । जाव इदो तदो पुण्णेसु अस्समेसु मुनिश्रणसमाउलेसु भाईरहीतीरेसु णिउणं णिरुवेम्हि कञ्चावि महामोहभीदिआ कहमवि पच्छण्णा णिवसदि ) शान्तिः—सखि, किमन्विष्यते । अन्वेषितैव— नीवाराङ्कितसैकतानि सरितां कूलानि वैखानसै- राक्रान्तानि समिच्चपालचमसव्याप्ता गृहा यज्वनाम् । प्रत्येकं च निरूपिताः प्रतिपदं चत्वार एवाश्रमाः श्रद्धायाः क्वचिदप्यहो खलु मया वार्त्तापि नाकर्णिता ॥ ३ ॥ साधु गवेषयामि। प्रच्छन्ना-गुप्ता। तावद्भवती मयि कृपां कृत्वा जीवनं धारयतु यावदहमिह पूतेषु मुन्याश्रमेषु गङ्गापरिसरेषु च श्रद्धां साधु गवेषयामि, सम्भा- व्यते-कदाचिन्मोहदृद्भीता सा क्वचिदत्र प्रच्छाद्यात्मानं स्थिता स्यादिति तात्पर्यम् । किम् अन्विष्यते-वृथान्वेषणम्, नास्ति तदाहेः सम्भावनेति भावः । 'अन्वेषि- तैव' इत्यत्र मयेति शेषः, मया कृतेऽन्वेषणे पुनस्त्वत्कर्तृकमन्वेषणं पिष्टपेषणकल्प- मित्यर्थः । नावारेति० नीवारैः मुन्यन्नैः अङ्कितानि युक्तानि सैकतानि पुलिनानि येषान्ता- दृशानि वैखानसैः आक्रान्तानि अध्युषितानि सरिताम् नदीनाम् कूलानि तटप्रदेशाः, समिधः काष्ठानि, चषालः यूपकटकः, चमसाः यज्ञपात्राणि तैर्व्याप्ताः आकीर्णाः यज्व- नाम् यज्ञकृतामध्वर्युणाम् गृहाः आश्रमाः, प्रतिपदम् अखिलेषु स्थानेषु प्रत्येकम् एकैक- शश्च चत्वार एव चत्वारोऽपि आश्रमाः ब्रह्मचर्यगार्हस्थ्यवानप्रस्थसन्न्यासनामानः निरू- पिताः सूक्ष्मेक्षिकया दृष्टाः, अहो आश्चर्यम्, क्वचिदपि एषु कुत्रापि मया श्रद्धायाः विश्वासापराभिधानाया मानसिकनिष्ठायाः वार्त्ता कथा अपि न आकर्णिता श्रुता । नीवाङ्कितपुलिनेषु सरित्तटेषु मुन्यधिष्ठितस्थानेषु याज्ञिकजनगृहेषु चतुर्ष्वपि चाश्रमेषु इधर उधर पुण्याश्रम तथा मुनिजननिषेवित गङ्गातटमे अच्छा तरह ढूंढता हू । कदाचित् महामोहके भयसे कहीं छिपी हुई हो । शान्ति—सखि, क्या अन्वेषण करोगी, खोजा तो— नीवारयुक्त तट वाले मुनिसेवित नदीकूल, समिध्, चपाल तथा चमससे पूर्ण याज्ञिकोके घर, सर्वत्र खोज की गई, चारो आश्रमो मे अन्वेषण किया, किन्तु श्रद्धा की चर्चा कही नहीं सुनी ॥ ३ ॥