प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
तृतीयोऽङ्कः १०३ पासण्डाणं वि तमसः सुद्धा सद्धेति । तेण एसा तामसी सद्धा भविस्सदि ) शान्तिः—( समाश्वस्य ) सखि, एवमेवैतत् । तथाहि— दुराचारा सदाचारां दुर्दर्शा प्रियदर्शनाम् । अम्बामनुसरत्येषा दुराशा न कथंचन ॥ ७ ॥ तद्भवतु तावत् । सौगतालयेष्वप्यसावन्विष्यताम् । ( शान्तिकरुणे परिक्रामतः ) ( ततः प्रविशति भिक्षुरूपः पुस्तकहस्तो बुद्धागमः ) भिक्षुः—( विचिन्त्य ) भो भो उपासकाः, सर्वे क्षणक्षयिण एव निरात्मकाश्च यत्रार्पिता बहिरिव प्रतिभान्ति भावाः । अन्या चेयं श्रद्धा तामसी, तन्नामसाम्येन स्वमातुः पातमुत्प्रेक्ष्यालं भयेनेति तात्पर्यम् । एवमेवैतत्-नामसाम्यमेवेदम् , इयमत्र दृश्यमाना तामसी श्रद्धैव, न मम मा- तेति बोध्यम् । दुराचार्येति० दुराचारा । अशोभनाचारा दुर्दर्शा भीषणाकृतिः दुराशा नीचा इयम् तामसी श्रद्धा एषा सदाचाराम् चारित्रशुद्धाम् प्रियदर्शनाम् रमणीयाकृतिमनोहराम् अम्बाम् मम मातरं सात्त्विकीं श्रद्धाम् कथञ्चन केनापि प्रकारेण नैवानुसरति नानु- करोति । केवलं नामैव समानं नान्यत् किमप्यतो न मम मातेयमिति भावः ॥ ७ ॥ सौगतालयेषु—बौद्धगृहेषु असौ-सात्त्विकी श्रद्धा । पुस्तकहस्तः—हस्तधृतपुस्तकः । बौद्धा बुद्धोपदेश सङ्कलितं धर्मग्रन्थं सदा हस्ते धारयन्तीति रूढेयेत्थमुक्तम् । उपासकाः-बौद्धागमविचारतत्पराः । सर्व इति० सर्वे भावाः पदार्थाः क्षणक्षयिणः क्षणभङ्गुराः निरात्मकाः असन्तश्च, है कि हिंसाके मुहसे पाखण्डियोंके पास भी तामसी श्रद्धा रहती है । यह वही तामसी श्रद्धा होगी । शान्ति—( धीरज धर कर ) सखि, यही बात है, क्योंकि— अभागी यह दुराचारा तथा दुर्दर्शना हमारी सदाचारा तथा प्रियदर्शना अम्बाका अनुसरण किसी तरह भी नही कर रही है ॥ ७ ॥ अच्छा, तो तबतक सौगतालयमे उसकी खोज की जाय । (शान्ति और करुणा चलती है) ( भिक्षुरूप पुस्तकहस्त बुद्धागमका प्रवेश ) भिक्षु—( सोचकर ) अरे ओ उपासको, जिस धीसन्ततिमे अर्पित होनेसे सभी क्षणक्षयी तथा शून्यात्मकभाव बहिःस्थितकी
१०४ प्रबोधचन्द्रोदयम्
सैवाधुना विगलिताखिलवासनत्वा-
द्धीसन्ततिः स्फुरति निर्विषयोपरागा ॥ ८ ॥
(परिक्रम्य पुनः सश्लाघम् ) ( अहो, साधुरयं सौगतधर्मो यत्र सौख्यं
मोक्षश्च । तथाहि—
आवासो लयनं मनोहरमभिप्रायानुरूपा वणिङ्-
नार्यो वाञ्छितकालमिष्टमशनं शय्या मृदुप्रस्तराः ।
श्रद्धापूर्वमुपासिता युवतिभिः क्लृप्ताङ्गदानोत्सव-
'यत्सत्तत् क्षणिकं यथा जलधरः सन्तश्च भावा अमी' इति प्रामाणिकोक्तेः । अमी
क्षणभङ्गुरा निरात्मकाश्च भावाः यत्र यस्यां धीसन्ततौ विज्ञानधारायाम् अर्पिताः
प्रतिफलिताः बहिरिव बाह्या इव प्रतिभान्ति भासन्ते, एतन्मते सर्वेऽपि पदार्था
ज्ञानाकारा एवेति । सैव धीसन्ततिः अधुना सम्प्रति विगलिताखिलवासनत्वात्
सकलसंस्कारोच्छेदात् निर्विषयोपरागा विषयरक्तिरहिता स्फुरति प्रकाशते एतन्मते
सांसारिकवासनाभिर्धीसन्ततौ प्रतिफलान्ति भावास्ते च क्षणभङ्गुराः सत्ताशून्याश्चापि
सन्तो प्रतिभासमानशरीरा यावत् तिष्ठन्ति तावद्बन्धः, सांसारिकवासनाच्छेदे तु
विषयोपरागराहित्येन शुद्धा धीसन्ततिः स्फुरति सैव दशा निर्वाणस्येति सिद्धान्तः ।
एतेन मुक्तोऽहमिति कथितम् ! धीसन्ततिस्वरूपमाह धर्मकीर्त्तिः—'स्वाभाविकमेव
संविदः स्वप्रकाशत्वं, विषयास्तत्र विष्वक्प्रकाशन्ते' इति । वसन्ततिलकं वृत्तम् ॥८॥
साधुः-प्रशस्यः । सुगतो बुद्धः, तस्यायं सौगतो धर्मः । सौख्यं कामनापूत्तिः ।
मोक्षः परमपदप्राप्तिः ।
आवास इति० मनोहरम् रमणीयम् लयनम् कुट्टिमगृहम् आवासः निवासस्थानम्,
अभिप्रायानुरूपाः इच्छालभ्याः वणिङ्नार्यः श्रेष्ठिजनललनाः रूपाजीवा वेश्या वा,
वाञ्छितकालम् इष्टे समये इष्टम् अभिलाषानुरूपम् अशनम्, मृदुप्रस्तराः कोमला-
स्तरणाः शय्याः । श्रद्धापूर्वम् एषां भिक्षूणां सेवा शरीरार्पणादिकर्मणाऽऽराधनम् बुद्ध-
तरह प्रतीत होते हैं, समस्त वासनाके विगलित हो जानेके कारण विषयोपरागशून्य वह
धीसन्तति प्रकाशित हो रही है ॥ ८ ॥
( चलकर, प्रशंसासे ) अहा, धन्य है यह सौगतधर्म जिसमे सुख तथा मोक्ष दोनों है ।
क्योंकि—
रहनेके लिये कोठा, इच्छानुवर्त्तिनी सेठोंकी स्त्रियां, उचित समय पर मधुर तथा
यथेष्ट भोजन, कोमल शय्या, श्रद्धासे युवतियाँ अङ्गदानपूर्वक उपासना करती हैं । इस
