भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 137, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 137

तृतीयोऽङ्कः ११६ भिक्षुः—(सानन्दं परिष्वज्य रोमाञ्चमभिनीय जनान्तिकं ) अहो, सुखस्पर्शा कापालिकी । तथाहि— रण्डाः पीनपयोधराः कति मया चण्डानुरागाद्भुज- द्वन्द्वापीडितपीवरस्तनभरं नो गाढमालिङ्गिताः । बुद्धेभ्यः शतशः शपे यदि पुनः कुत्रापि कापालिकी पीनोत्तुङ्गकुचावगूहनभवः प्राप्तः प्रमोदोदयः ॥ १८ ॥ श्रद्धया गृहीते भिक्षौ तस्य हृदये कापालिकोक्तिषु विश्वासः समुत्पत्स्यते, ततश्च तस्याप्याचारः परिवर्त्तनं यास्यति, तदर्थमेव श्रद्धायै भिक्षोरालिङ्गनायाज्ञाप्रदानम् , सा चेयं राजसी श्रद्धा, सात्त्विकी श्रद्धा स्वेषां पार्श्वे नैवोपसर्पतीति बोध्यम् । सुखस्पर्शा-आनन्दप्रदालिङ्गना । रण्डा इति० मया भिक्षुणा चण्डानुरागात् उत्कटकामावेशवशात् पीनपयोधराः मांसलकुचाः कति रण्डाः चिरमृतपतिकाः स्त्रियः भुजद्वन्द्वेन बाहुभ्याम् आपीडितः यावद्वलं मर्दितः पीवरयोः स्थूलयोः स्तनयोर्भरः भारः यस्यां क्रियायां तत्तथा गाढम् सर्वांशेनालम्ब्य नो आलिङ्गिताः। अनेकशो मयोत्कटभावेनोद्रिक्तकामविक्रियेण बह्वो रण्डाः पीनपयोधरनिर्दयोपमर्दनपूर्वकं यथाविध्याश्लिष्टा इत्यर्थः । बुद्धेभ्यः स्वपरम- गुरुभ्यः शतशः शपे शपथं करोमि, यदि पुनः कुत्रापि कस्मिंश्चिदपि रण्डागालिङ्गने कापालिक्या अस्याः कापालिकदास्याः पीनयोः स्थूलयोः उत्तुङ्गयोः अपतितयोः कुचयोः अवगूहनम् आश्लेषः तद्भवः तदुदितः प्रमोदोदयः आनन्दोद्गमः प्राप्तः प्रत्यक्षीकृतः । बह्वो रण्डा मयाऽऽश्लिष्टाः परमस्याः कापालिक्या आलिङ्गने यः प्रचु- रानन्दः स नान्यत्र कुत्रापि दृष्ट इति बुद्धाय शपमानोऽहं ब्रुवे तन्नात्र मिथ्यात्वमा- शङ्कनीयमित्यर्थः । अत्र स्त्रीसामान्यं विहाय रण्डापदोपादानेन तासां चिरानुपयुक्तत्वं तेन तदङ्गानां सुरते समधिकानन्ददायित्वम्, चण्डानुरागादिति पुंस उद्रिक्तभावेन रतिप्रवृत्तौ रतेः सुखमयत्वम्, गाढमिति सर्वाङ्गसङ्गजन्मा चैत्यात्युत्कृतं प्रकृष्टत्वम्, बुद्धेभ्यः शपे इत्यस्यार्थस्य नितान्तविश्वास्यत्वानुरोधः, कुत्रापीति सर्वरण्डाति- शायिसुरतवत्स्याऽस्या वास्तविकं प्रशस्तसुरतत्वमित्याद्यर्था व्यज्यन्तेऽत्र । शार्दूल- विक्रीडितं वृत्तम् ॥ १८ ॥ भिक्षु—( सानन्द आलिङ्गन करके रोमाञ्चित हो प्रकट हो कर ) अहा, कापालिकीका स्पर्श कितना सुखप्रद है ! क्योंकि— प्रचण्ड अनुरागवश दोनों हाथोंसे दोनों पीनस्तनोंको मसलकर कितनी पीनस्तनी रांडोंको गले लगाया है,—सौ बुद्धोंकी शपथ खाता हूं—कहीं भी इस कापालिकीके पीन तथा उन्नत कुचोंके आलिङ्गनके समान आनन्द नहीं मिला ॥ १८ ॥

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक) · पृष्ठ 137, कुल 274 में से · BharatKosha