भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 125, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 125

तृतीयोऽङ्कः १०७ भिक्षुः—( सक्रोधम् ) आः पाप पिशाचाकृते, किमेवं प्रलपसि । क्षपणकः—अरे, मुञ्च क्रोधम् । शास्त्रगतं पृच्छामि । (अले, मुञ्च कोहम् । साच्छगदं पुच्छामि ) भिक्षुः—अरे क्षपणक, शास्त्रकथामपि वेत्सि । भवतु । प्रतीक्षामस्ता- वत् । ( उपसृत्य ) किं पृच्छसि । क्षपणकः—भण तावत्क्षणविनाशिना त्वया कस्य कृते इदं व्रतं धार्यते । ( भण दाव क्खणविणासिणा तुए कस्स किदे एदं व्वदं घालीअदि ) भिक्षुः—अरे श्रूयताम् । अस्मत्संततिपतितः कश्चिद्विज्ञानलक्षणः समुच्छिन्नवासनो मोक्ष्यते । क्षपणकः—अरे मूर्ख, कस्मिन्नपि मन्वन्तरे कोऽपि मुक्तो भविष्यति । पिशाचाकृते-पिशाचवज्जघनाकृतिशालिन् । क्षणविनाशिना-क्षणविनाशिसर्वमिति मन्यमानेन । अयमाशयः-यस्य मते सर्वं क्षणिकं तस्यात्माऽपि क्षणिकः, तर्हि किमर्थं व्रतादिकष्टं क्रियेत, येन व्रतं क्रियते तस्य तत्फलभोगायास्थायित्वादिति । अस्मत्सन्ततीति० भावानां क्षणिकत्वं ज्ञानाकारत्वं चातिष्ठमाना बौद्धा धीसन्तति- मनुवर्त्तमानामभिप्रयन्ति तेनैव शरीरपातप्रसङ्गमापाद्यमानं वारयन्ते, तदभिप्रायेणै- वेदमुत्तरम् , अस्मात् सन्ततिपतितः-अहं व्रतकत्र्त्ता यद्धीसन्ततौ तद्धी सन्ततौ भावी कोऽपि मोक्ष्यते, तेन व्रतानुष्ठायिमोक्ष्यमाणयोरेकसन्ततिगतत्वेन व्रतमोक्षयोर्न वैय- धिकरण्यमिति न त्वदुक्तवृथात्वशङ्का । समुच्छिन्नवासनः-नष्टवासनः, वासनानाशो मोक्षहेतुः स च व्रतादिकायक्लेशसाध्य इति बौद्धप्रसिद्धिसमनुरुध्योक्तम् । मन्वन्तरे-कतिपययुगान्तरे । भिक्षु—( क्रोधसे ) आः पाप पिशाचाकृते, क्या बक-बक कर रहा है । क्षपणक—अरे, क्रोध छोड़ो, शास्त्रगत बात पूछनी है । भिक्षु—अरे क्षपणक, तू शास्त्रकी बातें भी जानता है। अच्छी बात है। मैं इन्तजार करू गा । ( समीप जाकर ) क्या पूछता है । क्षपणक—तू क्षण विनाशी है तो फिर किसके लिये यह व्रत करता है । भिक्षु—अरे, सुनो, हमारी सन्ततिमे पतित कोई विज्ञानलक्षण निवृत्तवासन होगा । उसे मोक्ष होगा । क्षपणक—अरे मूर्ख, किसी मन्वन्तरमे कोई मुक्त होगा, तुम जो इस समय कष्ट उठा