तृतीयोऽङ्कः १०५ क्रीडानन्दभरैर्व्रजन्ति विलसज्ज्योत्स्नोज्ज्वला रात्रयः ॥ ६ ॥ करुणा—सखि, क एष तरुणतालतरुप्रलम्बो लम्बमानकषायपिशङ्ग- चीवरो मुण्डितसचूडमुण्डपिण्ड इत एवागच्छति । (सहि, को एसो तरुण- तालतलुप्पलम्बो लम्बन्तकसासपिसङ्गचिउरो मुण्डिदसचूडमुण्डपिण्डो इदो जेव्व आअच्छदि) शान्तिः—सखि, बुद्धागम एषः । भिक्षुः—(आकाशे) भो भो उपासकाः भिक्षवश्च, श्रूयतां भगवतः सुगतस्य वाक्यामृतम् । (पुस्तकं वाचयति) पश्याम्यहं दिव्येन चक्षुषा प्रीतिकृते इति विश्वासपूर्वकम् क्लृप्ताङ्गदानोत्सवक्रीडानन्दभरैः सिद्धशरीरसमर्पणजन्य- सुरतानन्दसमूहैः युवतिभिरारूढयौवनाभिरन्यनारीभिः उपासिताः विलसज्ज्योत्स्नो- ज्ज्वलाः स्फुटचन्द्रधवलाः रात्रयः व्रजन्ति । अस्माकं भिक्षूणां सौभाग्यमिदं यत्सुन्दर- मावासस्थानं लभामहे, यथेच्छं वारनारीरालिङ्गामः, उचिते समयेऽभिमतं भोजनं प्राप्नुमः, कोमलप्रच्छदपटं शयनीयमुपयुञ्ज्महे, युवतिभिः परस्त्रीभिः साधूनां सेवया भगवान् प्रसीदतीति विश्वासमन्तराधाय स्वयमागत्य रतियाचनायां क्रियमाणायां चन्द्रधवलासु निशासु ताभिः सह रमामहे इति । बौद्धमते बौद्धपरिव्राजकलिङ्गपूजां स्त्रियो निजपत्यनुमत्यैव कुर्वन्तीति प्रसिद्धिः । एतेनास्माकं भिक्षूणां भोगेन सहैव मोक्षोऽप्युपपद्यत इति परमं सौभाग्यमस्माकमन्येषान्तु न तथेति स्वमते व्यतिरेक उक्तः । शार्दूलविक्रीडितमेव वृत्तम् ॥ ९ ॥ तरुणतालतरुप्रलम्बः-प्रौढतालवृक्षदीर्घः । लम्बमानम् आस्तीर्यमाणम् कषाय- पिशङ्गरक्तं कषायपिशङ्गवर्णं चीवरं बृहदाकृतिपरिधानं यस्य तादृशः । मुण्डितसचूड- मुण्डपिण्डः-कारितसशिखशिरोवपनः । उपासकाः-बौद्धमते श्रद्धालवो गृहस्थाः । वाक्यामृतम्-वचनसुधाम् , वचनानां सर्वविधसन्तापहरत्वेन सुधात्वमुपचरितम् । सुगतिम्-सत्कर्म । दुर्गतिम्-दुष्कर्म । तरह चन्द्रिकाधवल रात्रियों आनन्दमें कटतीं है ॥ ९ ॥ करुणा—यह कौन है जो ताडकी तरह लम्बा, लटकता हुआ केसरिया चोगा पहने शिखा समेत सिर घुटवाये इधर ही आरहा है । शान्ति—सखि, यह बुद्धागम है । भिक्षु—(आकाशकी ओर) अरे ओ उपासको और भिक्षुओं, भगवान् सुगतके वचनामृत सुनलो । (पुस्तक बांचता है) मैं दिव्य दृष्टिसे लोगोंकी सुगति तथा दुर्गति देखा
१०६ प्रबोधचन्द्रोदयम् लोकानां सुगतिं दुर्गतिं च । क्षणिकाः सर्वे संस्काराः । नास्त्यात्मा स्थायी । तस्माद्भिक्षुषु दारान्नाक्रमत्सु नेर्षितव्यम् । चित्तमलं हि तद्यदीर्ष्यानाम । ( नेपथ्याभिमुखमवलोक्य ) श्रद्धे, इतस्तावत् । ( प्रविश्य श्रद्धा ) श्रद्धा—आज्ञापयतु राजकुलम् । ( आणवेदु लाउलम् ) भिक्षुः—उपासकान्भिक्षूंश्च चिरमालिङ्ग्य स्थीयताम् । श्रद्धा—यदाज्ञापयति राजकुलम् । ( जं आणवेदि लाउलम् ) ( इति निष्क्रान्ता ) शान्तिः—सखि, इयमपि तामसी श्रद्धा । करुणा—एवमेतत् । ( एवं णेदम् ) । क्षपणकः—( भिक्षुमालोक्योच्चैःशब्दम् ) । अरेरे भिक्षुक, इतस्तावत् । किमपि पृच्छामि । ( अलेले भिक्खुअ, इदो दाव । किंपि पुच्छिस्सम् ) नास्त्यात्मा स्थायी—सर्वेषां भावानां क्षणिकत्वेनात्मनोऽप्यस्थायित्वं निवेदितमेव, दारान्–स्त्रियः, उपासकानाम् इति शेषः । आत्मनोऽस्थायित्वे येनात्मना परपुरुषोप- सर्पणं कृतं स तु गतं एवेति वृथा कोपं स्त्रीणां भिक्षुरतौ मा कारीति भावः । चित्त- मलम्–मनोमालिन्यकरम् , तच्च ज्ञानपरिपन्थीति तन्न कार्यमिति भावः । उपासकान्– श्रद्धायुक्तान्गृहिणः, चिरम्–बहुकालपर्यन्तम् । तामसश्रद्धावत्त्व एव गृहस्था भिक्षुभ्यो निजदारानुपहिरण्यन्तीति तदुपायमेवान्येन वाक्येन कृतवानयं भिक्षुरिति तात्पर्यम् । क्षपणकः—जैनागममतावलम्बी दिगम्बरः । करता हूं । सभी सस्कार क्षणिक हैं । स्थायी आत्मा नहीं हैं । अतः भिक्षु यदि स्त्रियों पर आक्रमण करे तो ईर्ष्या मत करना । ईर्ष्या चित्तका मल है । (नेपथ्य की ओर देखकर) श्रद्धे, जरा इधर आना । (श्रद्धाका प्रवेश) श्रद्धा—राजकुलका क्या आदेश है ? भिक्षु—उपासकों तथा भिक्षुओंसे सदा लिपटी रहो । श्रद्धा—राजकुलकी जैसी आज्ञा । (जाती है) शान्ति—सखि, यह भी तामसी श्रद्धा है । करुणा—यही बात है । क्षपणक—(भिक्षुको देखकर, जोरसे) अरे ओ भिक्षुक, इधर आना । कुछ तुम्हैं पूछूँगा ।
तृतीयोऽङ्कः १०७ भिक्षुः—( सक्रोधम् ) आः पाप पिशाचाकृते, किमेवं प्रलपसि । क्षपणकः—अरे, मुञ्च क्रोधम् । शास्त्रगतं पृच्छामि । (अले, मुञ्च कोहम् । साच्छगदं पुच्छामि ) भिक्षुः—अरे क्षपणक, शास्त्रकथामपि वेत्सि । भवतु । प्रतीक्षामस्ता- वत् । ( उपसृत्य ) किं पृच्छसि । क्षपणकः—भण तावत्क्षणविनाशिना त्वया कस्य कृते इदं व्रतं धार्यते । ( भण दाव क्खणविणासिणा तुए कस्स किदे एदं व्वदं घालीअदि ) भिक्षुः—अरे श्रूयताम् । अस्मत्संततिपतितः कश्चिद्विज्ञानलक्षणः समुच्छिन्नवासनो मोक्ष्यते । क्षपणकः—अरे मूर्ख, कस्मिन्नपि मन्वन्तरे कोऽपि मुक्तो भविष्यति । पिशाचाकृते-पिशाचवज्जघनाकृतिशालिन् । क्षणविनाशिना-क्षणविनाशिसर्वमिति मन्यमानेन । अयमाशयः-यस्य मते सर्वं क्षणिकं तस्यात्माऽपि क्षणिकः, तर्हि किमर्थं व्रतादिकष्टं क्रियेत, येन व्रतं क्रियते तस्य तत्फलभोगायास्थायित्वादिति । अस्मत्सन्ततीति० भावानां क्षणिकत्वं ज्ञानाकारत्वं चातिष्ठमाना बौद्धा धीसन्तति- मनुवर्त्तमानामभिप्रयन्ति तेनैव शरीरपातप्रसङ्गमापाद्यमानं वारयन्ते, तदभिप्रायेणै- वेदमुत्तरम् , अस्मात् सन्ततिपतितः-अहं व्रतकत्र्त्ता यद्धीसन्ततौ तद्धी सन्ततौ भावी कोऽपि मोक्ष्यते, तेन व्रतानुष्ठायिमोक्ष्यमाणयोरेकसन्ततिगतत्वेन व्रतमोक्षयोर्न