भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 121, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 121

तृतीयोऽङ्कः १०३ पासण्डाणं वि तमसः सुद्धा सद्धेति । तेण एसा तामसी सद्धा भविस्सदि ) शान्तिः—( समाश्वस्य ) सखि, एवमेवैतत् । तथाहि— दुराचारा सदाचारां दुर्दर्शा प्रियदर्शनाम् । अम्बामनुसरत्येषा दुराशा न कथंचन ॥ ७ ॥ तद्भवतु तावत् । सौगतालयेष्वप्यसावन्विष्यताम् । ( शान्तिकरुणे परिक्रामतः ) ( ततः प्रविशति भिक्षुरूपः पुस्तकहस्तो बुद्धागमः ) भिक्षुः—( विचिन्त्य ) भो भो उपासकाः, सर्वे क्षणक्षयिण एव निरात्मकाश्च यत्रार्पिता बहिरिव प्रतिभान्ति भावाः । अन्या चेयं श्रद्धा तामसी, तन्नामसाम्येन स्वमातुः पातमुत्प्रेक्ष्यालं भयेनेति तात्पर्यम् । एवमेवैतत्-नामसाम्यमेवेदम् , इयमत्र दृश्यमाना तामसी श्रद्धैव, न मम मा- तेति बोध्यम् । दुराचार्येति० दुराचारा । अशोभनाचारा दुर्दर्शा भीषणाकृतिः दुराशा नीचा इयम् तामसी श्रद्धा एषा सदाचाराम् चारित्रशुद्धाम् प्रियदर्शनाम् रमणीयाकृतिमनोहराम् अम्बाम् मम मातरं सात्त्विकीं श्रद्धाम् कथञ्चन केनापि प्रकारेण नैवानुसरति नानु- करोति । केवलं नामैव समानं नान्यत् किमप्यतो न मम मातेयमिति भावः ॥ ७ ॥ सौगतालयेषु—बौद्धगृहेषु असौ-सात्त्विकी श्रद्धा । पुस्तकहस्तः—हस्तधृतपुस्तकः । बौद्धा बुद्धोपदेश सङ्कलितं धर्मग्रन्थं सदा हस्ते धारयन्तीति रूढेयेत्थमुक्तम् । उपासकाः-बौद्धागमविचारतत्पराः । सर्व इति० सर्वे भावाः पदार्थाः क्षणक्षयिणः क्षणभङ्गुराः निरात्मकाः असन्तश्च, है कि हिंसाके मुहसे पाखण्डियोंके पास भी तामसी श्रद्धा रहती है । यह वही तामसी श्रद्धा होगी । शान्ति—( धीरज धर कर ) सखि, यही बात है, क्योंकि— अभागी यह दुराचारा तथा दुर्दर्शना हमारी सदाचारा तथा प्रियदर्शना अम्बाका अनुसरण किसी तरह भी नही कर रही है ॥ ७ ॥ अच्छा, तो तबतक सौगतालयमे उसकी खोज की जाय । (शान्ति और करुणा चलती है) ( भिक्षुरूप पुस्तकहस्त बुद्धागमका प्रवेश ) भिक्षु—( सोचकर ) अरे ओ उपासको, जिस धीसन्ततिमे अर्पित होनेसे सभी क्षणक्षयी तथा शून्यात्मकभाव बहिःस्थितकी