प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
पृष्ठ 138, कुल 274 में से
संदर्भ में पढ़ें१२० प्रबोधचन्द्रोदयम् अहो पुण्यं कापालिकचरितमहो श्लाघ्यः सोमसिद्धान्तः । आश्चर्योऽयं धर्मः । भो महाभाग, सर्वथा बुद्धानुशासनमस्माभिरुत्सृष्टम् । प्रविष्टाः स्मः पारमेश्वरं सिद्धान्तम् । तदाचार्यस्त्वं शिष्योऽहम् । प्रवेशय मां पार- मेश्वरीं दीक्षाम् । क्षपणकः—अरे भिक्षो, कापालिकीस्पर्शदूषितस्त्वम् । तद्दूरमपसर । ( अले भिक्खुअ, कावालिणीपलसदूसिदं तुमम् । ता दूलं अपसल ) भिक्षुः—आः पाप, वञ्चितोऽसि रे कापालिक्या परिरम्भमहोत्सवेन । कापालिकः—प्रिये, क्षपणकं गृहाण । ( कापालिकी क्षपणकमालिङ्गति ) क्षपणकः—( सरोमाञ्चम् ) अहो अर्हन् ! अहो अर्हन् ! कापालिक्याः स्पर्शसुखम् । सुन्दरि, देहि देहि पुनरप्यङ्कपालीम् । ( स्वगतम् ) अरे, महान् खल्विन्द्रियविकार उपस्थितः । तद्येस्ति कोऽप्युपायः । किमत्र युक्तम् । भवतु पिच्छिकया छादयिष्यामि । पुण्यम्-पवित्रम्, श्लाघ्यः-प्रशंसनीयः, सच एवासाधारणानन्दप्रदतया श्ला- घ्यत्वं बोध्यम् । उत्सृष्टम्-त्यक्तम् । पारमेश्वरम्-शैवागमोक्तम् कापालिकसिद्धा- न्तम् । दीक्षाम्-उपासनाप्रक्रियार्हतासम्पादनाय गुरुमन्त्रोपदेशम् । कापालिकीस्पर्शदूषितः-कापालिक्या सह गात्रसम्पर्केण पतितः । अपसर-गच्छ, मा मां स्प्रान्क्षीरित्यर्थः । परिरम्भमहोत्सवेन-आलिङ्गनजनितेन प्रमोदेन । अङ्कपालीम्-उरावुपवेश्यालिङ्गनम् । इन्द्रियविकारः—ध्वजोत्थानादिरूपः । अहा ! धन्य है कापालिकचरित, प्रशंसनीय है सोमसिद्धान्त । महाशय, मैने सर्वथा बौद्धमत छोड़ दिया । पारमेश्वर मतको मानता हूँ । तुम आचार्य हुए, मै शिष्य रहा । मुझे परमेश्वर मतकी दीक्षा दो । क्षपणक—अरे भिक्षु, तू कापालिकी स्पर्शसे दूषित हो चुका है, दूर हट । भिक्षु—आः पाप, तू अभागा है कि कापालिकीके आलिङ्गनसे वञ्चित है। कापालिक—प्रिये, क्षपणकसे लिपट जा । ( कापालिकी क्षपणकसे लिपटती है ) क्षपणक —( रोमा ञ्चपूर्वक ) अहो अर्हन्, अहो अर्हन् , कापालिकीके स्पर्शमे कितना सुख हे । सुन्दरि, दो दो फिरसे आलिङ्गन । ( स्वगत ) अरे, महान् इन्द्रियविकार उपस्थित है । क्या इसका कोई उपाय है । क्या किया जाय ? अच्छा, पिच्छिकासे आच्छादित कर लेता हू ।