वैय- धिकरण्यमिति न त्वदुक्तवृथात्वशङ्का । समुच्छिन्नवासनः-नष्टवासनः, वासनानाशो मोक्षहेतुः स च व्रतादिकायक्लेशसाध्य इति बौद्धप्रसिद्धिसमनुरुध्योक्तम् । मन्वन्तरे-कतिपययुगान्तरे । भिक्षु—( क्रोधसे ) आः पाप पिशाचाकृते, क्या बक-बक कर रहा है । क्षपणक—अरे, क्रोध छोड़ो, शास्त्रगत बात पूछनी है । भिक्षु—अरे क्षपणक, तू शास्त्रकी बातें भी जानता है। अच्छी बात है। मैं इन्तजार करू गा । ( समीप जाकर ) क्या पूछता है । क्षपणक—तू क्षण विनाशी है तो फिर किसके लिये यह व्रत करता है । भिक्षु—अरे, सुनो, हमारी सन्ततिमे पतित कोई विज्ञानलक्षण निवृत्तवासन होगा । उसे मोक्ष होगा । क्षपणक—अरे मूर्ख, किसी मन्वन्तरमे कोई मुक्त होगा, तुम जो इस समय कष्ट उठा
१०८ प्रबोधचन्द्रोदयम् ततस्ते सांप्रतं नष्टस्य कीदृशमुपकारं करिष्यति। अन्यच्च पृच्छामि। केन ते ईदृशो धर्म उपदिष्टः ? ( अले मुलुक्ख, कस्सिंचि मण्णन्तले कोचि सुक्को भविस्सदि। तदो दे संपदं णट्ठस्स कीरिसं उवआलं कलिस्सदि। अण्णं च पुच्छामि। केण दे ईरिसो धम्मो उवदिट्ठो ? ) भिक्षुः—नूनं सर्वज्ञेन भगवता बुद्धेनोक्तोऽयमेव धर्मः। क्षपणकः—अरे, सर्वज्ञो बुद्ध इति कथं त्वया ज्ञातम्। ( अले, सव्वण्णो बुद्धोत्थि त्ति कथं तुए णादम् ) भिक्षुः—ननु रे, तदागमैरेव प्रसिद्धो बुद्धः सर्वज्ञ इति। क्षपणकः—अरे उज्झितबुद्धिक, यदि तस्य भाषितेन सर्वज्ञत्वं प्रति- पन्नोऽस्सि तदहमपि सर्वं जानामि। त्वमपि पितृपितामहैः सह सप्त- पुरुषमस्माकं दास इति। ( अले, उज्झिअभुद्धिअ, जथि तस्स भासिदेण सव्व- ण्णत्तं पडिवज्जेसि ता अहं पि सव्वं जाणामि। तुमंपि पिठुपिदामहेहि सहं सत्त- पुलिसं अम्हाणं दासो त्ति ) भिक्षुः—(सक्रोधम्) आः पाप, पिशाच मलपङ्कधर, कस्तवाहं दासः ? नष्टस्य-मृतस्य। तदागमैः-बुद्धागमैः। उज्झितबुद्धिक निर्बुद्धे तस्य-बुद्धस्य। प्रतिपन्नः-ज्ञातवान्। 'अहमपि सर्वं जानामि' इति मदुक्त्या ममापि सर्वत्वं प्रतिपद्यस्व, बुद्धस्य सर्वज्ञतां यथा तदुक्तौ विश्वस्य प्रतिपन्नोऽसि तथैव मदुक्तौ विश्वस्य ममापि सर्वज्ञतां प्रति विश्वासं कुर्वि- त्याशयः। पाप-पापाचार। पिशाच-राक्षसवदभव्यदर्शन। मलपङ्कधर-मलिनतनो। रहे हो वह तुम्हारा क्या उपकार करेगा। और मै पूछता हू किसने तुम्हे इस तरहका धर्मोपदेश किया ? भिक्षु—सर्वज्ञ भगवान् बुद्ध ने यह उपदेश किया है, यही धर्म है। क्षपणक—अरे, बुद्ध सर्वज्ञ है यह तुमको किसने बताया ? भिक्षु—उनके शास्त्रमें बुद्धकी सर्वज्ञता प्रसिद्ध है। क्षपणक—अरे निर्बुद्धि, यदि उसीके कहनेसे उसे सर्वज्ञ मानता है तो मै भी सर्वज्ञ हू, बाप दादों के सहित तुम भी हमारे दास हो। भिक्षु—(क्रोधसे) अरे पाप, मलपङ्कधर, मै तुम्हारा कैसा दास हूं ?
तृतीयोऽङ्कः १०६
क्षपणकः—अरे विहारदासीभुजङ्ग दुष्टपरिव्राजक, दृष्टान्त एष मया
दर्शितः । तत् प्रियं ते विस्रब्धं भणामि । बुद्धानुशासनं परिहृत्यार्हतानु-
शासनमेवानुसृत्य दिगम्बरमतमेव धारयतु भवान् । (अले बिहालदासी-
भुअङ्ग दुट्ठपलिब्वज्जिअ, दिट्टंतो एसो मए दंसिदो । ता पिअं दे विस्सद्धं भणामि ।
बुद्धाणुसासणं पलिहलिअ अलिहन्ताणुसासणं जेव्व अनुसलिअ दिग्गवलमदं जेव्व
धालेदु भवम् )
भिक्षुः—आः पाप, स्वयं नष्टः परानपि नाशयितुमिच्छसि ।
स्वाराज्यं प्राज्यमुत्सृज्य लोके निन्द्यामनिन्दितः ।
अभिवाञ्छति को नाम भवानिव पिशाचताम् ॥ १० ॥
अपि च, आर्हतमपि धर्मवेदनं कः श्रद्दधाति ?
--------------------------------------------------
विहारदासीभुजङ्ग-वेश्याभर्त्तः । दृष्टान्तः-निदर्शनम् । यथा बुद्धोक्तौ विश्वस्य
तदीयां सर्वज्ञतां प्रतिपन्नोऽसि तथा मदीयोक्तौ विश्वस्य स्वस्य मम दासत्वमपि
त्वया स्वीकर्त्तव्यमिति दृष्टान्तो मया दर्शितो न तु वास्तविके तव दासत्वे मम
तात्पर्यमिति ।
विस्रब्धम्-विश्वस्तम् । बुद्धानुशासनम्-बौद्धमतम् । परिहृत्य-त्यक्त्वा । आर्ह-
तानुशासनम्-जैनमतम् । दिगम्बरमतम्-जैनमतैकदेशम् ।
नष्टः—पतितः । नाशयितुम्-पातयितुम् , जैनमतं धारयित्वा भ्रंशयितुमित्यर्थः ।
स्वाराज्यमिति० प्राज्यं प्रकृष्टम् स्वराज्यम् उत्सृज्य त्यक्त्वा भवानिव भवद्वत्
लोकनिन्द्याम् शास्त्रगर्हिताम् पिशाचताम् क्षपणकत्वम् को नाम अभिवाञ्छति ।
यथाभवानिह मते विश्वस्य पिशाचतांगतः तथा कोऽन्यो बौद्धो नित्यस्वातन्त्र्यं
परित्यज्य पिशाचभावं भजतामित्यर्थः ॥ १० ॥
धर्मवेदनम्-धर्मज्ञानम् ।
--------------------------------------------------
क्षपणक—अरे विहारदासीभुजङ्ग, दुष्ट परिव्राजक, मैने यह दृष्टान्त दिखलाया है ।
विश्वसनीय हित तुम्हे कह रहा हू कि बुद्धमत छोडकर जैनमतमें दिगम्बर जैन सिद्धान्तको
अपना लो ।
भिक्षु—अरे पापी, तू खुद पतित है, अब दूसरोंको गिराना चाहता है ।
प्रचुर स्वाराज्य छोड़कर कौन अनिन्दित जन तुम जैसे इस निन्द्य पिशाचताको ग्रहण
करना चाहेगा ॥ १० ॥
और—आर्हत मत पर श्रद्धा ही किसे है ?
