भारतकोश
प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

पृष्ठ 130, कुल 274 में से

संदर्भ में पढ़ें
पृष्ठ 130

११२ प्रबोधचन्द्रोदयम् पश्यामि योगाञ्जनशुद्धचक्षुषा जगन्मिथो भिन्नमभिन्नमीश्वरात् ॥ १२ ॥ क्षपणकः—क एष कापालिकं व्रतं पुरुषो धारयति । तदेनमपि पृच्छामि । ( उपसृत्य ) अरेरे कापालिक, नरास्थिमुण्डमालाधारक, कीदृ- शस्तव धर्मः कीदृशस्तव मोक्षः ? ( को एसो कावालिअव्वरं पुलिसो धालेदि । ण णं वि पुच्छिस्सम् । अलेले कावालिअ, णलत्थिमुण्डमालाधारिअ, कीदिसो तुम्हे धम्मो, कीदिसो तुम्हे मोक्खो ? ) कापालिकः—अरे क्षपणक, धर्मं तावदस्माकमवधारय । मस्तिष्कान्त्रवसाभिपूरितमहामांसाहुतीर्जुह्वतां वह्रौ ब्रह्मकपालकल्पितसुरापानेन नः पारणा । सद्यः कृत्तकठोरकण्ठविगलत्कीलालधारोज्ज्वलै- रच्र्यो नः पुरुषोपहारबलिभिर्देवो महाभैरवः ॥ १३ ॥ पश्यामि । उच्चावचोऽयं प्रपञ्चः स्वयं परस्परभिद्यमानोऽपि न परमेश्वराद्भिद्यते यथा मुद्रिकाकङ्कणादेरन्योन्यभेदेऽपि सुवर्णादभिन्नता तद्वद् इति पश्यामीति भावः ॥१२॥ कापालिकम्-कपालीशिवस्तद्देवताकम् । अवधारय-जानीहि । मस्तिष्कान्तेति० मस्तिष्कम् कपालान्तर्गतं स्निग्धं द्रव्यम् , अन्त्राणि सिराः, वसा मज्जा, ताभिः अभिपूरितैः आधारितैः महामांसैः नरमांसैः वह्नौ आहुतीर्जुह्वताम् होमं कुर्वताम् नः अस्माकम् ब्रह्मकपाले ब्राह्मणजातिनरमुण्डे कल्पितायाः उपनी- तायाः सुरायाः मदिरायाः पानेन पारणा व्रतसमाप्तिः भवतीति शेषः, नराणां मांसानि तत् कपालगतस्निग्धद्रव्यतदन्त्रतन्मज्जभिराघार्य वह्नौ जुह्वतो वयं ब्राह्मण- जातिनृमुण्डे स्थापयित्वा सुरया पीतया व्रतं समापयाम इत्यर्थः । ( किञ्च ) सद्यः- कृत्तेभ्य तत्क्षणखण्डितेभ्यः कठोरकण्ठेभ्यः सबलजनदृढगलेभ्यः विगलताम् क्षरताम् जगत्को ईश्वरसे भिन्न तथा अभिन्न देखता हू ॥ १२ ॥ क्षपणक—यह कौन पुरुष कापालिक व्रत धारण किये हुए है ? इससे भी पूछूं । ( समीप जाकर ) अरे कापालिक, नरास्थिमुण्डमालाधारी, कैसा तुम्हारा धर्म तथा कैसा तुम्हारा मोक्ष है ? कापालिक—अरे क्षपणक, हमारा धर्म सुनले— मस्तिष्क, आंत, मज्जा, आदिसे युक्त नरमांसकी वह्निमें आहुति कर ब्रह्मकपालस्थित सुरापानसे पारणा होती है । सद्यः खण्डित कण्ठसे निकलते हुए शोणितकी धार वाली नरबलिसे हम महाभैरवकी आर्चा करते है ॥ १३ ॥

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक) · पृष्ठ 130, कुल 274 में से · BharatKosha