भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 117, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 117

तृतीयोऽङ्कः ६६ द्यदेहच्छविः उल्लुञ्चितचिकुरमुक्तवसनदुर्दर्शनः शिखिशिखण्डपिच्छ- काहस्त इत एवाभिवर्त्तते । (सहि, पेक्ख पेक्ख । जो एसो गलन्तमलपिच्छि- लबीहत्सदुप्पेक्खदेहच्छवी उल्लुंचिचचिउरमुक्कवसणदुद्दंसणो सिहिसिहण्डपिच्छ- आहत्थो इदो जेव्व अहिवट्टदि ) शान्तिः—सखि, नायं राक्षसः । निर्वीर्यः खल्वयम् । करुणा—तर्हि क एष भविष्यति । (ता को एसो भविस्सदि ) शान्तिः—सखि, पिशाच इति शङ्के । करुणा—सखि, प्रस्फुरन्महामयूखमालोद्भासितभुवनान्तरे ज्वलति प्रचण्डमार्त्तण्डमण्डले कथं पिशाचानामवकाशः ? (सहि, पप्फुरन्तमहामऊ- हमालोब्भासिअभुअणन्तरे जलदि प्पचण्डमत्तण्डमण्डले कहं पिसाआणं अवआसो ? ) देहच्छविः कायकान्तिर्यस्य तादृशः । उल्लुञ्चितचिकुरः लुञ्चितकेशः, मुक्तवसनः नग्नश्च अत एव दुर्दर्शनः दर्शनायोग्यः । शिखिनो मयूरस्य शिखण्डिका पिच्छः हस्ते यस्य तादृशः । इत एवाभिवर्त्तते-इमामेव दिशमागच्छति । एतद्वर्णनं जैन- साधोः-तेषां मते स्नानं निषिद्धं तथाकरणे जीवविनाशसंभवात्, कचोल्लुञ्चनं विवसनत्वं चाचारपरिप्राप्तम्, शिखिपिच्छञ्चते मार्गावस्थितसूक्ष्मजन्तूनामपासनाय बिभ्रतीति तत्परिचायकेऽत्र वाक्ये सर्वमुपात्तम् । निर्वीर्यः = पौरुषबलरहितः । पिशाचः-प्रेतः । शङ्के-उत्प्रेक्षे । मलदिग्धत्वविवसनत्त्वादिमूलेयमुत्प्रेक्षा । प्रस्फुरदिति० प्रस्फुरतः प्रकटस्य महामयूखस्य किरणस्य मालया समूहेन उद्भा- सितं भुवनान्तरं धरित्र्या अन्तरालं येन तादृशे । ज्वलति-दीप्यमाने । प्रचण्ड- मार्त्तण्डमण्डले-प्रखरसूर्य्यमण्डले । कथं पिशाचानामवकाशः-केन प्रकारेण प्रेतानां प्रचारस्यावसरः, ते हि तमसि सर्पन्ति ज्वलति चाधुना मध्यन्दिनतरणिः प्रखरैः स्वैः करैस्तदयं पिशाचो न संभवतीति भावः । रही है, बाल नोंच दिये गये हैं, कपडा नही है, हाथ में मयूरपिच्छिका है । शान्ति-सखि, यह राक्षस नही है, यह निर्वीर्य है । करुणा-तो फिर यह कौन है ? शान्ति-सखि, पिशाच मालूम पड़ता है । करुणा-सखि, किरणों से भुवनको उद्भासित करनेवाले प्रचण्ड सूर्यमण्डलके सामने पिशाच कैसे होगें ?