११० प्रबोधचन्द्रोदयम् क्षपणकः—ग्रहनक्षत्रचारचन्द्रसूर्योपरागलुप्तलाभपरमार्थज्ञानसंधानद- र्शनेन निरूपितं सर्वज्ञत्वं भगवतोऽर्हतः । (ग्गहणक्खत्तचारचन्दसूरुलोपत्ता- अलुप्पलाहपलमत्थाणाणसंधाणदंसणेण णिरूविदं सव्वणंतणं भअवदो अरिहन्तस्स) भिक्षुः—अरे, अनादिप्रवृत्तज्योतिषातीन्द्रियज्ञानेन प्रतारितेन भगव- तेदमतिकष्टं व्रतमाश्रितम् । तथाहि— ज्ञातुं वपुः परमितः क्षमते त्रिलोकीं जीवः कथं कथय संगतिमन्तरेण । शक्नोति कुम्भनिहितः सुशिखोऽपि दीपो भावान्प्रकाशयितुमप्युदरे गृहस्य ॥ ११ ॥ ग्रहाः-सूर्यचन्द्रादयः नक्षत्राणि-अश्विन्यादयः । तेषाञ्चारः-नियतमागं नियत- कालं च सञ्चरणम् । चन्द्रसूर्योपरागः-सूर्यग्रहणं चन्द्रग्रहणञ्च । लुप्तलाभः-पृथिव्यादौ निखाय स्थापितस्य धनस्य लुप्तस्य लाभः । अथवा सद्य एवादशंनं गमितस्य पदा- र्थस्य लाभः । परमार्थज्ञानम् तत्त्वज्ञानम् । यदस्माकमर्हन् ग्रहनक्षत्रचारचन्द्रग्रहण- लुप्तलाभादिकं साधारणजनदुर्बोधमाहातोऽसौ सर्वज्ञ इति प्रतीत इति भावः । अनादिप्रवृत्तज्योतिषातीन्द्रियज्ञानेन—चिरकालप्रचलितगणितद्वारेण पूर्वोक्तज्ञानं जायते तेन । ज्ञातुमिति० वपुःपरिमितः शरीरपरिमाणः जीवः विज्ञानरूपः सन् सङ्गतमन्तरेण सन्निकर्षं विना त्रिलोकीम् भुवनत्रयम् सर्वमित्यर्थः कथं केन प्रकारेण ज्ञातुं क्षमते शक्नोति इति कथय ब्रूहि । शरीरपरिमाणो जीवः सकलस्य त्रिभुवनस्य सङ्गति मन्त- रेण तज्ज्ञाने कथं शक्नोति, यदसौ सर्वज्ञः स्वीक्रियतामित्यर्थः । तत्र दृष्टान्तः—कुम्भ- निहितः घटान्तरवस्थापितः सुशिखः समिद्धशिखायुक्तोऽपि दीपः (किम् ) गृहस्य उदरे भावान् पदार्थान् प्रकाशयितुं भासयितुं शक्नोति ? यथा घटान्तरवस्थापितः सुशिखोऽपि दीपः स्वां भासं बर्हिनैतुमसमर्थतया गृहान्तर्गतपदार्थानां प्रकाशने न क्षपणक—ग्रहनक्षत्रकी गति, चन्द्रसूर्यग्रहण, गुप्तवस्तुकी प्राप्ति, परमार्थज्ञान आदिसे अर्हन्की सर्वज्ञता सिद्ध हो चुकी है । भिक्षु—अरे, अनादि प्रवृत्त ज्योतिषसे होनेवाले अतीन्द्रिय विषयक ज्ञानसे वञ्चित हो अर्हन्ने इस महाकष्टको स्वीकार किया है । क्योकि— शरीरपरिमाण जीव बिना सन्निकर्षके त्रिलोकीको कैसे जान सकेगा ? क्या कुम्भनिहित दीप प्रकाशशील होने पर भी घरके तमको दूर कर सकता है ॥ ११ ॥
तृतीयोऽङ्कः १११ तस्माल्लोकद्वयविरुद्धार्हतमताद्वरं सुगतमतमेव साक्षात्सुखावहमति- रमणीयं पश्यामः । शान्तिः—सखि, अन्यतो गच्छावः । करुणा—एवं भवतु । ( एवं भोदु ) । ( इति परिक्रामतः ) शान्तिः—( पुरो विलोक्य ) एष पुरस्तात्सोमसिद्धान्तः । भवतु । अत्रापि तावदनुसरावः । ( ततः प्रविशति कापालिकरूपधारी सोमसिद्धान्तः ) सोमसिद्धान्तः—( परिक्रम्य ) नरास्थिमालाकृतचारूभूषणः श्मशानवासी नृकपालभोजनः । क्षमते तथैव जीवोऽपि शरीरपरिणामतया दूरस्थवस्तुभिः सहसन्निकर्षमनासादयन्न तेषां ज्ञाने कथमपि शक्तः स्यादिति परमार्थः ॥ ११ ॥ लोकद्वयविरुद्धात्—लोकद्वयम् आगमिकानागमिकरूपसमुदायद्वितयम् । ततो विरुद्धात् । यद्वा लोकद्वयम् इह लोकपरलोकौ जनानां नास्ति तावदिहलोकः पिशाच- रूपताऽऽस्थानात्, न वा परलोकोऽप्यस्ति, सततोऽध्वगमनरूपक्लेशस्य भोक्तृ- व्यत्वात् । सुगतम्-बुद्धमतम् । साक्षात्सुखावहम्-सद्य आनन्दकरम् । सोमसि- द्धान्तः-कापालिकमतम् । नरास्थिमालेति० नराणाम् मनुष्याणाम् अस्थनाम् मालया स्रजा कृतं विहितं भूषणं यस्य तादृशः मनुष्यास्थिमालाभूषितः श्मशानवासी पितृवसति निवासशीलः नृक- पालभोजनः नरमुण्डे भोजनरसिकः ( एवंविधः कापालिकदीक्षितोऽहम् ) योगाञ्जन- दिव्यचक्षुषा समाधिरूपाञ्जनप्रयोगवशलब्धालौकिकशक्तिशालिना नयनेन मिथो- भिन्नम् परस्परविरुद्धम् जगत् सांसारिकं पदार्थजातम् ईश्वरादभिन्नम् अव्यतिरेकि इसलिये इहलोक तथा परलोकसे विरुद्ध आर्हत मतकी अपेक्षा साक्षात्सुखप्रद बौद्ध मत ही अच्छा दीख पड़ता है ॥ शान्ति—सखि, दूसरी ओर चलें । करुणा—अच्छी बात है । ( चलती हैं ) शान्ति—( आगे देखकर ) यह आगे वाला सोमसिद्धान्त है, अच्छा, यहां भी चलें । ( कापालिक रूपधारी सोमसिद्धान्तका प्रवेश ) सोमसिद्धान्त—( चलकर ) नरास्थिमालाका भूषण पहने, नृकपालभक्षी तथा श्मशानवासी मैं योगाञ्जन सिद्ध दृष्टिसे
११२ प्रबोधचन्द्रोदयम् पश्यामि योगाञ्जनशुद्धचक्षुषा जगन्मिथो भिन्नमभिन्नमीश्वरात् ॥ १२ ॥ क्षपणकः—क एष कापालिकं व्रतं पुरुषो धारयति । तदेनमपि पृच्छामि । ( उपसृत्य ) अरेरे कापालिक, नरास्थिमुण्डमालाधारक, कीदृ- शस्तव धर्मः कीदृशस्तव मोक्षः ? ( को एसो कावालिअव्वरं पुलिसो धालेदि । ण णं वि पुच्छिस्सम् । अलेले कावालिअ, णलत्थिमुण्डमालाधारिअ, कीदिसो तुम्हे धम्मो, कीदिसो तुम्हे मोक्खो ? ) कापालिकः—अरे क्षपणक, धर्मं तावदस्माकमवधारय । मस्तिष्कान्त्रवसाभिपूरितमहामांसाहुतीर्जुह्वतां वह्रौ ब्रह्मकपालकल्पितसुरापानेन नः पारणा । सद्यः कृत्तकठोरकण्ठविगलत्कीलालधारोज्ज्वलै- रच्र्यो नः पुरुषोपहारबलिभिर्देवो महाभैरवः ॥ १३ ॥ पश्यामि । उच्चावचोऽयं प्रपञ्चः स्वयं परस्परभिद्यमानोऽपि न परमेश्वराद्भिद्यते यथा मुद्रिकाकङ्कणादेरन्योन्यभेदेऽपि सुवर्णादभिन्नता तद्वद् इति पश्यामीति भावः ॥१२॥ कापालिकम्-कपालीशिवस्तद्देवताकम् । अवधारय-जानीहि । मस्तिष्कान्तेति० मस्तिष्कम् कपालान्तर्गतं स्निग्धं द्रव्यम् , अन्त्राणि सिराः, वसा मज्जा, ताभिः अभिपूरितैः आधारितैः महामांसैः नरमांसैः वह्नौ आहुतीर्जुह्वताम् होमं कुर्वताम् नः अस्माकम् ब्रह्मकपाले ब्राह्मणजातिनरमुण्डे कल्पितायाः उपनी- तायाः सुरायाः मदिरायाः पानेन पारणा व्रतसमाप्तिः भवतीति शेषः, नराणां मांसानि तत् कपालगतस्निग्धद्रव्यतदन्त्रतन्मज्जभिराघार्य वह्नौ जुह्वतो वयं ब्राह्मण- जातिनृमुण्डे स्थापयित्वा सुरया पीतया व्रतं समापयाम इत्यर्थः । ( किञ्च ) सद्यः- कृत्तेभ्य तत्क्षणखण्डितेभ्यः कठोरकण्ठेभ्यः सबलजनदृढगलेभ्यः विगलताम् क्षरताम् जगत्को ईश्वरसे भिन्न तथा अभिन्न देखता हू ॥ १२ ॥ क्षपणक—यह कौन पुरुष कापालिक व्रत धारण किये हुए है ? इससे भी पूछूं । ( समीप जाकर ) अरे कापालिक, नरास्थिमुण्डमालाधारी, कैसा तुम्हारा धर्म तथा कैसा तुम्हारा मोक्ष है ? कापालिक—अरे क्षपणक, हमारा धर्म सुनले— मस्तिष्क, आंत, मज्जा, आदिसे युक्त नरमांसकी वह्निमें आहुति कर ब्रह्मकपालस्थित सुरापानसे पारणा होती है । सद्यः खण्डित कण्ठसे निकलते हुए शोणितकी धार वाली नरबलिसे हम महाभैरवकी आर्चा करते है ॥ १३ ॥
तृतीयोऽङ्कः ११३ भिक्षुः—( कर्णौ पिधाय ) बुद्ध बुद्ध, अहो दारुणा धर्मचर्या । क्षपणकः—अर्हन् अर्हन् , अहो घोरपापकारिणा केनापि विप्रलब्धो वराकः । (अलिहन्त अलिहन्त, अहो घोलपावकारिणा केणावि विप्पलद्धो वलाओ) कापालिकः—( सक्रोधम् ) आः पाप पाखण्डापसद, मुण्डितमुण्ड- चूडाकेश, केशलुञ्चक, अरे, विप्रलम्भकः किल चतुर्दशभुवनोत्पत्तिस्थि- तिप्रलयप्रवर्त्तको वेदान्तप्रसिद्धसिद्धान्तविभवो भगवान्भवानीपतिः। दर्श- यामस्तर्हि धर्मस्यास्य महिमानम् ? कीलालानां रक्तानाम् धाराभिः उज्ज्वलैः प्रकाशितैः पुरुषोपहारबलिभिः नरबलिभिः देवः महाभैरवः कालभैरवः नः अस्माकम् अर्च्यः पूज्यः । महाभैरवस्य पूजायां गल- क्षवद्रक्तनरबलिमुपहारीकुर्म इत्युत्तरार्द्धार्थः। अत्र क्षपणकेन पृष्टस्य कीदृशस्तव धर्मो मोक्षश्च तव कीदृश इति प्रश्नद्वयस्य क्रमशॊ दत्तमुत्तरमिति बोध्यम्। तत्राद्य पाद- द्वयेन प्रथमः प्रश्नः समाहितः, सद्यःकृतेत्यादिना च भैरवोपासनावशात्पाप्तकैलास- वास एव मोक्ष इति च प्रतिपादितं द्वितीयप्रश्नस्योत्तरमिति विवेकः। शार्दूलविक्री- डित वृत्तम् ॥ १३ ॥ बुद्ध बुद्धेति स्वेष्टदेवस्मरणं घृणातिशयव्यञ्जनाय, आस्तिकानां बीभत्सदृश्यदर्शने यथा राम रामेति प्रयोगः, दारुणा-कठोरा, नरबलिदानेन दारुणत्वम् । अर्हन्नर्हन्नित्यपि पूर्ववदेव घृणान्वक्तये । घोरपापकारिणा-अतिपापाचारिणा । विप्रलब्धः-वञ्चितः । वराकः-दयनीयोऽम् । पाखण्डापसद्-नीचपाखण्ड । मुण्डितमुण्डचूडाकेश-कर्त्तितसशिखकचराशे, इदं बौद्धमुद्दिश्य संबोधनम् । केशलुञ्चक-लुञ्चितकच, इदं जैनसंबोधनम् । अरे इति क्रोधे संबोधनम् । चतुर्दशभुवनोत्पत्तिस्थितिप्रलयप्रवर्त्तकः-सकलजगतुत्पादनसत्ता- भङ्गप्रयोजकः । वेदान्तप्रसिद्धसिद्धान्तविभवः-उपनिषदभिमतमतः । भगवान्-सर्व- विधसामर्थ्यशाली । भवानीपतिः-शङ्करः । अस्य धर्मस्य-कापालिकाचारस्य । महि- मानम्-प्रभावम् । भिक्षु—बुद्ध, बुद्ध, अरे बडी भयङ्कर धर्मचर्या है । क्षपणक---अर्हन् , अर्हन् , अहा किसी घोर पापीने इस बेचारे को ठग लिया है । कापालिक---( सक्रोध ) आः पापी पाखण्ड, मुण्डितमस्तक, केश लुञ्चक, अरे वञ्चक, चतुर्दश भुवनके उत्पत्तिस्थितिप्रलयके प्रवर्त्तक वेदान्तप्रसिद्धसिद्धान्त भगवान् शिव धूर्त्त हैं ? दिखाएँ हम इस धर्म की महत्ता ? ८ प्र० च०
११४ प्रबोधचन्द्रोदयम् हरिहरसुरज्येष्ठश्रेष्ठान्सुरानहमाहरे वियति वहतां नक्षत्राणां रुणध्मि गतीरपि । सनगनगरीमम्भःपूर्णां विधाय महीमिमां कलय सकलं भूयस्तोयं क्षणेन पिबामि तत् ॥ १४ ॥ क्षपणकः—अरे कापालिक, अत एव भणामि केनापीन्द्रजालिना मायां दर्शयित्वा विप्रलब्धोऽसीति । (अले कावालिअ, अदो जेव्व भणामि केणावि इन्दजालिणा माअं दंसीअ विप्पलद्धोऽसि त्ति) कापालिकः—आः पाप, पुनरपि परमेश्वरमैन्द्रजालिकमित्याक्षिपसि । तन्न मर्षणीयमस्य दौरात्म्यम् । (खड्गमाकृष्य) तदलमस्य । हरिहरेति० अहम् हरिहरौ विष्णुशिवौ सुराः देवा इन्द्रादयः तेषाम् ज्येष्ठान् वयसाऽधिकान् श्रेष्ठान् प्रभावेणाधिकाँश्च सुरान् देवान् आह्वये आकृष्य नयामि ? अपि वा वियति आकाशे वहताम् चलताम् नक्षत्राणाम् ताराणाम् गतीः गमनानि रुणध्मि वारयामि । सनगनगरीम् पर्वतैः पुरैश्चोपेताम् इमाम् महीम् पृथ्वीम् अम्भः- पूर्णाम् विधाय जलप्लावितां कृत्वा = कलय जानीहि—तत् सकलं तोयम् भूयः पुनः क्षणेन पिबामि । देवानां सकलप्रहमाहरणे व्योमचारितारागणतिरोधे जगतो नगनगरगणयुतस्याम्भसा स्थगने तत्पयसः क्षणेन पुनःपाने च प्रभोर्मम प्रभवतः प्रभावं भावयेति भावः । हरिणीवृत्तम्-तल्लक्षणं यथा—'नसमरसला गः षड्वेदैर्हयै- र्हैरिणी मता' इति ॥ १४ ॥ अत एव—तवेदृशप्रभावदर्शनक्षमत्वादेव । इन्द्रजालिना-मायादर्शननिपुणेनै- न्द्रजालिकेन । मायाम्-इन्द्रजालम् । विप्रलब्धः-वञ्चितः । न मर्षणीयम्-न क्षन्त- व्यम् । दौरात्म्यम्-दुष्टता । हरिहर प्रभृति देवश्रेष्ठोंको मैं बुला सकता हूँ, आकाशचारी नक्षत्रोंकी गति रोक दे सकता हूँ । पर्वत तथा गांवों से पूर्ण इस नगरीको जलपूर्ण बनाकर उस सारे पानीको देखो, मैं तुरत पी जाता हूँ ॥ १४ ॥ क्षपणक—अरे कापालिक, इसीसे तो कहता हूँ कि किसी ऐन्द्रजालिकने माया दिखाकर ठग लिया है । कापालिक—पाप, फिर भी तू परमेश्वरको ऐन्द्रजालिक बताकर उनके ऊपर आक्षेप करता है । अब तुम्हारी दुष्टता नहीं सही जाती है । (तलवार खींचकर) अब इसका—
तृतीयोऽङ्कः ११५ एतत्करालकरवालनिकृत्तकण्ठ- नालोच्छलद्बहुलफेनिलबुद्बुदौघैः । सार्धं डमड्डमरुडांकृतिकूतभूत- वर्गेण भर्गगृहिणीं रुधिरैर्धिनोमि ॥ १५ ॥ ( इति खड्गमुद्यच्छति ) क्षपणकः—( सभयम् ) महाभाग, अहिंसा परमो धर्मोऽस्ति । ( महा- भाअ, अहिंसापलमो धम्मो त्थि ) ( भिक्षोरङ्कं प्रविशति ) : भिक्षुः—( कापालिकं वारयन् ) भो भो महाभाग, कौतुकप्रयुक्तवाक्कल- हेनायुक्तमेतस्मिंस्तपस्विनि प्रहर्तुम् । एतदिति०—एतदिति हस्तधृतखड्गनिर्देशः, एतेन मम हस्तस्थितेन करालेन भीषणेन करवालेन खड्गेन निकृत्तम् खण्डितं यत्कण्ठनालम् गलधमनी ततः उच्च- लद्भिः ऊर्ध्वप्रवाहिभिः बहुलैः भूरिभिः फेनिलबुद्बुदौघैः वेगप्रवृत्ततया फेनयुक्त- बुद्बुदसमुदयैः रुधिरैः ( करणभूतैः ) डमड्डमरुडांकृतिभिः शब्दायमानडमरुशब्दैः आहूतः आकारितः यः भूतानाम् प्रेतानाम् वर्गः गणः तेन सार्धम् सह भर्गगृहिणीम् शिवाम् धिनोमि तर्पयामि । अनेन भीषणेन कृपाणेन तव शिरसि मया छिद्यमाने त्वत्कण्ठनालात् प्रवृत्तानि यानि सबुद्बुदफेनिलरुधिराणि तैः डमरुनादाहूतभूतसह- चरीं शिवां तर्पयामीत्यर्थः । वसन्ततिलकं वृत्तम् ॥ १५ ॥ उद्यच्छति-प्रहर्तुमुत्थापयति । अहिंसापरमो धर्मोऽस्ति, तेन मा मां हिंसीरिति निवेदनं फलितम् । भिक्षोः-बौद्धतपस्विनः । कापालिकं वारयन्-खड्गनिपातनादवरुन्धन् । कौतुकप्रयुक्तवाक्कलहेन-कुतूहल- प्रवर्त्तितकथोपकथनेन । एतस्मिन्-जैनसाधौ । प्रहर्तुम्-प्रहारं कर्तुम् । इस तलवारसे कण्ठ काटकर कण्ठनालसे निकलते हुए फेनिल बुलबुलोंके समुदायसे डमरुशब्दाहूत भूतगणके साथ शिवभामिनीको तर्पित करता हूँ ॥ १५ ॥ ( तलवार उठाता है ) क्षपणक—(भयपूर्वक) महाभाग, अहिंसा परम धर्म है । ( भिक्षुकी गोदमें पैठ जाता है ) भिक्षु—( कापालिकको रोकता हुआ ) अजी महाशय, कौतुकप्रयुक्त बातचीतके कारण इस तपस्विजनपर प्रहार करना अनुचित है ।
११६ प्रबोधचन्द्रोदयम् कापालिकः- ( खड्गं प्रतिसंहरति ) क्षपणकः- ( समाश्वस्य ) महाभागो यदि संहृतघोररोषावेशः संवृत्त- स्ततोऽहं किमपि प्रष्टुमिच्छामि । (महाभाओ जदि संहलिदघोललोसावेसो संवृत्तो तदो अहं किंपि पुच्छिदुमिच्छेमि ) कापालिकः-पृच्छ । क्षपणकः-श्रुतो युष्माकं परमो धर्मः । अथ कीदृशः सौख्यमोक्षः । ( सुदो तुम्हाणं परमो धम्मो । अध केदिसो सोक्खमोक्खो ) कापालिकः-शृणु- दृष्टं कापि सुखं विना न विषयैरानन्दबोधोज्झिता जीवस्य स्थितिरैव मुक्तिरुपलावस्था कथं प्रार्थ्यते । प्रतिसंहरति-नियच्छति । संहृतघोररोषावेशः-नियन्त्रितभयानककोपावेगः । सौख्यमोक्षः-आनन्दस्वरूपा मुक्तिः । दृष्टं कापीति० क्वापि कुत्रापि विषयैः स्रक्चन्दनवनितादिभिः विना अन्तरेणं सुखम् आनन्दः न दृष्टम् कारणस्यासत्त्वे कार्याभावस्य स्वाभाविकतयाऽऽनन्दकारण- त्वेनाभिमतानां स्रक्चन्दनादीनामभावे सुखमशक्यसम्भावमिति भावः । ननु मोक्षो नानन्दरूपः किन्तु दुःखाभावरूप एव मोक्षः समागतो नैयायिकैस्तत्राह- उपलावस्था प्रस्तरभावेनावस्थानं जीवस्य स्थितिरैव ( मोक्षः ) सा कथं प्रार्थ्यते केन प्रकारेण पुमर्थो भवति, चेतनस्याचेतनत्वापत्तिर्हानिरेव न लाभ इति तादृश्या मुक्तेरप्रार्थनीयत्वमिति भावः । उपहसितोऽयं मोक्षो नैषधीये श्रीहर्षेण-'मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् । गौतमं तमवेक्ष्यैव यथावित्थ तथैव सः' इति । कापालिक- (तलवारको समेटता है ) क्षपणक- ( आश्वस्त होकर ) यदि आप रोषके वेगको रोक चुके हों तो मैं कुछ पूछना चाहता हूँ। कापालिक-पूछो । क्षपणक-आपके परम धर्मके विषयमें तो सुन लिया, सौख्यमोक्ष आपका कैसा है ? कापालिक-सुनो- विषयोंके बिना आनन्द नहीं प्राप्त होता है और शिलाभावरूप मोक्ष जीव क्यों
तृतीयोऽङ्कः ११७ पार्वत्याः प्रतिरूपया दयितया सानन्दमालिङ्गितो मुक्तः क्रीडति चन्द्रचूडवपुरित्यूचे मृडानीपतिः ॥ १६ ॥ भिक्षुः—महाभाग, अश्रद्धेयमेतदर्वीतरागस्य मुक्तिरिति । क्षपणकः—अरे कापालिक, यदि न कुप्यसि तर्हि भणामि । शरीरी सरागी मुक्त इति विरुद्धम् । ( अले कावालित्र, जइ ण कुप्पसि तदो भणामि । सलीलो सलागी मुक्केति विरुद्धम् ) कापालिकः—( स्वगतम् ) अये, अश्रद्धादूषितमनयोरन्तःकरणम् । भव- त्वेवं तावत् । ( प्रकाशम् ) श्रद्धे, इतस्तावत् । ( ततः प्रविशति कापालिकीरूपधारिणी श्रद्धा ) तन्मवेवं कीदृशो मोक्षस्तवभिमत इति चेत्तत्राह—पार्वत्याः हरभार्याया गौर्याः प्रति- रूपया मूर्त्या पार्वतीभावं प्राप्तया दयितया स्वभार्यया सानन्दम् मद्यादिसेवनोत्से- जनया सहर्षम् आलिङ्गितः आश्लिष्टतनुः मुक्तः पाशापगमेन बन्धरहितः चन्द्रचूड- वपुः शिवाभिन्नः साधकः क्रीडति विहरति इति मृडानीपतिः शिव ऊचे उक्तवान् । कौलागमानुसारं साधकः शिवरूपस्तद्भार्या पार्वतीरूपा, तयाऽऽलिङ्गितस्य विधुवन- विहारजन्माऽऽनन्दधुरेव मोक्ष इति शिवोक्तिरिति तात्पर्यम् । शार्दूलविक्रीडितमेव वृत्तम् ॥ १६ ॥ अर्वीतरागस्य रागयुक्तस्य । रागापगमे एव मुक्तिर्जायते, यदि जायातारागः स्थित एव तदा न मुक्तिसम्भव इति । शरीरी सरागी-देहसम्बन्धवान्, रागयुक्तश्च । अश्रद्धाऽऽक्षिप्तम्-अविश्वासोपहतम् । एतेऽविश्वासोपहता अत एव चेमे मोक्ष- तत्त्वबोद्धुमशक्ता इति भावः । भवत्वेवं तावत्-यथाऽमीषां श्रद्धा स्यात्तथा यत्नः क्रियतामित्यर्थः । चाहेगा ? अतः पार्वतीके प्रतिरूपमे अवस्थित अपनी प्रियतमासे आलिङ्गित होकर शिव- स्वरूप जीव मुक्त हो क्रीडा करता है यह शिवने कहा है ॥ १६ ॥ भिक्षु—इस बात पर श्रद्धा नही हो रही है कि विना विरागके ही मुक्ति होती है । क्षपणक—अरे कपालिक, यदि क्रोध न करो तो पूछता हू कि शरीरी और रागवान् मुक्त होता है यह विरुद्ध है । कापालिक—( स्वगत ) अरे, इन दोनोंका हृदय अश्रद्धासे भरा है । अच्छा रहे । प्रकाश ) श्रद्धे, इधर तो आओ । ( कापालिकीरूपमे श्रद्धाका प्रवेश )
११६ प्रबोधचन्द्रोदयम् करुणा—सखि, पश्य पश्य रजसः सुता श्रद्धा । या एषा— विस्पष्टनीलोत्पललोललोचना नरास्थिमालाकृतचारुभूषणा । नितम्बपीनस्तनभारमन्थरा विभाति पूर्णेन्दुमुखी विलासिनी ॥ १७ ॥ ( सहि, पेक्ख पेक्ख रजससुदा सद्धा । जा एसा— विप्पुट्ठणीलुप्पललोललोअणा नरत्थिमालाकिदचालुभूषणा । णिअम्बपीणत्थणभारमन्थला विहादि पुण्णोन्दुमुही विलासिणी ॥ १७ ॥ ) श्रद्धा—( परिक्रम्य ) एषास्मि । आज्ञापयतु स्वामी । ( एसम्हि । आण- वेदु सामी ) कापालिकः—प्रिये, एनं दुरभिमानिनं भिक्षुं तावद्गृहाण । ( श्रद्धा भिक्षुमालिङ्गति ) रजसः सुता-राजसी । विस्पष्टेति० विस्पष्टे विकसिते ये नीलोत्पले नीलकमले ते इव लोले चपले लोचने यस्याः सा तादृशी विकसितारविन्दस्पर्द्धिचलनयना नरास्थिमालाकृतचारुभूषणा नरास्थिमालाऽलङ्कृता नितम्बयोः श्रोण्योः पीनस्तनयोः स्थूलकुचयोश्च भारेण मन्थरा मन्दगमना पूर्णेन्दुमुखी समग्रशशधरवदना विलासिनी वनिता विभाति शोभते । कापालिक्या नयनशोभाऽलङ्कारसज्जामन्दगतयो नितान्तहृदयङ्गमा अत- श्चेयं विलासिनी, तेन च मदन्तराकर्षिकेति ध्वनितम् । क्वचित्पुस्तके 'विस्पष्टे'त्य- स्य स्थाने 'विनिद्रे'ति पाठः । स्पष्टमन्यत् ॥ १७ ॥ दुरभिमानिनम्-मिथ्याभिमानशालिनम् बौद्धसन्न्यासिनम् । गृहाण-आश्रय । करुणा—सखि, देखो, यह राजसी श्रद्धा है, जो यह— विकसित नीलकमल सदृश आँखों वाली तथा नरास्थिमालाभूषिता, नितम्ब तथा पीनस्तनके भारसे मन्दगामिनी पूर्ण चन्द्रानना विलासिनी दीख रही है ॥ १७ ॥ श्रद्धा—( चलकर ) यहीं तो हूँ, आप आज्ञा दे । कापालिका—प्रिये, इस दुरभिमानी भिक्षुको आलिङ्गित करो । ( श्रद्धा भिक्षुको आलिङ्गन पाशमें बांधती है )
तृतीयोऽङ्कः ११६ भिक्षुः—(सानन्दं परिष्वज्य रोमाञ्चमभिनीय जनान्तिकं ) अहो, सुखस्पर्शा कापालिकी । तथाहि— रण्डाः पीनपयोधराः कति मया चण्डानुरागाद्भुज- द्वन्द्वापीडितपीवरस्तनभरं नो गाढमालिङ्गिताः । बुद्धेभ्यः शतशः शपे यदि पुनः कुत्रापि कापालिकी पीनोत्तुङ्गकुचावगूहनभवः प्राप्तः प्रमोदोदयः ॥ १८ ॥ श्रद्धया गृहीते भिक्षौ तस्य हृदये कापालिकोक्तिषु विश्वासः समुत्पत्स्यते, ततश्च तस्याप्याचारः परिवर्त्तनं यास्यति, तदर्थमेव श्रद्धायै भिक्षोरालिङ्गनायाज्ञाप्रदानम् , सा चेयं राजसी श्रद्धा, सात्त्विकी श्रद्धा स्वेषां पार्श्वे नैवोपसर्पतीति बोध्यम् । सुखस्पर्शा-आनन्दप्रदालिङ्गना । रण्डा इति० मया भिक्षुणा चण्डानुरागात् उत्कटकामावेशवशात् पीनपयोधराः मांसलकुचाः कति रण्डाः चिरमृतपतिकाः स्त्रियः भुजद्वन्द्वेन बाहुभ्याम् आपीडितः यावद्वलं मर्दितः पीवरयोः स्थूलयोः स्तनयोर्भरः भारः यस्यां क्रियायां तत्तथा गाढम् सर्वांशेनालम्ब्य नो आलिङ्गिताः। अनेकशो मयोत्कटभावेनोद्रिक्तकामविक्रियेण बह्वो रण्डाः पीनपयोधरनिर्दयोपमर्दनपूर्वकं यथाविध्याश्लिष्टा इत्यर्थः । बुद्धेभ्यः स्वपरम- गुरुभ्यः शतशः शपे शपथं करोमि, यदि पुनः कुत्रापि कस्मिंश्चिदपि रण्डागालिङ्गने कापालिक्या अस्याः कापालिकदास्याः पीनयोः स्थूलयोः उत्तुङ्गयोः अपतितयोः कुचयोः अवगूहनम् आश्लेषः तद्भवः तदुदितः प्रमोदोदयः आनन्दोद्गमः प्राप्तः प्रत्यक्षीकृतः । बह्वो रण्डा मयाऽऽश्लिष्टाः परमस्याः कापालिक्या आलिङ्गने यः प्रचु- रानन्दः स नान्यत्र कुत्रापि दृष्ट इति बुद्धाय शपमानोऽहं ब्रुवे तन्नात्र मिथ्यात्वमा- शङ्कनीयमित्यर्थः । अत्र स्त्रीसामान्यं विहाय रण्डापदोपादानेन तासां चिरानुपयुक्तत्वं तेन तदङ्गानां सुरते समधिकानन्ददायित्वम्, चण्डानुरागादिति पुंस उद्रिक्तभावेन रतिप्रवृत्तौ रतेः सुखमयत्वम्, गाढमिति सर्वाङ्गसङ्गजन्मा चैत्यात्युत्कृतं प्रकृष्टत्वम्, बुद्धेभ्यः शपे इत्यस्यार्थस्य नितान्तविश्वास्यत्वानुरोधः, कुत्रापीति सर्वरण्डाति- शायिसुरतवत्स्याऽस्या वास्तविकं प्रशस्तसुरतत्वमित्याद्यर्था व्यज्यन्तेऽत्र । शार्दूल- विक्रीडितं वृत्तम् ॥ १८ ॥ भिक्षु—( सानन्द आलिङ्गन करके रोमाञ्चित हो प्रकट हो कर ) अहा, कापालिकीका स्पर्श कितना सुखप्रद है ! क्योंकि— प्रचण्ड अनुरागवश दोनों हाथोंसे दोनों पीनस्तनोंको मसलकर कितनी पीनस्तनी रांडोंको गले लगाया है,—सौ बुद्धोंकी शपथ खाता हूं—कहीं भी इस कापालिकीके पीन तथा उन्नत कुचोंके आलिङ्गनके समान आनन्द नहीं मिला ॥ १८ ॥
१२० प्रबोधचन्द्रोदयम् अहो पुण्यं कापालिकचरितमहो श्लाघ्यः सोमसिद्धान्तः । आश्चर्योऽयं धर्मः । भो महाभाग, सर्वथा बुद्धानुशासनमस्माभिरुत्सृष्टम् । प्रविष्टाः स्मः पारमेश्वरं सिद्धान्तम् । तदाचार्यस्त्वं शिष्योऽहम् । प्रवेशय मां पार- मेश्वरीं दीक्षाम् । क्षपणकः—अरे भिक्षो, कापालिकीस्पर्शदूषितस्त्वम् । तद्दूरमपसर । ( अले भिक्खुअ, कावालिणीपलसदूसिदं तुमम् । ता दूलं अपसल ) भिक्षुः—आः पाप, वञ्चितोऽसि रे कापालिक्या परिरम्भमहोत्सवेन । कापालिकः—प्रिये, क्षपणकं गृहाण । ( कापालिकी क्षपणकमालिङ्गति ) क्षपणकः—( सरोमाञ्चम् ) अहो अर्हन् ! अहो अर्हन् ! कापालिक्याः स्पर्शसुखम् । सुन्दरि, देहि देहि पुनरप्यङ्कपालीम् । ( स्वगतम् ) अरे, महान् खल्विन्द्रियविकार उपस्थितः । तद्येस्ति कोऽप्युपायः । किमत्र युक्तम् । भवतु पिच्छिकया छादयिष्यामि । पुण्यम्-पवित्रम्, श्लाघ्यः-प्रशंसनीयः, सच एवासाधारणानन्दप्रदतया श्ला- घ्यत्वं बोध्यम् । उत्सृष्टम्-त्यक्तम् । पारमेश्वरम्-शैवागमोक्तम् कापालिकसिद्धा- न्तम् । दीक्षाम्-उपासनाप्रक्रियार्हतासम्पादनाय गुरुमन्त्रोपदेशम् । कापालिकीस्पर्शदूषितः-कापालिक्या सह गात्रसम्पर्केण पतितः । अपसर-गच्छ, मा मां स्प्रान्क्षीरित्यर्थः । परिरम्भमहोत्सवेन-आलिङ्गनजनितेन प्रमोदेन । अङ्कपालीम्-उरावुपवेश्यालिङ्गनम् । इन्द्रियविकारः—ध्वजोत्थानादिरूपः । अहा ! धन्य है कापालिकचरित, प्रशंसनीय है सोमसिद्धान्त । महाशय, मैने सर्वथा बौद्धमत छोड़ दिया । पारमेश्वर मतको मानता हूँ । तुम आचार्य हुए, मै शिष्य रहा । मुझे परमेश्वर मतकी दीक्षा दो । क्षपणक—अरे भिक्षु, तू कापालिकी स्पर्शसे दूषित हो चुका है, दूर हट । भिक्षु—आः पाप, तू अभागा है कि कापालिकीके आलिङ्गनसे वञ्चित है। कापालिक—प्रिये, क्षपणकसे लिपट जा । ( कापालिकी क्षपणकसे लिपटती है ) क्षपणक —( रोमा ञ्चपूर्वक ) अहो अर्हन्, अहो अर्हन् , कापालिकीके स्पर्शमे कितना सुख हे । सुन्दरि, दो दो फिरसे आलिङ्गन । ( स्वगत ) अरे, महान् इन्द्रियविकार उपस्थित है । क्या इसका कोई उपाय है । क्या किया जाय ? अच्छा, पिच्छिकासे आच्छादित कर लेता हू ।
तृतीयोऽङ्कः १२१
अयि पीनघनस्तनशोभने परित्रस्तकुरङ्गविलोचने । यदि रमसे कापालिकीभावैः श्रावकाः किं करिष्यन्तोति ॥ १६ ॥ अहो कापालिकदर्शनमेवैकं सौख्यमोक्षसाधनम् । भो कापालिक, अहं तव सांप्रतं दासः संवृत्तः। मामपि महाभैरवानुशासने दीक्षय । ( अहो अरिहन्त, अहो अरिहन्त, कापालिनीए पलससुहं । सुन्दलि, देहि देहि पुणोवि अङ्कपालीम् । अरे, महन्तो क्खु इन्द्रियविच्चालो उवत्थिदो । ता अत्थि कोवि उवाओ । किं एत्थ जुत्तम् । भोदु । पिच्छिआए ढंकिस्सम् । अयि पीणघणत्थणसोहणि पलितत्थकुलङ्गविलोअणि । जइ लमसि कावालिणीभावेहि सावका किं कलिस्र्दि ॥ अहो कावालिअदंसणं जेव्व इदकं रौक्खमोक्खसाहणम् । भो कावालिअ, हग्गे तुहके सम्पंदं दासो संवृत्तो । मंपि महाभैरवाणुसासणे दिक्खय ) कापालिकः—उपविश्यताम् ।
पिच्छिकया-मयूरपुच्छकृतया मार्गमार्जनसाधनतया जैनैरुपयुक्तया 'पिच्छिका' इति प्रसिद्धया । छादयामि-पुंव्यञ्जनमिति शेषः । अयीति० अयि पीनघनस्तनशोभने पीनौ स्थूलौ घनौ परस्परमिलितौ यौ स्तनौ ताभ्यां शोभने हृद्ये, परित्रस्तकुरङ्गविलोचने भीतहरिणनयने, यदि (त्वम्) कापा- लिकीभावैः शृङ्गारचेष्टाभिः रमसे मया सह विहरसि, श्रावकाः जैनमतावलम्बिनो गृहस्थाः किङ्करिष्यन्ति न किमपीत्यर्थः । कुत्रापि यान्तु श्रावकाः, यत्तेभ्यो रोचेत कुर्वन्तु तत्ते, दत्तो मया जलाञ्जलिस्तेभ्यो यदि त्वं मया सह शृङ्गारचेष्टाभी रमसे तदेत्यर्थः ॥ १९ ॥ सौख्यमोक्षसाधनम्—सौख्यमिश्रितस्यापवर्गस्य । रतेरेव मोक्षतया सौख्ययुत एषां मोक्ष इत्याशयः । महाभैरवानुशासने-शैवागमे । दीक्षय-दीक्षितं कुरु, मन्त्र- प्रदानेन प्रवेशयेत्यर्थः ।
ओ पीन और स्थूल कुचवाली, भयभीतहरिणलोचने कापालिकी, यदि तुम इसी तरह मुझे आलिङ्गन देती रही तो मुझे श्रावकोसे क्या लेना देना है ॥ १९ ॥ कापालिकका साक्षात्कार ही सोख्य तथा मोक्षका साधन है । अजी कापालिक, मैं अबसे तुम्हारा दास हू । मुझे भी महाभैरवानुशासनमे दीक्षित कर लो । कापालिक—बैठो । (दोनो बैठते हैं )
१२२ प्रबोधचन्द्रोदयम् ( उभौ तथा कुरुतः ) ( कापालिको भाजनं समादाय ध्यानं नाटयति ) श्रद्धा—भगवन्, सुरया पूरितं भाजनम् । (भअव्वं, सुलाए पूलितं भाअणम्) कापालिकः—( पीत्वा शेषं भिक्षुक्षपणकयोरर्पयति ) इदं पवित्रममृतं पीयतां भवभेषजम् । पशुपाशसमुच्छेदकारणं भैरवोदितम् ॥ २० ॥ ( उभौ विमृशतः ) क्षपणकः—अस्माकमार्हतानुशासने सुरापानं नास्ति । (अम्हाणं अलि- हन्ताणुसासणे सुरापाणं णत्थि ) भिक्षुः—कथं कापालिकोच्छिष्टां सुरां पास्यामि ? तथा कुरुतः—उपविशत इत्यर्थः । भाजनम्-पानपात्रम् । सुरया-मद्येन । पूरितम्-भृतम् । ध्यानमात्रया सुरया स्वयमागत्य पूरितं तव पात्रमित्यर्थः । इदमिति० पवित्रम् स्वभावपूतम् अमृतम् सुधोपमम् ( सर्वविधसन्तापहरत्वेन सुधासाम्यम् ) भवभेषजम् संसारस्यागमनादिप्रवाहस्य जन्मजरामरणादिरूपक्लेश- परम्पराया इत्यर्थः, भेषजम् औषधरूपं निवर्त्तकम्, भैरवोदितम् सर्वज्ञमहाभैरवोप- दिष्टम् पशुपाशसमुच्छेदकारणम् पशुर्बद्धो जीवस्तस्य पाशो बन्धस्तस्य समुच्छेदे आत्यन्तिकविनाशे कारणम् इदम् सुरारूपम् पीयताम् आस्वाद्यताम् । इयमामन्त्र- णोक्तिः सुरापायिनां पानभाजनग्रहणानन्तरं कर्तव्यतया प्रथते ॥ २० ॥ आर्हतानुशासने-जैनागमे । कापालिकोच्छिष्टाम्-कापालिकपीतावशेषाम् । ( कापालिक पानपात्र लेकर ध्यानका अभिनय करता है ) श्रद्धा—भगवन्, प्यालेमे शराब भर दी गई । कापालिक—( पीकर शेष भिक्षु और क्षपणकको देता है ) यह पवित्र अमृत तथा भवभेषज पीलो, जिसे भैरवने पशुपाशसमुच्छेदका कारण कहा है ॥ २० ॥ ( दोनों सोचने लगते है ) क्षपणक—हमारे जैन मतमें सुरापान नहीं है । भिक्षु—कापालिककी उच्छिष्ट सुरा कैसे पिऊंगा ?